भूतभव्यभविष्यत्स्थजगदाडम्बरं मया । तदानुभूतं वपुषि महाविश्वगणात्मनि
एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम् । एकत्र सोम्यसकलभूतसन्ततिसुस्थितम्
एकत्र समरक्षुब्धसुरासुरनरेश्वरम् । एकत्रासम्भवद्भानुनित्याभिन्नतमोघनम्
एकत्रासम्भवद्ध्वान्तं कान्तज्वालोदरोपमम् । एकत्र नलिनीनालनिलीनमधुकैटभम्
एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम् । एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम्
एकत्र कल्परजनीनिश्शून्यतिमिराकुलम् । शिलाजठरनिस्स्पन्दं व्योमेव वितताकृति
सुषुप्तजठराकारम् अप्रज्ञातम् अलक्षणम् । अप्रतर्क्यम् अविज्ञेयं सुषुप्तम् इव सर्वतः
एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम् । एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम्
एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम् । एकत्र सुरवृत्रान्धबडिसङ्गरसङ्कुलम्
एकत्र मत्तपातालगजकम्पिवसुन्धरम् । एकत्र शेषशिरसẖ कल्पान्तलुठितावनि
क्वचिद् अन्येन रामेण हतरावणराक्षसम् । रक्षसा रावणेनैव क्वचिन् निहतराघवम्
भूस्थपादेन देवाद्रिशिरस्स्थशिरसा परम् । पश्यता पारम् आक्रान्तं क्वचिद् वै कालनेमिना
क्वचिच् चापसुरैर् नित्यं दानवैर् एव पालितम् । क्वचिच् चामृष्टदनुजैर् अमरैर् एव पालितम्
जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः । क्वचिद् भारतयूथेन निहताक्षौहिणीगणम्
क्वचिच् च दाशरथिना त्वयैव हतरावणम् । रामेण रणमत्तेन निश्शेषीकृतराक्षसम्
किम् अहं भगवन् पूर्वम् अभवं कथयेति मे । अभवं चेद् अनेनैव सन्निवेशेन तत् कथम्
सर्व एव विवर्तन्ते राम भावाḫ पुनḫ पुनः । पूयमाना यथा माषाẖ क्रमेणान्येन तेन च
सर्वक्रमसमाẖ केचित् त एवान्ये ऽथ वा मिथः । स्फुरन्त्य् अर्धसमा भावाẖ केचिद् अब्धितरङ्गवत्
पुनस् त्वं पुनर् एवाहं पुनḫ पुनर् इमे जनाः । न कदाचन नैवान्ये सम्भवत्य् अखिलं परे
त एवान्ये ऽथ वाम्भोधौ तरङ्गा इति निर्णयः । यद्वन् न जायते तद्वद् भूतानां भ्रमतां भवे
आयान्ति यान्त्य् अनन्तानि भूतानीह भवभ्रमैः । तान्य् एवान्यानि चान्यानि समानि विषमाणि च
आवृत्तिमन्ति तान्य् एव तथैवान्यानि चाभितः । विद्धि शीकरजालानि भूतानि जगदम्बुधेः
वित्तबन्धुवयẖकर्मविद्याविज्ञानचेष्टितैः । तैर् एव केचिज् जायन्ते भूयो भूयश् शरीरिणः
अर्धैस् तैस् सदृशाẖ केचित् केचित् पादेन तैस् समाः । तज्जीवास् तैर् विसदृशा भवन्त्य् अन्ये शरीरिणः
सर्वैर् एभिस् समाẖ केचित् कालेनैव विलक्षणाः । कालेन सदृशाẖ केचित् तैर् एव च विलक्षणाः
कालेनाकुलचेष्टितान्य् अध इतो गच्छन्त्य् अथोर्ध्वं पुनर् देहालेखनखेदितान्य् अगणितान्य् अन्यानि चान्ये न च । भूताम्बूनि वहन्ति संसृतिमये यान्य् अम्बुधौ चञ्चले चक्रावृत्तिमयानि सङ्कलयितुं शक्नोति कस् तान्य् अलम्
ततश् चिदाकाशवपुर् व्याप्य् अनन्तो निरामयः । दत्तावधानो वपुषि तदापश्यम् अहं क्वचित्
यावद् अन्तर्गतस् सर्गस् संस्थितो ऽङ्कुरितो मम । कुसूलस्थस्य बीजस्य सिक्तस्येवाङ्कुरो हृदि
उद्बुभूषुर् इवास्ते ऽन्तस् सेकाद् बीजे यथाङ्कुरः । आकारवत्य् अनाकारश् चित्त्वाच् चित्ते तथा जगत्
यथोन्मिषति दृश्यश्रीस् सुषुप्ताद् बोधम् एयुषः । जाग्रद् वा विगते स्वप्ने चिन्मात्रस्य स्वचेतनात्