नेहानानास्ति नो नाना न नास्तित्वं न चास्तिता । अहम् इत्य् एव नैवास्ति यत्र तत्र कुतो ऽस्तु किम्
अनुभूतम् अपीदं सद् अहमित्यादिदृश्यकम् । नास्त्य् एव यदि वाप्य् अस्ति तद् ब्रह्माजम् अनामकम्
यत् स्वप्नपुरम् एवेदं सर्गादाव् एव विन्नभः । अस्तितानास्तिते तत्र कीदृशे क्व कुतस् स्थिते
यथाहं दृष्टवांस् तानि जगन्त्य् अवनिरूपधृत् । तथा मया जलीभूय दृष्टं तादृशम् एव तत्
वारिधारणया वारि भूत्वा जडम् इवाजडम् । समुद्रमन्दिरेष्व् अन्तश् चिरं गुलगुलायितम्
तृणवृक्षलतागुल्मवल्लीनां स्तम्भनाडिषु । मृद्व् अलक्षितम् आरूढं तवाङ्गेष्व् इव यूकया
सर्वोत्थानोपमा स्तम्भे तच्छेदे वलयोपमा । मृद्व्या कर्णाहिगत्येव रचनाभ्रे कृतोदरे
वल्लीतमालतालादिपल्लवेषु फलेषु च । विश्रम्य पुष्टयाकृत्या रेखाविरचनं कृतम्
मुखेनाविश्य हृदयम् ऋतुवैधुर्यधारिणा । वृता विधुरिता भुक्ता लूना देहेषु धातवः
सुप्तं पल्लवतल्पेषु प्रालेयकणरूपिणा । तुल्यकालम् अशेषेषु दिक्षु सर्वास्व् अखेदिना
नानाह्रदनदीगेहगामिनाविरताध्वना । विश्रान्तं सेतुसुहृदḫ प्रसादेन क्वचित् क्वचित्
विदा विदनुसन्धानाज् जडेन तदनाश्रयात् । जलाशयेषूल्लसितं जलेनावर्तवृत्तिना
मया दुष्कृतिनेवोर्ध्वाच् छिलास्तम्भेन भूभृताम् । सावर्तवृत्तिना श्वभ्रपातेषु शतधा गतम्
धूमरूपेण निर्गत्य दारुभ्यो गगनार्णवे । कणरत्नेन नीलर्क्षमणाव् आवर्तिना स्थितम्
विश्रान्तम् अभ्रपीठेषु विद्युद्वनितया सह । भिन्नेन्द्रनीलनीलेन शेषाङ्गेष्व् इव शौरिणा
परमाणुमये सर्गे पिण्डरूपेष्व् अलक्षितम् । स्थितम् अन्तḫ पदार्थेषु ब्रह्मणेवाबिलात्मना
प्राप्य जिह्वाणुभिस् सङ्गम् अनुभूतिẖ कृतोत्तमा । या नात्मनो न देहस्य मन्ये ज्ञानस्य केवलम्
न मया न च देहेन नान्येनास्वादितात्म यत् । तद् अन्तर् विधृतं शैत्यम् अज्ञानाय तद् अप्य् असत्
सर्वर्तुरसरूपेण नानामोदानि दिक्ष्व् अलम् । भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये
चतुर्दशप्रकाराणां भूतानाम् अङ्गसन्धिषु । उषितं चेतनेनेव जडेनाप्य् अजडात्मना
शीकरोत्कररूपेण रथम् आरुह्य मारुतम् । आमोदेनेव विहृतं विमलव्योमवीथिषु
राम तस्याम् अवस्थायां परमाणुकणं प्रति । अनुभूतम् अशेषेण यथास्थितम् इदं जगत्
अजडेन जडेनेव मया जलतया तया । अन्तस् सर्वपदार्थानां ज्ञाताज्ञातेन संस्थितम्
जगतां तत्र लक्षाणि नाशोत्पादशतानि च । मया दृष्टानि रूढानि कदलीदलपीठवत्
एवं जगच् चाजगद् वा साकारं वा निराकृति । चिन्मात्रगगनं सर्वम् आकाशाधिकनिर्मलम्
न कश्चन त्वं न च किञ्चनेदं शुद्धḫ परो बोध इदं विभाति । स चापि नो किञ्चन नापि शून्यम् आकाशम् एवासि विशङ्कम् आस्स्व
ततो ऽहम् अभवं तेजस् तेजोधारणयेद्धया । चन्द्रार्कतारकाग्न्यादिविचित्रावयवान्वितम्
नित्यं सत्त्वप्रधानत्वात् प्रकाशाकृतिराजवत् । सर्वदृश्यम् ऋते सर्वचौराद् ध्वान्तात् प्रतापयुक्
दीपादिभिश् चरैस् स्निग्धैर् दशाशतविहारिभिः । प्रत्यक्षीकृतसर्वार्थं प्रतिगेहं सुराजवत्
लोकालोकेन हृषितैḫ प्रत्यक्षाद्यांशुरोमभिः । परप्रकाशैकरतैर् दूरोत्क्षिप्तासिताम्बरम्