क्वचिद् विद्युत्तयाभ्रेषु शफर्येवार्णवेष्व् इह । खस्थेषु विहृतं चारु वार्यावर्तविराविषु
क्वचिद् दीपतया नीपकलिकाकोमलाङ्गया । अन्तḫपुरेषु कान्तानां सुरतालोकनं कृतम्
क्वचित् कज्जलजालस्य ज्वालात्वेन कचाकृतेः । खे ऽन्तर् निलीनं कूर्माङ्गसङ्घेनेव स्वकोटरे
कल्पान्तेषु क्वचित् सर्वजगद्ग्रासघनश्रमात् । खे कज्जलासिते लीनं रुद्धे ऽभ्र इव विद्युता
क्वचिद् आकल्पम् आपीय वडवाग्नितया जलम् । जगत्सु गगनेनेव न तृप्तं जलराशिषु
क्वचिद् उल्मुकदन्तेन मया ज्वालाभुजात्मना । विलोलधूमावर्तोग्रकुन्तलेनाकुलौजसा
पुरपल्वलवाहेषु कवलीकृतजन्तुना । कृताष् टकाराẖ काष्ठादिपदार्थास्वादनोदिताः
हतेन शस्त्रपाषाणैर् अयḫपिण्डादिवासिना । हन्तृदाहार्थम् उद्गीर्णाẖ कणाẖ कोपलवाẖ क्वचित्
क्वचिन् महाशिलाकोशे पाषाणमणिना मया । समस्तभूतादृश्येन स्थितं युगशतान्य् अपि
मुने तस्याम् अवस्थायाम् अनुभूतं त्वया सुखम् । उत दुẖखम् इति ब्रूहि बोधाय मम मानद
यथा याति नरस् सुप्तो जडतां चेतनो ऽपि सन् । चिद्व्योम गच्छद् दृश्यत्वं तथा जाड्यं प्रचेतति
आत्मानं चेतति ब्रह्म पृथ्व्यादीव यदा तदा । सुप्तं जडम् इवास्ते ऽन्तस् स्याद् अस्य न तद् अन्यथा
वस्तुतस् त्व् अस्य खोर्व्यादि नासद्रूपं न सन्मयम् । द्रष्टृदृश्यम् इवाभाति ब्रह्मैवैतत् समं स्थितम्
एतत् सत्यं परिज्ञानं यस्योत्पन्नम् अखण्डितम् । न तस्य पञ्चभूतानि न द्रष्टृदृश्यविभ्रमः
तदा मयैवं शुद्धेन तत् कृतं ब्रह्मरूपिणा । ब्रह्मरूपाद् ऋते किञ्चिद् एतत् कर्तुं न युज्यते
यदा सर्वम् इदं दृश्यं ज्ञातं ब्रह्म निरामयम् । तदा ब्रह्मपदस्थेन मयात्मैवैवम् ईक्षितः
यदा पुनर् अहं पञ्चभूतानीत्य् एव भावयन् । भवामि जड एवाहं तदा चेतामि किं किल
सुप्तो ऽस्मीति दृढं भावं बुद्धवांश् चेतनो ऽपि सन् । नैद्रम् एवैत्य् अलं जाड्यं न स चेतति किञ्चन
यस् तु प्रज्ञाप्रबुद्धात्मा देहस् तस्याधिभौतिकः । शाम्यत्य् उदेति विमलो बोधात्मैवातिवाहिकः
आतिवाहिकदेहेन तेन बोधात्मनाणुना । बृहता वा यथाकामं निर्वाणात्मा स तिष्ठते
बोधदेहेन हृदयं शिलानाम् अप्य् अभेदिना । प्रविश्याशु विनिर्याति याति पातालम् अम्बरम्
तस्मान् मया पुरा राम बोधदेहेन तत् तदा । तथा कृतम् अनन्तेन चिन्मयव्योमरूपिणा
वज्रपाषाणपातालनभोऽन्तरगमागमान् । कुर्वतस् तादृशस्याशु न विघ्न उपजायते
बोधमात्रशरीरेण यावद् आस्ते जडेष्व् असौ । पदार्थेषु तथाभूतस् तावत् तत्रावतिष्ठते
स्वेच्छयैव चलित्वाथ ततो ऽन्यत्र प्रयाति चेत् । तत् तत्रैव स्थितिं याति तथैवाङ्ग मतिर् यथा
बोधमात्रं विदुर् देहम् आतिवाहिकम् अव्ययम् । इदानीं त्वं तम् एवेह बुद्धो ऽनुभवसि स्वयम्
चिन्मात्रव्योमरूपो ऽस्मीत्य् अर्कादाव् इति बोधतः । आत्मैवास्तम् उपानीतस् सन्न् एवासन्न् इवात्मना
स्थितं स्वप्नादिजगति तमसेवासतेव वा । आवृतेनेव वान्यासाम् अलभ्येन सता दृशाम्
तरङ्गलेखयाङ्गारसरितस् स्वाङ्गलग्नया । मनोराज्यश्रियेवाशु प्रोत्पन्नस्तब्धदेहया
कज्जलालिकया वह्निविपिने पुष्पशोभया । फुल्लत्स्थलाम्बुजासारकिंशुकाशोकरूपया