क्वचित् किञ्चिद् असञ्जातसुरं सञ्जातदानवम् । क्वचित् किञ्चित् कृतयुगाचारसज्जनभूतकम्
क्वचित् किञ्चित् कलियुगाचारदुर्जनभूतकम् । क्वचित् किञ्चित् कल्पकालमध्यसंस्थितिसुस्थितम्
क्वचित् किञ्चित् पुरव्यूहदैत्यसङ्गरदुस्तरम् । क्वचित् किञ्चिन् महाशैलजालनिर्विवरावनि
क्वचित् किञ्चिद् असम्पन्नसर्गम् एकाम्बुजोद्भवम् । क्वचित् किञ्चिज् जरामृत्युमुक्तभूतलमानवम्
क्वचित् किञ्चिद् असञ्जातचन्द्रशून्यशिरश्शिवम् । अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम्
असञ्जातामृताश्वेभवैद्यागकमलाविषम् । शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम्
क्वचित् किञ्चिच् च गर्भाङ्गकर्तनोत्कसुरेश्वरम् । अपरिम्लानधर्मत्वात् स्वप्रकाशाखिलप्रजम्
क्वचित् किञ्चिच् च पूर्वान्यसन्निवेशक्रमस्थिति । अपूर्ववेदशास्त्रार्थसमाचारविचारणम्
क्वचित् किञ्चन कल्पान्तसङ्क्षोभाशिवसंस्थिति । क्वचित् किञ्चिच् च दैत्यौघविलुण्ठितसुरालयम्
क्वचित् किञ्चित् सुरोद्यानगायद्गन्धर्वकिन्नरम् । क्वचित् किञ्चित् समारब्धगीर्वाणासुरसौहृदम्
भूतभव्यभविष्यत्स्थजगदाडम्बरं मया । तदानुभूतं वपुषि महाविश्वगणात्मनि
एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम् । एकत्र सोम्यसकलभूतसन्ततिसुस्थितम्
एकत्र समरक्षुब्धसुरासुरनरेश्वरम् । एकत्रासम्भवद्भानुनित्याभिन्नतमोघनम्
एकत्रासम्भवद्ध्वान्तं कान्तज्वालोदरोपमम् । एकत्र नलिनीनालनिलीनमधुकैटभम्
एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम् । एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम्
एकत्र कल्परजनीनिश्शून्यतिमिराकुलम् । शिलाजठरनिस्स्पन्दं व्योमेव वितताकृति
सुषुप्तजठराकारम् अप्रज्ञातम् अलक्षणम् । अप्रतर्क्यम् अविज्ञेयं सुषुप्तम् इव सर्वतः
एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम् । एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम्
एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम् । एकत्र सुरवृत्रान्धबडिसङ्गरसङ्कुलम्
एकत्र मत्तपातालगजकम्पिवसुन्धरम् । एकत्र शेषशिरसẖ कल्पान्तलुठितावनि
क्वचिद् अन्येन रामेण हतरावणराक्षसम् । रक्षसा रावणेनैव क्वचिन् निहतराघवम्
भूस्थपादेन देवाद्रिशिरस्स्थशिरसा परम् । पश्यता पारम् आक्रान्तं क्वचिद् वै कालनेमिना
क्वचिच् चापसुरैर् नित्यं दानवैर् एव पालितम् । क्वचिच् चामृष्टदनुजैर् अमरैर् एव पालितम्
जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः । क्वचिद् भारतयूथेन निहताक्षौहिणीगणम्
क्वचिच् च दाशरथिना त्वयैव हतरावणम् । रामेण रणमत्तेन निश्शेषीकृतराक्षसम्
किम् अहं भगवन् पूर्वम् अभवं कथयेति मे । अभवं चेद् अनेनैव सन्निवेशेन तत् कथम्
सर्व एव विवर्तन्ते राम भावाḫ पुनḫ पुनः । पूयमाना यथा माषाẖ क्रमेणान्येन तेन च
सर्वक्रमसमाẖ केचित् त एवान्ये ऽथ वा मिथः । स्फुरन्त्य् अर्धसमा भावाẖ केचिद् अब्धितरङ्गवत्
पुनस् त्वं पुनर् एवाहं पुनḫ पुनर् इमे जनाः । न कदाचन नैवान्ये सम्भवत्य् अखिलं परे
त एवान्ये ऽथ वाम्भोधौ तरङ्गा इति निर्णयः । यद्वन् न जायते तद्वद् भूतानां भ्रमतां भवे