पवनस्य यथा स्पन्दस् तथैवेच्छा शिवस्य सा । यथास्पन्दो ऽनिलश् शान्तḫ प्रशान्तेच्छस् तथा शिवः
अमूर्तो मूर्तम् आकाशे शब्दाडम्बरम् आनिलः । यथा स्पन्दस् तनोत्य् एवं शिवेच्छा कुरुते जगत्
नृत्यन्त्याथ यदा तत्र तया तस्मिन् पराम्बरे । काकतालीययोगेन संरम्भवशतस् स्वयम्
निकटस्थश् शिवस् स्पृष्टस् स मनाङ्मात्रम् अन्तिकात् । वाडवो ऽग्निस् स्वनाशाय वहन्त्येवाम्बुलेखया
स्पृष्टमात्रे शिवे तस्मिंस् ततḫ परमकारणे । प्रवृत्ता प्रकृतिर् गन्तुं सा शनैस् तनुतां तदा
अनन्ताकारतां त्यक्त्वा सम्पन्ना गिरिमात्रिका । ततो नगरमात्रासौ ततश् च द्रुमसुन्दरी
ततो व्योमसमाकारा शिवस्यैवाकृतिं ततः । सा प्रविष्टा सरिच् छान्तसंरम्भेव महार्णवम्
एक एवाभवद् अथो शिवया परिवर्जितः । शिव एव शिवे शान्ते आकाशे शमशोभितः
भगवञ् शिवसंस्पृष्टा सा शिवा परमेश्वरी । किमर्थम् आगता शान्तिम् इति मे ब्रूहि तत्त्वतः
सा राम प्रकृतिḫ प्रोक्ता शिवेच्छा परमेश्वरी । जगन्मायेति विख्याता स्पन्दशक्तिर् अकृत्रिमा
स परḫ प्रकृतेḫ प्रोक्तḫ पुरुषḫ पावनाकृतिः । शिवरूपधरश् शान्तḫ परमाकाशशक्तिमान्
भ्रमति प्रकृतिस् तावत् संसारे भ्रमरूपिणी । स्पन्दमात्रात्मिका सेच्छा चिच्छक्तिḫ परमेश्वरी
यावन् न पश्यति शिवं नित्यतृप्तम् अनामयम् । अजडं पदम् आद्यन्तवर्जितं तर्जितद्वयम्
संविन्मात्रैकधर्मत्वात् काकतालीययोगतः । संविद्देवी शिवं स्पृष्ट्वा तन्मय्य् एव भवत्य् अलम्
प्रकृतिḫ पुरुषं स्पृष्ट्वा प्रकृतित्वं समुज्झति । तदन्तर् एकतां गत्वा नदी रूपम् इवार्णवे
आपगा हि पयोमात्रा सङ्गतार्णव एव सा । यदा तदा तम् एवाशु प्राप्य तत्रैव लीयते
चितिश् शिवेच्छा सा देवं तम् एवासाद्य शाम्यति । जन्मस्थानं शिलां प्राप्य तीक्ष्णा धारा यथायसी
पुंसश् छाया निजा छायां प्रविष्टस्य शरीरकम् । यथाशु प्रविशत्य् एव प्रकृतिḫ पुरुषं तथा
चेतित्वा चिन् निजं भावं पुरुषाख्यं सनातनम् । भूयो भ्रमति संसारे नेह तत्तां प्रयाति हि
साधुर् वसति चौरौघे तावद् यावद् असौ न तम् । परिजानाति विज्ञाय न तत्र रमते पुनः
द्वैते तावद् असद्रूपे रमते ऽनुमते चितिः । परं पश्यति नो यावत् तं दृष्ट्वा तन्मयी भवेत्
चिति निर्वाणरूपं तत् प्रकृतिḫ परमं पदम् । प्राप्य तत्ताम् अवाप्नोति सरिद् अब्धाव् इवाब्धिताम्
तावद् विमोहवशतश् चितिर् आकुलेषु सर्गेषु संसरति जन्मदशाश्रितेषु । यावन् न पश्यति परं तम् अथाशु दृष्ट्वा तत्रैव मज्जति घनं मधुनीव भृङ्गी
सम्प्राप्य कस् त्यजति नाम तद् आत्मतत्त्वं प्राप्यानुभूय च जहाति रसायनं कः । शाम्यन्ति येन सकलानि निरन्तराणि दुẖखानि जन्ममृतिमोहमयानि राम
शृणु राम कथं तत्र महाकाशे तथास्थितः । देहभ्रान्तिं तु तां त्यक्त्वा स रुद्रो ऽप्य् उपशाम्यति
स रुद्रस् तौ जगत्खण्डौ तदा चित्र इवार्पिताः । निस्स्पन्दा एव तत्रासन् प्रेक्षमाणे स्थिते मयि
ततो मुहूर्तमात्रेण स रुद्रस् तौ नभोऽन्तरे । खण्डौ विलोकयाम् आस दृशार्केणेव रोदसी
ततो निमेषमात्रेण घोणाश्वासेन खण्डकौ । तौ समानीय चिक्षेप पातालान्तर् इवानने
अतिष्ठद् एक एवासाव् अथ खे खम् इवाखिले । भुक्तब्रह्माण्डखण्डोग्रचण्डमण्डकमण्डलः
ततो मुहूर्तमात्रेण लघुस् सो ऽभ्रम् इवाभवत् । ततो ऽभवद् द्रुमसमस् ततस् स्तम्भनिभो ऽभवत्