अन्धकारस्य दैन्यस्य समस्तगुणनाशिनः । अदृश्यं दृश्यम् अनिशं सर्वस्य गुणशालिनः
तमस्तमालपरशुḫ परशुद्धिकरं पदम् । सुवर्णमणिमाणिक्यमुक्तादिजनजीवितम्
शुक्लकृष्णारुणादीनां भित्त्यङ्गोत्सङ्गशायिनाम् । पुत्राणाम् इव वर्णानां सर्वेषां देहदḫ पिता
घनस्नेहदशं पृथ्व्या रक्षितानिलवेधनम् । गृहं प्रति घनानन्दैर् धृतदीपकपुत्रकम्
दृष्टं पातालकेष्व् ईषत् तमोरूपिषु पावनम् । अर्धदृष्टं रजोरूपे भूतले भूतमालिते
सत्त्वात्मसु महासत्त्वं नित्यस्थं देवसद्मसु । जगज्जीर्णकुटीदीपẖ कूपो ऽन्धतमसो महान्
दिग्वधूविमलादर्शो निशानीहारमारुतः । सत्त्वं चन्द्रार्कवह्नीनां कुङ्कुमालेपनं दिवः
केदारं दिनसस्यानां तमोऽम्बूनाम् अवग्रहः । नभẖकाचबृहत्पात्रक्षालनाम्बु समुल्लसत्
सत्ताप्रदतयार्थानां प्रकाशकतयापि च । चिन्मात्रपरमार्थस्य सहोदर इवानुजः
क्रियाकमलिनीभानुर् भूतलोदरजीवितम् । रूपालोकमनस्कारचमत्कारे चितिर् यथा
नभस्तलगतासङ्ख्यनक्षत्रमणिमालितः । दिनर्तुवत्सरावर्तो वाडवाग्न्यादिफेनिलः
चन्द्रार्कादितरङ्गो ऽन्तरजडो ऽपङ्किलो महान् । बृहद्ब्रह्माण्डखातस्थो नित्यम् एकार्णवो ऽक्षयः
हेमादिषु सुवर्णत्वं नरादिषु पराक्रमः । काचकच्यं च रत्नादिष्व् अर्कादिष्व् अवभासनम्
ज्योत्स्ना मुखेन्दुबिम्बेषु पक्ष्मलेक्षणलक्ष्मसु । स्रवत्स्नेहामृतापूरो हासस् सौहार्दभासनम्
कपोलबाहुनेत्राक्षिभ्रूकरालकलासकः । निजो ऽजेयतया जातो विलासẖ कामिनीजने
तृणीकृतत्रिभुवनं चपेटास्फोटितद्विषम् । शिरस्सु वज्रीकरणं वीर्यं सिंहादिचेतसि
कटुकङ्कटकुट्टाकखड्गसङ्घट्टटाङ्कृतेः । पटुस्फुटास्फोटरटि भटेष्व् अटनम् उद्भटम्
देवेषु दानवारित्वं सुरारित्वं सुरारिषु । सर्वभूतेषु सौजस्त्वम् उन्नामस् स्थावरादिषु
अथ हेम भवन् भास्वांस् तत्राहम् अनुभूतवान् । जगदाकाशकोशेषु तेषु तामरसेक्षण
दिगन्तदशकास्तीर्णैẖ करजालैर् जगत्खगम् । गृह्णद् अद्र्यङ्गम् अर्कत्वं ग्रामवद्दृष्टभूतलम्
व्योमोत्पले कोशचक्रं वाडवं तिमिरार्णवे । ब्रह्माण्डसदने दीपो वृक्षो दिनफलावलेः
रसायनह्रदाकारम् इन्दुत्वं वदनं दिवः । निशानिशाचरीहासो विकासो रजनीदिशाम्
जगल्लावण्यलक्ष्मीनां सर्वासाम् उपमास्पदम् । रजनीरोहिणीनारीकैरवाणां परं प्रियम्
नेत्रवृन्दं खशक्रस्य द्युलतापुष्पजालकम् । स्वर्गौकोमषकव्यूहं तारकापटलं पृथु
वणिङ्मार्गे वणिग्घस्ततलतोलनदोलितम् । रत्नत्वं जलकल्लोलहस्तान्दोलितम् अब्धिभिः
अब्दाब्धौ शफरावर्तम् अब्दागे मञ्जरीगणः । अब्दाद्रौ दावदहनो वैद्युतं द्योतनं तरौ
दारुदारुणदुर्वारं दीप्तं ज्वलनचालनम् । यज्ञाग्निदाहकल्पान्तविस्फोटकठिनारवम्
कचत्काञ्चनमाणिक्यमुक्तामणिमयं महः । तमस्तां नीतम् आक्षिप्य पाण्डित्यम् इव पामरैः
विश्रान्तं स्तनतुङ्गेषु मुक्ताहारतया मया । असुरोरगगन्धर्वनरनायकयोषिताम्
पादाहतिशतं मार्गे तिलकत्वं वधूमुखे । खद्योतेन मया लब्धं पश्यावस्थासु चापलम्