आयान्ति यान्त्य् अनन्तानि भूतानीह भवभ्रमैः । तान्य् एवान्यानि चान्यानि समानि विषमाणि च
आवृत्तिमन्ति तान्य् एव तथैवान्यानि चाभितः । विद्धि शीकरजालानि भूतानि जगदम्बुधेः
वित्तबन्धुवयẖकर्मविद्याविज्ञानचेष्टितैः । तैर् एव केचिज् जायन्ते भूयो भूयश् शरीरिणः
अर्धैस् तैस् सदृशाẖ केचित् केचित् पादेन तैस् समाः । तज्जीवास् तैर् विसदृशा भवन्त्य् अन्ये शरीरिणः
सर्वैर् एभिस् समाẖ केचित् कालेनैव विलक्षणाः । कालेन सदृशाẖ केचित् तैर् एव च विलक्षणाः
कालेनाकुलचेष्टितान्य् अध इतो गच्छन्त्य् अथोर्ध्वं पुनर् देहालेखनखेदितान्य् अगणितान्य् अन्यानि चान्ये न च । भूताम्बूनि वहन्ति संसृतिमये यान्य् अम्बुधौ चञ्चले चक्रावृत्तिमयानि सङ्कलयितुं शक्नोति कस् तान्य् अलम्
ततश् चिदाकाशवपुर् व्याप्य् अनन्तो निरामयः । दत्तावधानो वपुषि तदापश्यम् अहं क्वचित्
यावद् अन्तर्गतस् सर्गस् संस्थितो ऽङ्कुरितो मम । कुसूलस्थस्य बीजस्य सिक्तस्येवाङ्कुरो हृदि
उद्बुभूषुर् इवास्ते ऽन्तस् सेकाद् बीजे यथाङ्कुरः । आकारवत्य् अनाकारश् चित्त्वाच् चित्ते तथा जगत्
यथोन्मिषति दृश्यश्रीस् सुषुप्ताद् बोधम् एयुषः । जाग्रद् वा विगते स्वप्ने चिन्मात्रस्य स्वचेतनात्
तथैवात्मनि सर्गादाव् अनुभूतẖ खरूपिणि । हृदि सर्गोदयो ऽनन्यरूपस् स्वाकाररूपतः
आकाशरूप आकाशे परमाकाश कथ्यताम् । भूयो निपुणबोधाय कथं सर्गḫ प्रवर्तते
शृणु राम यथा तत्र स्वयम्भूत्वं मया तदा । अनुभूतम् असत् सद्वद् इदं स्वप्ननरोपमम्
तम् आलोक्य महाकल्पसंरम्भं व्योमरूपिणा । भागे ऽन्यत्र शरीरस्य संविद् उन्मेषिता मया
यदैव सामला संवित् किञ्चिद् उन्मेषिता स्थिता । तदैवाहं क्वचित् तत्र पश्याम्य् आश्यानताम् इव
गतस् स्वभावं चिद्व्योम यथा त्वं राम निद्रया । जाग्रद् वा स्वप्नलोकं वा विशन् वेत्सि मनाग् घनम्
चिन्मात्राकाशम् एवादौ ततो ऽस्मीत्य् एव वेदनम् । तद् घनं कथ्यते बुद्धिः सा घना मन उच्यते
तद् वेत्ति शब्दतन्मात्रं तन्मात्राणीतराण्य् अथ । पञ्चेन्द्रियाणि तत्स्थौल्याद् इतीन्द्रियगणोदयः
सुषुप्ताद् विशतस् स्वप्नं जगद्दृश्यवनोदयः । यथा तथैव सर्गादौ दृश्यं भाति निमेषतः
तुल्यकालम् अनन्ते ऽस्मिन् दृश्यजालावभासने । कथयन्ति क्रमं केचित् केचिन् न कथयन्ति च
परमाणुकणं कान्तं सम्पन्नम् अनुभूतवान् । अहं चेतनम् आत्मानं वस्तुतो ऽमलम् एव खम्
यथा स्वभावतो व्योम्नि चलत्य् एवानिशं मरुत् । तथा स्वभावात् सर्वत्र पश्यत्य् एवं वपुश् चितिः
यादृशं चेतितं रूपं शक्त्या परमयानया । तच् छक्नोत्य् अन्यथा कर्तुं नैषा यत्नेन भूयसा
ततḫ पश्याम्य् अहं यावत् सम्पन्नो ऽस्म्य् अणुरूपकः । चित्त्वाच् चेतंस् तद् एवाशु तथाभूतो ऽस्मि संस्थितः
ततो ऽहं बुद्धवान् रूपं तनु तेजẖकणाकृति । तद् एव भावयन् पश्चाद् गतो ऽहं स्थूलताम् इव
प्रेक्षे तावद् अहं किञ्चिद् इति बोधाल् लघोस् ततः । मनाग् आलोकनायेव सम्प्रवृत्तो ऽनुभूतवान् । यन् नाम तत्र तत् किञ्चित् तस्येहाद्य रघूद्वह
शृणु नामानि मुख्यानि कल्पितानि भवादृशैः । द्रष्टुं प्रवृत्तो रन्ध्रेण येन तच् चक्षुर् उच्यते
यच् च पश्यामि तद् दृश्यं दर्शनं तु फलं ततः । यदा पश्यामि कालो ऽसौ यथा पश्यामि स क्रमः
प्रौढा नियतिर् इत्य् अद्य यत्र पश्यामि तन् नभः । स्थितो ऽस्मि यत्र देशो ऽसाव् इत्य् आद्यैषा प्रकल्पना
तदा त्व् अहं विदुन्मेषमात्रम् एतस्य कारणम् । पश्यामीति ततस् तत्र मनाग् बोधो ममोदभूत्