नानाह्रदनदीगेहगामिनाविरताध्वना । विश्रान्तं सेतुसुहृदḫ प्रसादेन क्वचित् क्वचित्
विदा विदनुसन्धानाज् जडेन तदनाश्रयात् । जलाशयेषूल्लसितं जलेनावर्तवृत्तिना
मया दुष्कृतिनेवोर्ध्वाच् छिलास्तम्भेन भूभृताम् । सावर्तवृत्तिना श्वभ्रपातेषु शतधा गतम्
धूमरूपेण निर्गत्य दारुभ्यो गगनार्णवे । कणरत्नेन नीलर्क्षमणाव् आवर्तिना स्थितम्
विश्रान्तम् अभ्रपीठेषु विद्युद्वनितया सह । भिन्नेन्द्रनीलनीलेन शेषाङ्गेष्व् इव शौरिणा
परमाणुमये सर्गे पिण्डरूपेष्व् अलक्षितम् । स्थितम् अन्तḫ पदार्थेषु ब्रह्मणेवाबिलात्मना
प्राप्य जिह्वाणुभिस् सङ्गम् अनुभूतिẖ कृतोत्तमा । या नात्मनो न देहस्य मन्ये ज्ञानस्य केवलम्
न मया न च देहेन नान्येनास्वादितात्म यत् । तद् अन्तर् विधृतं शैत्यम् अज्ञानाय तद् अप्य् असत्
सर्वर्तुरसरूपेण नानामोदानि दिक्ष्व् अलम् । भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये
चतुर्दशप्रकाराणां भूतानाम् अङ्गसन्धिषु । उषितं चेतनेनेव जडेनाप्य् अजडात्मना
शीकरोत्कररूपेण रथम् आरुह्य मारुतम् । आमोदेनेव विहृतं विमलव्योमवीथिषु
राम तस्याम् अवस्थायां परमाणुकणं प्रति । अनुभूतम् अशेषेण यथास्थितम् इदं जगत्
अजडेन जडेनेव मया जलतया तया । अन्तस् सर्वपदार्थानां ज्ञाताज्ञातेन संस्थितम्
जगतां तत्र लक्षाणि नाशोत्पादशतानि च । मया दृष्टानि रूढानि कदलीदलपीठवत्
एवं जगच् चाजगद् वा साकारं वा निराकृति । चिन्मात्रगगनं सर्वम् आकाशाधिकनिर्मलम्
न कश्चन त्वं न च किञ्चनेदं शुद्धḫ परो बोध इदं विभाति । स चापि नो किञ्चन नापि शून्यम् आकाशम् एवासि विशङ्कम् आस्स्व
ततो ऽहम् अभवं तेजस् तेजोधारणयेद्धया । चन्द्रार्कतारकाग्न्यादिविचित्रावयवान्वितम्
नित्यं सत्त्वप्रधानत्वात् प्रकाशाकृतिराजवत् । सर्वदृश्यम् ऋते सर्वचौराद् ध्वान्तात् प्रतापयुक्
दीपादिभिश् चरैस् स्निग्धैर् दशाशतविहारिभिः । प्रत्यक्षीकृतसर्वार्थं प्रतिगेहं सुराजवत्
लोकालोकेन हृषितैḫ प्रत्यक्षाद्यांशुरोमभिः । परप्रकाशैकरतैर् दूरोत्क्षिप्तासिताम्बरम्
अन्धकारस्य दैन्यस्य समस्तगुणनाशिनः । अदृश्यं दृश्यम् अनिशं सर्वस्य गुणशालिनः
तमस्तमालपरशुḫ परशुद्धिकरं पदम् । सुवर्णमणिमाणिक्यमुक्तादिजनजीवितम्
शुक्लकृष्णारुणादीनां भित्त्यङ्गोत्सङ्गशायिनाम् । पुत्राणाम् इव वर्णानां सर्वेषां देहदḫ पिता
घनस्नेहदशं पृथ्व्या रक्षितानिलवेधनम् । गृहं प्रति घनानन्दैर् धृतदीपकपुत्रकम्
दृष्टं पातालकेष्व् ईषत् तमोरूपिषु पावनम् । अर्धदृष्टं रजोरूपे भूतले भूतमालिते
सत्त्वात्मसु महासत्त्वं नित्यस्थं देवसद्मसु । जगज्जीर्णकुटीदीपẖ कूपो ऽन्धतमसो महान्
दिग्वधूविमलादर्शो निशानीहारमारुतः । सत्त्वं चन्द्रार्कवह्नीनां कुङ्कुमालेपनं दिवः
केदारं दिनसस्यानां तमोऽम्बूनाम् अवग्रहः । नभẖकाचबृहत्पात्रक्षालनाम्बु समुल्लसत्
सत्ताप्रदतयार्थानां प्रकाशकतयापि च । चिन्मात्रपरमार्थस्य सहोदर इवानुजः
क्रियाकमलिनीभानुर् भूतलोदरजीवितम् । रूपालोकमनस्कारचमत्कारे चितिर् यथा