नित्यं कृषीवलैẖ कृष्टं वीजितं शिशिरानिलैः । तापितं तपनैस् तप्तैर् उक्षितं प्रावृडम्बुभिः
विपुलाग्रस्थलोरस्कं पद्माकरशतेक्षणम् । सितासितघनोष्णीषं दशाशोदरमन्दिरम्
लोकालोकमहाखातवलयोग्रास्यभीषणम् । अनन्तभूतसङ्घातपरिस्पन्दैकचेतनम्
व्याप्तम् अन्तर् बहिश् चैव नानाभूतगणैḫ पृथक् । देवदानवगन्धर्वैर् बहिर् अन्तस् तु कीटकैः
पातालेन्द्रियरन्ध्रेषु नागासुरक्रिमिव्रजैः । सप्तस्व् अर्णवकोशेषु नानाजातिजलेचरैः
व्याप्तं नदीवनसमुद्रदिगन्तशैलद्वीपाब्दजन्तुविजयस्थलजङ्गलौघैः । नानावनावलितमण्डलकोट्टषण्डवल्लीसरस्सरिदरातिरणाब्जषण्डैः
भूपीठेन सता तत्र मया तदनु मानद । अनुभूतं नदनदीनादिनेदं दिने दिने
क्वचिन् मरणसाक्रन्दनारीकरुणवेदनम् । क्वचिद् उत्ताण्डवस्त्रैणमहोत्सवमहासुखम्
क्वचिद् दुर्वारदुर्भिक्षदुराक्रन्ददुरीहितम् । क्वचित् सकलसस्यौघसम्पन्नघनसौहृदम्
क्वचिद् अग्निमहादाहदग्धदेशोग्ररोदनम् । क्वचिज् जलप्लवालूनपुरपत्तनखण्डकम्
क्वचिच् चपलसामन्तकृतलुण्ठनमण्डलम् । क्वचिद् उद्दामदौरात्म्यरक्षḫपैशाचमण्डलम्
क्वचिज् जलाशयोल्लासवेल्लनोत्पुलकाङ्गकम् । कन्दरोदरनिष्क्रान्तवातवेल्लितवारिदम्
संविद्बोधोन्नमत्स्वाङ्गकोशोत्थाङ्कुरलोमकम् । वारिवारणविक्षोभनतोन्नतलसत्तलम्
सशृङ्गभैरवश्वभ्रपुराद्रिवनझम्पनम् । सन्धिमण्डलसञ्चाललेखाङ्कमृदुकम्पनम्
क्वचित् सामन्तसङ्क्षुब्धसैन्यसंहरणं रणे । क्वचित् सोम्यसुखासीनसर्वसामन्तमण्डलम्
अरण्यं क्वचिद् आशून्यम् उल्लसद्वातभाङ्कृति । जङ्गलं क्वचिद् आलूनव्युप्तसम्पन्नसस्यकम्
हंसकारण्डवाकीर्णसरḫ फुल्लाम्बुजं क्वचित् । क्वचिन् मरुस्थलं स्थूलस्तम्भाभार्जुनमारुतम्
क्वचिद् ध्रदनदीवाहहेलानिकषघर्घरम् । क्वचिद् अङ्कुरकार्यङ्गसिक्तबीजास्यजृम्भणम्
क्वचिद् अन्तस्स्थकीटास्यमृदुस्पन्दनवेदनम् । मां त्वम् एवाशु बुद्ध्वेह त्रायस्वेतीव बोधनम्
शाखापरिकराभोगमृद्भागाङ्गनिपीडनैः । मूलजालम् अवष्टभ्य क्वचिद् विटपिधारणम्
अन्योऽन्यम् अलम् आक्रम्य दिक्तटाङ्गनिपीडनैः । क्वचिद् अद्र्यस्थिनिबिडैर् अर्णवोल्लासवेल्लितम्
शुष्कपल्लवसङ्कोचनिबिडाङ्गनिपीडनम् । अमर्षणैẖ करैर् आर्कैस् स्वरसाकर्षणं क्वचित्
शृङ्गमन्दिरमातङ्गप्रहाराशनिभूरुहाम् । निबिडाङ्गोत्कटस्थैर्यपरुषं पतनं क्वचित्
निमीलितेक्षणामन्दतनून्नामसमक्रमम् । क्वचित् सूक्ष्मरसोल्लेखम् अङ्कुरोल्लसनं नवम्
मक्षिकायौकमषकनिकाषसदृशं क्वचित् । कुद्दालशङ्कुतुङ्गारिहलहेलानिकर्षणम्
शीतं शीतविशीर्णाङ्गजर्जरत्वग्विकीर्णमृत् । पाषाणीभूतसलिलं क्वचित् परुषमारुतम्
उद्गालीभूतमृद्वङ्गमज्जदन्तẖक्रिमिव्रजम् । क्वचिद् उद्भवदब्जादिमूलं जलनिमज्जनम्
शनैर् अन्तर्निलीनाम्बुकृताह्लादं बहिẖखरम् । सोन्नामाङ्कुररोमौघं क्वचिद् धर्षविजृम्भितम्
तनुतरपवनविकम्पितकोमलनलिनीदलास्तरणैः । विरहिण इव मे विहितं सरोभिर् अङ्गेषु निर्वाणम्
पार्थिवीं धारणां बद्ध्वा जगन्ति समवेक्षितुम् । सम्पन्नस् त्वम् अयं भूमेर् लोकẖ किम् उत मानसः