रामासौ किल चिच्छक्तिस् तया यच् चोदितं तथा । तत् प्रचेतितम् एवान्तस् सत्यं चेदम् इवाखिलम्
न तत् प्रबिम्बितं बाह्यान् मकुरप्रतिबिम्बवत् । सत्यं तद् अन्तर् एवास्ति चितेर् नासत्यम् अर्थतः
चिद्रूपस्य तथाप्य् अन्तस् सत् सङ्कल्पपुरं भवेत् । दृढध्यानाद् विशुद्धायाश् चितेर् भवतु मा कथम्
आदर्शे ऽस्त्व् अथ वा स्वप्ने सर्गस् सङ्कल्पने ऽस्तु वा । स आत्मन्य् अर्थकारित्वात् सत्य इत्य् एव मे मतिः
मम नार्थाय स इति वक्षि चेत् तत् कथं न ते । देशान्तरगतास् सर्वे भवन्त्य् अर्थाय सम्प्रति
यथा देशान्तरग्रामस् तद्गतस्यार्थकृद् भवेत् । सर्वे तथैते तद्भावं गतस्यार्थाय निश्चयात्
यद् यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते । तत् सत्यम् आत्मनो ऽन्यस्य नैव तत्ताम् उपेयुषः
तस्माच् चिच्छक्तिकोशस्थास् सर्वास् सर्गपरम्पराः । सत्या आत्मनि तद्भावं गतस्यान्यस्य नाखिलाः
भूतभव्यभविष्यत्स्थास् सङ्कल्पस्वप्नपूर्गणाः । सर्वे सत्याḫ परं तत्त्वं सर्वात्म कथम् अन्यथा
चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् । न लुठत्य् एव लुठितम् इत्य् अप्य् अनुमितं स्फुटम्
तथा चलन्त्या लुठितं तस्या देहगतं जगत् । न लुठत्य् एव मकुरप्रतिबिम्बम् इव स्थितं
स त्रैलोक्यमहारम्भस् सत्यो ऽपि भ्रान्तिमात्रकम् । भ्रान्तिमात्रस्य के नाम लुठनालुठने वद
कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा । कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितं
भ्रान्तिर् न केवलं सैव दृश्यश्रीर् यावद् अग्रगाम् । त्वं विद्धीमाम् अपि भ्रान्तिं जगल्लक्ष्मीम् अवास्तवीम्
सङ्कल्पने मनोराज्ये स्वप्ने सङ्कथने भ्रमे । यथा पुरानुभवनं त्रैलोक्यानुभवस् तथा
अहम् इति जगद् इति स्वान्तर् भ्रान्तिर् इयं प्रकचतीव चितेः । परमाकाशकृशाङ्ग्याश् शाम्यति निपुणं परिज्ञाता
इति नृत्यति सा देवी दीर्घैर् दोर्दण्डमण्डलैः । परिस्पन्दात्मकैर् व्योम कुर्वाणा घनकाननम्
क्रियासौ नृत्यति तथा चितिशक्तिर् अनामया । अस्या विभूषणं शूर्पकुणालपटलादिकम्
शरशक्तिगदाप्रासमुसुलासिशिलादि च । भावाभावपदार्थौघकलाकालक्रमादि च
चित्स्पन्दो ऽन्तर् जगद् धत्ते कल्पनेव पुरं हृदि । सैव वा जगद् इत्य् एव कल्पनैव यथा पुरं
पवनस्य यथा स्पन्दस् तथैवेच्छा शिवस्य सा । यथास्पन्दो ऽनिलश् शान्तḫ प्रशान्तेच्छस् तथा शिवः
अमूर्तो मूर्तम् आकाशे शब्दाडम्बरम् आनिलः । यथा स्पन्दस् तनोत्य् एवं शिवेच्छा कुरुते जगत्
नृत्यन्त्याथ यदा तत्र तया तस्मिन् पराम्बरे । काकतालीययोगेन संरम्भवशतस् स्वयम्
निकटस्थश् शिवस् स्पृष्टस् स मनाङ्मात्रम् अन्तिकात् । वाडवो ऽग्निस् स्वनाशाय वहन्त्येवाम्बुलेखया
स्पृष्टमात्रे शिवे तस्मिंस् ततḫ परमकारणे । प्रवृत्ता प्रकृतिर् गन्तुं सा शनैस् तनुतां तदा
अनन्ताकारतां त्यक्त्वा सम्पन्ना गिरिमात्रिका । ततो नगरमात्रासौ ततश् च द्रुमसुन्दरी
ततो व्योमसमाकारा शिवस्यैवाकृतिं ततः । सा प्रविष्टा सरिच् छान्तसंरम्भेव महार्णवम्
एक एवाभवद् अथो शिवया परिवर्जितः । शिव एव शिवे शान्ते आकाशे शमशोभितः
भगवञ् शिवसंस्पृष्टा सा शिवा परमेश्वरी । किमर्थम् आगता शान्तिम् इति मे ब्रूहि तत्त्वतः
सा राम प्रकृतिḫ प्रोक्ता शिवेच्छा परमेश्वरी । जगन्मायेति विख्याता स्पन्दशक्तिर् अकृत्रिमा