ततो ऽभवद् यष्टिसमस् ततḫ प्रादेशमात्रकः । ततẖ काचकणाकारो मया दृष्टस् स तादृशः
ततस् सो ऽणुर् भवन् दृष्टो मया खाद् दिव्यदृष्टिना । परमाणुर् अथो भूत्वा तत्रैवान्तर्धिम् आययौ
इत्य् असौ शमम् आयातश् शारदाम्बुदखण्डवत् । तादृशो ऽपि महारम्भḫ पुरḫ पश्यत एव मे
इति सावरणे तेन ते ब्रह्माण्डकवाटके । विनिगीर्णे क्षुधार्तेन हरिणेनेव पर्णके
अथाभून् निर्मलं व्योम शान्तं ब्रह्मैव केवलम् । अनादिमध्यपर्यन्तसंविदाकाशमात्रकम्
इत्य् अहं दृष्टवांस् तत्र कल्पान्तम् उरुविभ्रमम् । दर्पणप्रतिबिम्बाभं शिलाशकलकोटरे
अथ ताम् अङ्गनां स्मृत्वा तां शिलां तं च विभ्रमम् । राजद्वारगतो ग्राम्य इवाहं विस्मयं गतः
ताम् आलोकितवान् भूयẖ कलधौतशिलाम् अहम् । यावत् सर्वत्र सन्त्य् अत्र सर्गाẖ काल्या इवाङ्गके
बुद्धिनेत्रेण दृश्यन्ते दिव्याक्ष्णा वा न ते ऽन्यथा । सर्वत्र सर्वदा सर्वं यद् अस्त्य् एव तथा तदा
दूरतḫ प्रेक्ष्यते मांसदृशा यदि च सा शिला । दृश्यते तच् छिलैवैका न तु सर्गादि किञ्चन
सावस्थिता शिलैवैकरूपा निबिडमण्डला । कलधौतमयी स्फारा सन्ध्याजलदसुन्दरी
ततो ऽहं विस्मयाविष्टḫ प्रविचारितवान् पुनः । शिलायाम् अपरं भागं तथैव परया दृशा
यावत् तम् अपि पश्यामि जगदारम्भमन्थरम् । तथैव सुषिराकारम् इव नानार्थसुन्दरम्
पुनर् अन्यं तथैवाहं प्रदेशं परिदृष्टवान् । सर्गसंरम्भवलितं तावन्तम् अपि तादृशम्
यं यं प्रदेशं पश्यामि शिलायास् तत्र तत्र वै । जगत् पश्याम्य् अविकलम् आदर्श इव बिम्बितम्
प्रविश्यामि जगच् चेत् तत् पश्यामीदम् इवाखिलम् । दृश्यं न चेद् बहिस्स्थस् तत् पश्याम्य् आदर्शबिम्बितम्
मयातिकौतुकेनाथ सर्वास् तस्य गिरेश् शिलाः । अन्विष्टा भूमिभागाश् च तृणगुल्मादयस् तथा
यावत् सर्वत्र तत् तादृग् जगद् अस्ति यथास्थितम् । बुद्ध्यैव दृश्यते नाक्ष्णा परया विविधाकृति
क्वचित् प्रथमसर्गात्मजायमानप्रजापति । कल्प्यमानर्क्षचन्द्रार्कदिनरात्र्यर्तुवत्सरम्
क्वचित् क्वचिन् महीपीठसम्पन्नजनमण्डलम् । क्वचित् किञ्चिद् अखातोग्रचतुस्सागरखातकम्
क्वचित् किञ्चिद् असञ्जातसुरं सञ्जातदानवम् । क्वचित् किञ्चित् कृतयुगाचारसज्जनभूतकम्
क्वचित् किञ्चित् कलियुगाचारदुर्जनभूतकम् । क्वचित् किञ्चित् कल्पकालमध्यसंस्थितिसुस्थितम्
क्वचित् किञ्चित् पुरव्यूहदैत्यसङ्गरदुस्तरम् । क्वचित् किञ्चिन् महाशैलजालनिर्विवरावनि
क्वचित् किञ्चिद् असम्पन्नसर्गम् एकाम्बुजोद्भवम् । क्वचित् किञ्चिज् जरामृत्युमुक्तभूतलमानवम्
क्वचित् किञ्चिद् असञ्जातचन्द्रशून्यशिरश्शिवम् । अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम्
असञ्जातामृताश्वेभवैद्यागकमलाविषम् । शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम्
क्वचित् किञ्चिच् च गर्भाङ्गकर्तनोत्कसुरेश्वरम् । अपरिम्लानधर्मत्वात् स्वप्रकाशाखिलप्रजम्
क्वचित् किञ्चिच् च पूर्वान्यसन्निवेशक्रमस्थिति । अपूर्ववेदशास्त्रार्थसमाचारविचारणम्
क्वचित् किञ्चन कल्पान्तसङ्क्षोभाशिवसंस्थिति । क्वचित् किञ्चिच् च दैत्यौघविलुण्ठितसुरालयम्
क्वचित् किञ्चित् सुरोद्यानगायद्गन्धर्वकिन्नरम् । क्वचित् किञ्चित् समारब्धगीर्वाणासुरसौहृदम्