विततारम्भयाप्य् उच्चैर् ज्वालाजालतयेद्धया । उत्थायोत्थाय वलितं खललक्ष्म्येव लोलया
तेजस्तयापि परमाणुकणोदरे ऽपि दृष्टेत्थम् एवम् इह राम मया जगच्छ्रीः । अन्या च सा न च चिदम्बरतḫ परस्मात् स्वप्ने पुराचलगणो ऽत्र निदर्शनं वः
अथ वातमयीं धत्त्वा जगत्प्रेक्षणकौतुकात् । धारणां धीरया वृत्त्या वातताम् अहम् आगतः
सम्पन्नो ऽस्म्य् अनिलो वल्लीललनालोकलासकः । कमलोत्पलकुन्दादिजालकामोदपालकः
शीकरोत्करनीहारहेलाहरणतर्षुलः । सुरतश्रान्तसर्वाङ्गसमाह्लादनहर्षुलः
तृणगुल्मलतावल्लीदलताण्डवपण्डितः । लतौषधिफलोल्लासकुसुमामोदमण्डितः
मृदुर् मङ्गलकालेषु ललनालकचालकः । भीम उत्पातवातेषु पर्णवत्प्रौढपर्वतः
नन्दने कुन्दमन्दारमकरन्दरजोऽरुणः । नरके ऽङ्गारसम्भारो भुवि नीहारभासुरः
सागरे ऽसरलावर्तलेखानुमितसर्पणः । दिवि वारिदसञ्चारमृष्टामृष्टेन्दुदर्पणः
नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः । त्रैलोक्यसिद्धसञ्चारविमानधरणेहितः
सहोदर इव क्षिप्रगामित्वाद् अस्य चेतसः । अनङ्गो ऽपि समस्ताङ्गस् स्पन्दनानन्दचन्दनः
तुषारशीकरासारजरारोमविजर्जरः । आमोदयौवनोन्मादो मौनमार्दवशैशवः
नन्दनामोदमधुरो मधुरोदारसंसृतिः । चारुचैत्ररथोन्मुक्तो हृतकान्तारतश्रमः
चिरं गङ्गातरङ्गाङ्गदोलान्दोलनसश्रमः । श्रमस्वरूपज्ञतया निवारितरतश्रमः
पुष्पभारनतास् स्पर्शैर् वसन्तवनितालताः । चिरं चपलयंल् लोलदलहस्तालिलोचनाः
चिरं भुङ्क्त्वेन्दुबिम्बाङ्गं सुप्त्वा पूर्णाभ्रतल्पके । विधूय कमलानीकम् अपनीतरतश्रमः
समस्तरजसाम् ओको व्योमगामी तुरङ्गमः । आमोदमदमातङ्गसमुल्लासमहासुहृत्
धारोर्णाढ्यतडिच्छृङ्गपयोदपशुपालकः । तन्तुश् शीकरमुक्तानाम् अरिर् घर्मरजोरुजाम्
आकाशकुसुमामोदस् सर्वशब्दसहोदरः । नाडीप्रणालीसलिलं भूताङ्गोपाङ्गनर्तकः
मर्मकर्मकरैकात्मा हृद्गुहागेहकेसरी । नित्यम् एकान्तपथिकस् सारथिर् जातवेदसः
आमोदरत्नलुण्ठाको विमाननगरावनिः । दाहान्धकारशीतांशुश् शैत्येन्दुक्षीरसागरः
प्राणापानकलारज्ज्वा प्राणिनां यन्त्रवाहकः । अरिर् मित्रं च दीपानां द्वीपसञ्चरणे रतः
पुरोगतो ऽप्य् अदृश्यात्मा मनोराज्यपुरोपमः । तालवृन्ततिले तैलम् आलानं स्पन्ददन्तिनः
एकक्षणलवेनैव वलिताखिलभूधरः । वर्णावलितरङ्गाणां गङ्गावाहरवैककृत्
श्यामाम्बुवाहरजसां महावर्तकृद् अम्भसाम् । द्युनदीवाहवार्योघो नभोनीलोत्पलालिकः
शरीरावेष्टितोन्मुक्तपुराणतृणचोपनः । स्पन्दपद्मवनादित्यश् शब्दवर्षैकवारिदः
व्योमकाननमातङ्गश् शरीरगृहगर्गटः । धूलीकदम्बविपिनम् आशालिङ्गननायकः
स्त्यानीकरणसंशोषधृतिस्पन्दनसौरभैः । सशैत्यैẖ कर्मभिष् षड्भिर् अलब्धक्षण आक्षयम्
रसाकर्षणसुव्यग्रो नित्यं भ्रातेव तेजसः । हरणादानकर्तॄणाम् अङ्गानां विनियोगकृत्
शरीरनगरे नाडीमार्गैर् गतिनिरर्गलः । रसभाण्डपरावर्ताद् आयुर्मणिमहावणिक्