यथा खम् आवृतं सर्गैस् तथा भूर् इति बुद्धवान् । तदाहम् अभवं ध्याता धराधारणया युतः
तया धराधारणया धरारूपधरो ऽभवम् । अत्यजन्न् एव चिद्व्योमवपुस् सम्राड् इवाचिरात्
धराधारणयाश्व् एव धराधातूदरं गतः । द्वीपाद्रितृणवृक्षादि देहे ऽहम् अनुभूतवान्
सम्पन्नो ऽस्म्य् अथ भूपीठं नानावनतनूरुहम् । नानारत्नावलीव्याप्तं नानानगरभूषणम्
ग्रामगह्वरपर्वाढ्यं पातालसुषिरोदरम् । कुलाचलभुजाश्लिष्टद्वीपाब्धिवलयान्वितम्
तृणौघतनुरोमाढ्यं गिरिषण्डकगुल्फकम् । दिग्वारणकटव्यूढं धृतं शेषशिरश्शतैः
ह्रियमाणं महीपालैश् शोभमानं तथर्तुभिः । प्राणिभिर् भुज्यमानाङ्गं वर्धमानं व्यवस्थया
हिमवद्विन्ध्यसुस्कन्धं सुमेरूदारकन्धरम् । गङ्गादिसरिदापूरमुक्ताहाररणत्तनु
गुहागहनकच्छादि सागरादर्शमण्डलम् । मरूषरस्थलश्वैत्र्यम् अम्बराम्बरसुन्दरम्
भूतपूरैḫ परापूर्णं परिधूतं महार्णवैः । अलङ्कृतं पुष्पवनैस् समालब्धं रजोगणैः
नित्यं कृषीवलैẖ कृष्टं वीजितं शिशिरानिलैः । तापितं तपनैस् तप्तैर् उक्षितं प्रावृडम्बुभिः
विपुलाग्रस्थलोरस्कं पद्माकरशतेक्षणम् । सितासितघनोष्णीषं दशाशोदरमन्दिरम्
लोकालोकमहाखातवलयोग्रास्यभीषणम् । अनन्तभूतसङ्घातपरिस्पन्दैकचेतनम्
व्याप्तम् अन्तर् बहिश् चैव नानाभूतगणैḫ पृथक् । देवदानवगन्धर्वैर् बहिर् अन्तस् तु कीटकैः
पातालेन्द्रियरन्ध्रेषु नागासुरक्रिमिव्रजैः । सप्तस्व् अर्णवकोशेषु नानाजातिजलेचरैः
व्याप्तं नदीवनसमुद्रदिगन्तशैलद्वीपाब्दजन्तुविजयस्थलजङ्गलौघैः । नानावनावलितमण्डलकोट्टषण्डवल्लीसरस्सरिदरातिरणाब्जषण्डैः
भूपीठेन सता तत्र मया तदनु मानद । अनुभूतं नदनदीनादिनेदं दिने दिने
क्वचिन् मरणसाक्रन्दनारीकरुणवेदनम् । क्वचिद् उत्ताण्डवस्त्रैणमहोत्सवमहासुखम्
क्वचिद् दुर्वारदुर्भिक्षदुराक्रन्ददुरीहितम् । क्वचित् सकलसस्यौघसम्पन्नघनसौहृदम्
क्वचिद् अग्निमहादाहदग्धदेशोग्ररोदनम् । क्वचिज् जलप्लवालूनपुरपत्तनखण्डकम्
क्वचिच् चपलसामन्तकृतलुण्ठनमण्डलम् । क्वचिद् उद्दामदौरात्म्यरक्षḫपैशाचमण्डलम्
क्वचिज् जलाशयोल्लासवेल्लनोत्पुलकाङ्गकम् । कन्दरोदरनिष्क्रान्तवातवेल्लितवारिदम्
संविद्बोधोन्नमत्स्वाङ्गकोशोत्थाङ्कुरलोमकम् । वारिवारणविक्षोभनतोन्नतलसत्तलम्
सशृङ्गभैरवश्वभ्रपुराद्रिवनझम्पनम् । सन्धिमण्डलसञ्चाललेखाङ्कमृदुकम्पनम्
क्वचित् सामन्तसङ्क्षुब्धसैन्यसंहरणं रणे । क्वचित् सोम्यसुखासीनसर्वसामन्तमण्डलम्
अरण्यं क्वचिद् आशून्यम् उल्लसद्वातभाङ्कृति । जङ्गलं क्वचिद् आलूनव्युप्तसम्पन्नसस्यकम्
हंसकारण्डवाकीर्णसरḫ फुल्लाम्बुजं क्वचित् । क्वचिन् मरुस्थलं स्थूलस्तम्भाभार्जुनमारुतम्
क्वचिद् ध्रदनदीवाहहेलानिकषघर्घरम् । क्वचिद् अङ्कुरकार्यङ्गसिक्तबीजास्यजृम्भणम्
क्वचिद् अन्तस्स्थकीटास्यमृदुस्पन्दनवेदनम् । मां त्वम् एवाशु बुद्ध्वेह त्रायस्वेतीव बोधनम्
शाखापरिकराभोगमृद्भागाङ्गनिपीडनैः । मूलजालम् अवष्टभ्य क्वचिद् विटपिधारणम्