इदं च मानसं चाहं सम्पन्नḫ पृथुभूतलम् । नेदं न मानसं चैव सम्पन्नो वस्तुतस् त्व् अहम्
अमानसं महीपीठं न सम्भवति किञ्चन । यद् असद् वेत्सि यत् सद् वा मनोमात्रकम् एव तत्
चिदाकाशम् अहं शुद्धं तस्य मे ऽनन्यद् आत्मनः । यच् चिन्मात्रात्मकचनं तत् सङ्कल्पाभिधं स्मृतम्
तन् मनस् तन् महीपीठं तज् जगत् स पितामहः । सङ्कल्पपुरवद् व्योम्नि कचत्य् एतन् मनोनभः
एवं सङ्कल्पमात्रं मे मनोमात्रं तद् आततम् । धारणाभ्याससम्पुष्टं भूमण्डलम् इति स्थितम्
नेदं भूमण्डलं तद् वै तदन्यद् धि मनोमयम् । आकाशमात्रकचनम् अचेत्यं कचनं चितेः
तद् एवाकाशमात्रात्म तथाभूतं चिरस्थितेः । इदम्प्रत्ययलब्धत्वान् मानसत्वं समुज्झति
इदं स्थिरं सुकठिनं विततं भूमिमण्डलम् । अस्तीति जायते बुद्धिर् व्योम्न्य् एव चिरवेदनात्
न्यायेनेदम् इवानेन तत् स्थितं वसुधातलम् । इदं न चैवम् एवाद्य सर्गस्यादाव् उपागतम्
यथा स्वप्ने पुरत्वेन चिद् एव व्योम्नि भासते । तथा चिद् एव सर्गादाव् इदं जगद् इति स्थिता
विद्धि चिद्रूपबालस्य मनोराज्यं जगत्त्रयम् । महीतलादिकं दृश्यम् इदं सर्गं च सर्वदा
चिद्रूपस्यात्मनो नान्यस् सङ्कल्पस् तन्मयं जगत् । वस्तुतस् तु न पिण्डात्म न सत्यात्म न भासुरम्
दृश्यम् अस्त्य् अपरिज्ञातं परिज्ञातं न विद्यते । परिज्ञानं तद् एवास्य शृणोषि यद् इदं चिरम्
सर्वं चिन्मात्रम् आकाशं प्रकचत्य् आत्मनात्मनि । भूमण्डलात्म दृश्यात्म द्वैतैक्याभ्यां विवर्जितम्
मणिर् यथा स्वभावेन शुक्लपीतादिकास् त्विषः । अकुर्वन्न् एव कुरुते चिदाकाशस् तथा जगत्
यतो न किञ्चित् कुरुते न च रूपं समुज्झति । तस्मान् न मानसं नेदं किञ्चिद् अस्ति महीतलम्
महीतलम् इवाभाति चिद्व्योमैव निरन्तरम् । आत्मन्य् एवातलं व्योम यथामलतलं स्थितम्
स्वभावमात्रकचनं तत् तदा मे तथा स्थितम् । भूमण्डलम् इवात्यच्छं खम् एव विततान्तरम्
इदं भूमण्डलं तच् च द्वयम् एतन् महाचितेः । स्वरूपम् एव कचति तव स्वप्नपुरं यथा
चिरकालप्रत्ययतस् स्थिरम् इत्य् अवगम्यते । परिज्ञातं यथाभूतं चिद्व्योमैव निरन्तरम्
इदम् आकाशमात्रात्म तद् अप्य् आकाशमात्रकम् । अज्ञानान् न परिज्ञानाज् ज्ञानान् नेदं न तत् क्वचित्
त्रैलोक्यभूतजालानां कालत्रितयभाविनाम् । सम्भ्रमस्वप्नसङ्कल्पमनोराज्यदशास्थितौ
भूतानि च भविष्यन्ति वर्तमानानि यानि च । भूमण्डलानि तान्य् अङ्ग सत्तासामान्यताङ्गतः
अहम् एव समग्राणि तेषाम् अन्तर्गतान्य् अपि । तेन तान्य् अनुभूतानि तथा दृष्टानि चाखिलम्
चिन्मात्रम् एतद् अजरं पदम् आत्मतत्त्वं शुद्धात्मताम् अजहद् अङ्गगतं बिभर्ति । सर्वं यथास्थितम् इदं जगतां तु भेदं बुद्धं सद् अङ्ग न बिभर्ति तु किञ्चनापि
अनन्तरं वद ब्रह्मञ् जगन्ति भवता तदा । भूमण्डलानां हृदये कच्चित् दृष्टानि वा न वा
परात्मजाग्रत्स्वप्नोर्वीमण्डलौघात्मना मया । ततो ऽनुभूतं हृदये दृष्टं च परया दृशा
यावत् तथैव सर्वत्र जगज्जालम् अवस्थितम् । सर्वं दृश्यमयं शान्तम् अपि द्वैतमयात्मकम्
जगन्ति सन्ति सर्वत्र सर्वत्र ब्रह्म संस्थितम् । सर्वं शून्यं परं शान्तं सर्वम् आरम्भमन्थरम्
सर्वत्रैवास्ति पृथ्व्यादि स्थूलं तच् च न किञ्चन । चिद्व्योमैव यथा स्वप्नपुरं परम् अजं न तत्