तत् सूर्यादिविजृम्भाभिर् बीजम् आलोकशाखिनः । तस्माद् रूपविभेदेन संसारः प्रसरिष्यति
भवच् चतुर्णाम् अवतस् ततस् सत इवासतः । स्वदनं तस्य सङ्घस्य रसतन्मात्रम् उच्यते
भाविवारिविलासात्म तद् बीजं रसशाखिनः । अन्योऽन्यास्वदनेनास्मात् संसारः प्रसरिष्यति
भविष्यद्गन्धसङ्कल्पनामासौ कलनात्मका । सङ्कल्पात्मा ससौगन्धतन्मात्रत्वं प्रयच्छति
भाविभूगोलकत्वेन बीजम् आकृतिशाखिनः । सर्वाधारात्मनस् तस्मात् संसारः प्रसरिष्यति
चिता विभाव्यमानानि तन्मात्राणि परस्परम् । स्वयं परिणतान्य् अन्तर् अम्बुनीव निरन्तरम्
तथैतानि विमिश्राणि विविक्तानि पुनर् यथा । न शुद्धान्य् उपलभ्यन्ते सर्वनाशान्तम् एव हि
संवित्तिमात्ररूपाणि स्थितानि गगनोदरे । भवन्ति वटजालानि यथा बीजकणान्तरे
प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च । परमाण्वन्तरे मान्ति क्षणात् कल्पीभवन्ति च
विवर्तम् एव धावन्ति निर्विवर्तानि सन्ति च । चिद्वेदितानि सर्वाणि क्षणात् पिण्डीभवन्ति हि
तन्मात्रगणम् एतत् सा स्वसङ्कल्पात्मकं चितिः । वेदनावसरे ऽण्वौघम् अनाकारैव पश्यति
बीजं जगत्सु ननु पञ्चकमात्रम् अस्य बीजं परा व्यवहिता चितिशक्तिर् आद्या । तज्जं तद् एव भवतीति सदानुभूतं चिन्मात्रम् एकम् अजम् आद्यम् अतो जगच्छ्रीः
परमे ब्रह्मणि स्फारे समे समसमस्थितौ । अनुत्पन्ननभस्तेजस्तमस्सत्तादिकात्मनि
पूर्वं चेत्यत्वकलनं स्वचेत्यांशस्य चेतनात् । उदेति चित्त्वकलनं चितिशक्तित्वचेतनात्
ततो जीवत्वकलनं चेत्यसम्पोषचेतनात् । ततो ऽहम्भावकलनं चेत्यैकपरतावशात्
ततो बुद्धित्वकलनम् अहन्तापरिणामतः । एतद् एव मनस्तादिशब्दतन्मात्रकादिमत्
औच्छून्याद् अन्यतन्मात्रभावनाद् भूतरूपिणः । अयम् इत्थं महागुल्मो जगदादिर् विलोक्यते
झगित्य् एव क्रमेणेति स्वप्ने पुरम् इवाकृतम् । महाकाशमहाटव्याम् उद्भूयोद्भूय नश्यताम्
जगत्करञ्जकुञ्जानां बीजम् एतद् अवापजम् । नापेक्षते किञ्चिद् अपि क्षितिवार्यनिलादिकम्
एतच् चिदात्मकं पश्चात् किलोर्व्यादि करिष्यति । स्वप्नसंवित्पुरम् इव चिन्मात्रात्मकम् एव तत्
जगदाद्यङ्कुरं यत्रतत्रस्थम् अपि मुञ्चति । जगतः पञ्चकं बीजं पञ्चकस्य चिद् अव्यया
यद् बीजं तत् फलं विद्धि तस्माद् ब्रह्ममयं जगत् । एवम् एष महाकाशे सर्गादौ पञ्चको गणः
चिच्छक्त्याकाशभूतात्मा कल्पितो ऽस्ति न वास्तवः । अनेनोच्छूनताम् एत्य यद् अपीदं वितन्यते
तद् अप्य् आकाशरूपात्म कलनात्म न सन्मयम् । न क्वचिन् नाम तत् सिद्धं यद् असिद्धेन साध्यते
खरूपं यद् विकल्पात्म कथं तत् सत्यताम् इयात् । अथ चेत् पञ्चकं ब्रह्म ब्रह्मात्मकतया तया
तत् पञ्चकविधिप्रौढो ब्रह्मैव त्रिजगद्भ्रमः । यथा स्फुरति सर्गादाव् एष पञ्चकसम्भवः
तथैवाद्येह भूतत्वे याति कारणतां स्वयम् । एवं न जायते किञ्चिज् जगज् जातं च लक्ष्यते
स्वप्नसङ्कल्पपुरवद् असत् सद् अनुभूयते । ब्रह्माकाशः पराकाशो जीवाकाशत्वम् आत्मनि
इति वेत्त्य् अवदातात्मा पृथ्व्यादीनाम् असम्भवात् । इत्य् एष जीवः कथितो व्योम्नि खात्मा यथोदितः
जीवाकाशस् त्व् इमं देहं यथा विन्दति तच् छृणु । जीवाकाशः खम् एवासौ तस्मिंस् तु परमाम्बरे