यथा याति नरस् सुप्तो जडतां चेतनो ऽपि सन् । चिद्व्योम गच्छद् दृश्यत्वं तथा जाड्यं प्रचेतति
आत्मानं चेतति ब्रह्म पृथ्व्यादीव यदा तदा । सुप्तं जडम् इवास्ते ऽन्तस् स्याद् अस्य न तद् अन्यथा
वस्तुतस् त्व् अस्य खोर्व्यादि नासद्रूपं न सन्मयम् । द्रष्टृदृश्यम् इवाभाति ब्रह्मैवैतत् समं स्थितम्
एतत् सत्यं परिज्ञानं यस्योत्पन्नम् अखण्डितम् । न तस्य पञ्चभूतानि न द्रष्टृदृश्यविभ्रमः
तदा मयैवं शुद्धेन तत् कृतं ब्रह्मरूपिणा । ब्रह्मरूपाद् ऋते किञ्चिद् एतत् कर्तुं न युज्यते
यदा सर्वम् इदं दृश्यं ज्ञातं ब्रह्म निरामयम् । तदा ब्रह्मपदस्थेन मयात्मैवैवम् ईक्षितः
यदा पुनर् अहं पञ्चभूतानीत्य् एव भावयन् । भवामि जड एवाहं तदा चेतामि किं किल
सुप्तो ऽस्मीति दृढं भावं बुद्धवांश् चेतनो ऽपि सन् । नैद्रम् एवैत्य् अलं जाड्यं न स चेतति किञ्चन
यस् तु प्रज्ञाप्रबुद्धात्मा देहस् तस्याधिभौतिकः । शाम्यत्य् उदेति विमलो बोधात्मैवातिवाहिकः
आतिवाहिकदेहेन तेन बोधात्मनाणुना । बृहता वा यथाकामं निर्वाणात्मा स तिष्ठते
बोधदेहेन हृदयं शिलानाम् अप्य् अभेदिना । प्रविश्याशु विनिर्याति याति पातालम् अम्बरम्
तस्मान् मया पुरा राम बोधदेहेन तत् तदा । तथा कृतम् अनन्तेन चिन्मयव्योमरूपिणा
वज्रपाषाणपातालनभोऽन्तरगमागमान् । कुर्वतस् तादृशस्याशु न विघ्न उपजायते
बोधमात्रशरीरेण यावद् आस्ते जडेष्व् असौ । पदार्थेषु तथाभूतस् तावत् तत्रावतिष्ठते
स्वेच्छयैव चलित्वाथ ततो ऽन्यत्र प्रयाति चेत् । तत् तत्रैव स्थितिं याति तथैवाङ्ग मतिर् यथा
बोधमात्रं विदुर् देहम् आतिवाहिकम् अव्ययम् । इदानीं त्वं तम् एवेह बुद्धो ऽनुभवसि स्वयम्
चिन्मात्रव्योमरूपो ऽस्मीत्य् अर्कादाव् इति बोधतः । आत्मैवास्तम् उपानीतस् सन्न् एवासन्न् इवात्मना
स्थितं स्वप्नादिजगति तमसेवासतेव वा । आवृतेनेव वान्यासाम् अलभ्येन सता दृशाम्
तरङ्गलेखयाङ्गारसरितस् स्वाङ्गलग्नया । मनोराज्यश्रियेवाशु प्रोत्पन्नस्तब्धदेहया
कज्जलालिकया वह्निविपिने पुष्पशोभया । फुल्लत्स्थलाम्बुजासारकिंशुकाशोकरूपया
विततारम्भयाप्य् उच्चैर् ज्वालाजालतयेद्धया । उत्थायोत्थाय वलितं खललक्ष्म्येव लोलया
तेजस्तयापि परमाणुकणोदरे ऽपि दृष्टेत्थम् एवम् इह राम मया जगच्छ्रीः । अन्या च सा न च चिदम्बरतḫ परस्मात् स्वप्ने पुराचलगणो ऽत्र निदर्शनं वः
अथ वातमयीं धत्त्वा जगत्प्रेक्षणकौतुकात् । धारणां धीरया वृत्त्या वातताम् अहम् आगतः
सम्पन्नो ऽस्म्य् अनिलो वल्लीललनालोकलासकः । कमलोत्पलकुन्दादिजालकामोदपालकः
शीकरोत्करनीहारहेलाहरणतर्षुलः । सुरतश्रान्तसर्वाङ्गसमाह्लादनहर्षुलः
तृणगुल्मलतावल्लीदलताण्डवपण्डितः । लतौषधिफलोल्लासकुसुमामोदमण्डितः
मृदुर् मङ्गलकालेषु ललनालकचालकः । भीम उत्पातवातेषु पर्णवत्प्रौढपर्वतः
नन्दने कुन्दमन्दारमकरन्दरजोऽरुणः । नरके ऽङ्गारसम्भारो भुवि नीहारभासुरः
सागरे ऽसरलावर्तलेखानुमितसर्पणः । दिवि वारिदसञ्चारमृष्टामृष्टेन्दुदर्पणः
नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः । त्रैलोक्यसिद्धसञ्चारविमानधरणेहितः