ततो रन्ध्रद्वयेनाहम् अपश्यं यत् तद् अस्ति खम् । याभ्याम् अपश्यं रन्ध्राभ्यां त इमे लोचने स्थिते
ततẖ किञ्चिच् छृणोमीति संविद् अभ्युदिता मम । ततẖ किञ्चिन् मनाङ्मात्रझाङ्कारं श्रुतवान् अहम्
आध्मातस्येव शङ्खस्य शब्दं व्योम्नस् स्वभावजम् । याभ्याम् अहम् अथाश्रौषं त इमे श्रवणव्रणे
प्रदेशाभ्यां विचरता मरुताविरतस्वनम् । स्पर्शसंवेदनं किञ्चिद् अहम् अत्रानुभूतवान्
तत्संवेदनमात्रात्म सो ऽयं वायुर् इति स्मृतः । स्पर्शनेन्द्रियतन्मात्रम् असद् एवेति सत् स्थितम्
आस्वादसंविद् याभून् मे तद् आस्वाद्यरसेन्द्रियम् । घ्राणान् मे घ्राणतन्मात्रम् उदितं व्योमरूपिणः । इत्थं न किञ्चित् सम्पन्नं सर्वं सम्पन्नम् अत्र मे
एवम् इन्द्रियतन्मात्रजालं चेतन्न् अहं स्थितः । यावत् तावद् विदḫ पञ्च बलाद् इव ममोदिताः
शब्दरूपरसस्पर्शगन्धमात्रशरीरिकाः । अनाकारास् तथानाम्न्यẖ खरूपिण्यो भ्रमात्मिकाः
एवंरूपम् अहं जालं भावयन् यत् तदा स्थितः । तद् अहङ्कार इत्य् अद्य कथ्यते त्वादृशैर् जनैः
एष एव घनीभूतो बुद्धिर् इत्य् अभिधीयते । साथ बुद्धिर् घनीभूता मन इत्य् अभिधीयते
अन्तẖकरणरूपẖ खम् एव तत्राहम् आस्थितः । आतिवाहिकदेहात्मा चिन्मयव्योमरूपवान्
पवनाद् अप्य् अहं शून्यẖ केवलाकाशमात्रकम् । सर्वेषाम् एव भावानां शून्याकृतिर् अरोधकः
अथैनं भावयन्न् अहं यदा तत्र स्थिरं स्थितः । तदाहं देहवान् पुष्ट इति मे प्रत्ययो ऽभवत्
तेनाहं प्रत्ययेनाथ शब्दं कर्तुं प्रवृत्तवान् । शून्य एव यथा सुप्तस् स्वप्नोड्डीनो नरो रवम्
अथ पूर्वं कृतश् शब्दो बालेनेव तद् ॐ इति । ततस् स एष ओङ्कार इति नीतḫ पुनḫ प्रथाम्
ततस् स्वप्ने नरेणेव यत् किञ्चिद् गदितं मया । तद् एतद् विद्धि वाचं त्वं पश्चान् नीतां प्रथाम् इह
ब्रह्मैव सो ऽस्मि सम्पन्नस् सृष्टेẖ कर्ता जगद्गुरुः । ततो मनोमयेनैव कल्पितास् सृष्टयो मया
एवम् अस्मि समुत्पन्नो न तु जातो ऽस्मि किञ्चन । दृष्टवान् अस्मि ब्रह्माण्डं तन् न किञ्चन कुत्रचित्
एवं जगति सम्पन्ने ममैतस्मिन् मनोमये । न किञ्चित् तत्र सम्पन्नं तच् छून्यं व्योम केवलम्
इत्थं संशून्यम् एवेदं सर्वं वेदनमात्रकम् । न मनाग् अपि सन्त्य् एते भावाḫ पृथ्व्यादयẖ किल
जगन्मृगतृडम्बूनि भान्ति संविदि संविदः । न बाह्यम् अस्ति नाबाह्यं खे तद् व्योम तथा स्थितम्
मरौ नास्त्य् एव सलिलं संवित् पश्यति तत् तथा । निर्मूलम् अन्तस्सन्तप्ता स्वसम्भ्रमवती भ्रमम्
नास्त्य् एव ब्रह्मणि जगत् संवित् पश्यति तत् तथा । निर्मूलम् एव संवित्त्वाद् एव भ्रान्तेश् च सम्भ्रमम्
असद् एवेदम् आभाति हृद्य् एव जगद् आततम् । सङ्कल्पनमनोराज्यकथास्वप्नपुरादिवत्
पार्श्वसुप्तजनस्वप्नस् तच्चित्तावेशनं विना । यथा न किञ्चित् तच्चित्तावेशनात् त्व् अनुभूयते
तथा न किञ्चित् एवेदं चित्तावेशेन वेद्यते । आदर्शबिम्बिताकारं दृष्टम् अप्य् अन्यथा त्व् असत्
आधिभौतिकभावेन नेत्रेण यदि लक्ष्यते । तत् तन् न दृश्यते किञ्चिद् गिरिर् एवोपदृश्यते
आतिवाहिकदेहेन परबोधदृशा यदि । प्रेक्ष्यते दृश्यते सर्गḫ परमात्मैव वामलः
सर्वत्र सर्गनिर्माणं प्रज्ञालोकेन लक्ष्यते । ब्रह्मात्मैवान्यथा त्व् एतन् न किञ्चिद् अपि लक्ष्यते
यत् पश्यत्य् अवदाता धीस् सोपपत्तिविचारणा । न तन् नेत्रैस् त्रिभिश् शर्वो नेन्द्रो नेत्रशतैर् अपि