तन्मात्रगणम् एतत् सा स्वसङ्कल्पात्मकं चितिः । वेदनावसरे ऽण्वौघम् अनाकारैव पश्यति
बीजं जगत्सु ननु पञ्चकमात्रम् अस्य बीजं परा व्यवहिता चितिशक्तिर् आद्या । तज्जं तद् एव भवतीति सदानुभूतं चिन्मात्रम् एकम् अजम् आद्यम् अतो जगच्छ्रीः
परमे ब्रह्मणि स्फारे समे समसमस्थितौ । अनुत्पन्ननभस्तेजस्तमस्सत्तादिकात्मनि
पूर्वं चेत्यत्वकलनं स्वचेत्यांशस्य चेतनात् । उदेति चित्त्वकलनं चितिशक्तित्वचेतनात्
ततो जीवत्वकलनं चेत्यसम्पोषचेतनात् । ततो ऽहम्भावकलनं चेत्यैकपरतावशात्
ततो बुद्धित्वकलनम् अहन्तापरिणामतः । एतद् एव मनस्तादिशब्दतन्मात्रकादिमत्
औच्छून्याद् अन्यतन्मात्रभावनाद् भूतरूपिणः । अयम् इत्थं महागुल्मो जगदादिर् विलोक्यते
झगित्य् एव क्रमेणेति स्वप्ने पुरम् इवाकृतम् । महाकाशमहाटव्याम् उद्भूयोद्भूय नश्यताम्
जगत्करञ्जकुञ्जानां बीजम् एतद् अवापजम् । नापेक्षते किञ्चिद् अपि क्षितिवार्यनिलादिकम्
एतच् चिदात्मकं पश्चात् किलोर्व्यादि करिष्यति । स्वप्नसंवित्पुरम् इव चिन्मात्रात्मकम् एव तत्
जगदाद्यङ्कुरं यत्रतत्रस्थम् अपि मुञ्चति । जगतः पञ्चकं बीजं पञ्चकस्य चिद् अव्यया
यद् बीजं तत् फलं विद्धि तस्माद् ब्रह्ममयं जगत् । एवम् एष महाकाशे सर्गादौ पञ्चको गणः
चिच्छक्त्याकाशभूतात्मा कल्पितो ऽस्ति न वास्तवः । अनेनोच्छूनताम् एत्य यद् अपीदं वितन्यते
तद् अप्य् आकाशरूपात्म कलनात्म न सन्मयम् । न क्वचिन् नाम तत् सिद्धं यद् असिद्धेन साध्यते
खरूपं यद् विकल्पात्म कथं तत् सत्यताम् इयात् । अथ चेत् पञ्चकं ब्रह्म ब्रह्मात्मकतया तया
तत् पञ्चकविधिप्रौढो ब्रह्मैव त्रिजगद्भ्रमः । यथा स्फुरति सर्गादाव् एष पञ्चकसम्भवः
तथैवाद्येह भूतत्वे याति कारणतां स्वयम् । एवं न जायते किञ्चिज् जगज् जातं च लक्ष्यते
स्वप्नसङ्कल्पपुरवद् असत् सद् अनुभूयते । ब्रह्माकाशः पराकाशो जीवाकाशत्वम् आत्मनि
इति वेत्त्य् अवदातात्मा पृथ्व्यादीनाम् असम्भवात् । इत्य् एष जीवः कथितो व्योम्नि खात्मा यथोदितः
जीवाकाशस् त्व् इमं देहं यथा विन्दति तच् छृणु । जीवाकाशः खम् एवासौ तस्मिंस् तु परमाम्बरे
अत्र तेजःकणो ऽस्मीति स्वयं चेतति चिन्तया । तम् एवोच्छूनम् इव सद् भावयत्य् आत्मनाम्बरे
असद् एव सदाकारं सङ्कल्पेन्दुर् यथा शशम् । तम् एव भावयन् द्रष्टृदृश्यरूपतया स्थितः । एक एव द्विताम् एति स्वप्ने स्वमृतिबोद्धृवत्
किञ्चित् स्थौल्यम् इवादत्ते ततस् तारकतां विदन् । यथाभावित्वम् अत्रार्थभाविताच् चित्स्वरूपतः
ख एव खात्मा सततो ऽप्य् अयं सो ऽहम् इति स्वयम् । चित्त्वात् प्रत्ययम् आदत्ते स्वप्ने त्वम् इव पान्थताम्
तारकाकारम् आकारं भाविदेहाभिधं ततः । भावयन् याति तद्भावं चित्तं चेत्यार्थताम् इव
परित्यज्येव तद् बाह्यं ततस् तारककोटरे । अन्तर् भाति बहिस्स्थो ऽपि पर्वतो मकुरे यथा
कूपसंस्थं यथा देहं समुद्गकगतं च वा । स्वप्नसङ्कल्पयोस् संविद् वेत्त्य् एवं जीवको ऽणुके
खरूपतारकान्तस्स्थो जीवो यच् चेतति स्वयम् । तद् एतद् बुद्धिचित्तादि ज्ञानसन्तानरूपकम्
जीवाकाशस् ततस् तत्र तारकाकाशकोशगः । प्रेक्षे ऽहम् इति भावेन द्रष्टुं प्रसरतीव खे
ततो रन्ध्रद्वयेनेव भाविबाह्याभिधं पुनः । येन पश्यति तन् नेत्रयुग्मं नाम्ना भविष्यति