शिवं शान्तम् अनायासम् अवाच्यं विद्धि निर्मलम् । न मनाग् अपि तत्रास्ति स्तैमित्यात् स्पन्दधर्मता
सा क्रियैव तथारूपा सती बोधवशाद् यदा । व्यावृत्त्यैव तथैवास्ते शिव इत्य् उच्यते तदा
चितिशक्तेẖ क्रियादेव्याḫ प्रतिष्ठानं यदात्मनि । तथाभूतस्थितेर् एव तदैव शिव उच्यते
देव्याẖ क्रियायाश् चिच्छक्तेẖ खरूपिण्या महाकृतेः । कल्पिताकारधारिण्या अनन्यावयवा इमे
सर्गास् सजनतावर्गा लोका आलोकभासुराः । सद्वीपसागराḫ पृथ्व्यस् सवनावनयो ऽद्रयः
साङ्गोपाङ्गास् त्रयो वेदास् सविद्यास्थानगीतयः । सविधिप्रतिषेधार्थास् सशुभाशुभकल्पनाः
सदक्षिणाग्नयो यज्ञाḫ पुरोडाशाज्यशंसिनः । कुणालोलूखलबृसीशूर्पयूपादिसंयुताः
सङ्ग्रामास् सायुधग्रामास् सशूलशरशक्तयः । सभुसुण्डिगदाप्रासहयेभभटभासुराः
जातयो भूतसङ्घानां चतुर्दश सुरादिकाः । चतुर्दशाब्धिद्वीपोर्व्यस् तथा लोकाश् चतुर्दश
चितेẖ कालीशरीरिण्यास् सर्गा ये ऽङ्गे स्थितास् तथा । ते किम् आत्मनि सत्यास् स्युर् उतासत्या वदेति मे
रामासौ किल चिच्छक्तिस् तया यच् चोदितं तथा । तत् प्रचेतितम् एवान्तस् सत्यं चेदम् इवाखिलम्
न तत् प्रबिम्बितं बाह्यान् मकुरप्रतिबिम्बवत् । सत्यं तद् अन्तर् एवास्ति चितेर् नासत्यम् अर्थतः
चिद्रूपस्य तथाप्य् अन्तस् सत् सङ्कल्पपुरं भवेत् । दृढध्यानाद् विशुद्धायाश् चितेर् भवतु मा कथम्
आदर्शे ऽस्त्व् अथ वा स्वप्ने सर्गस् सङ्कल्पने ऽस्तु वा । स आत्मन्य् अर्थकारित्वात् सत्य इत्य् एव मे मतिः
मम नार्थाय स इति वक्षि चेत् तत् कथं न ते । देशान्तरगतास् सर्वे भवन्त्य् अर्थाय सम्प्रति
यथा देशान्तरग्रामस् तद्गतस्यार्थकृद् भवेत् । सर्वे तथैते तद्भावं गतस्यार्थाय निश्चयात्
यद् यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते । तत् सत्यम् आत्मनो ऽन्यस्य नैव तत्ताम् उपेयुषः
तस्माच् चिच्छक्तिकोशस्थास् सर्वास् सर्गपरम्पराः । सत्या आत्मनि तद्भावं गतस्यान्यस्य नाखिलाः
भूतभव्यभविष्यत्स्थास् सङ्कल्पस्वप्नपूर्गणाः । सर्वे सत्याḫ परं तत्त्वं सर्वात्म कथम् अन्यथा
चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् । न लुठत्य् एव लुठितम् इत्य् अप्य् अनुमितं स्फुटम्
तथा चलन्त्या लुठितं तस्या देहगतं जगत् । न लुठत्य् एव मकुरप्रतिबिम्बम् इव स्थितं
स त्रैलोक्यमहारम्भस् सत्यो ऽपि भ्रान्तिमात्रकम् । भ्रान्तिमात्रस्य के नाम लुठनालुठने वद
कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा । कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितं
भ्रान्तिर् न केवलं सैव दृश्यश्रीर् यावद् अग्रगाम् । त्वं विद्धीमाम् अपि भ्रान्तिं जगल्लक्ष्मीम् अवास्तवीम्
सङ्कल्पने मनोराज्ये स्वप्ने सङ्कथने भ्रमे । यथा पुरानुभवनं त्रैलोक्यानुभवस् तथा
अहम् इति जगद् इति स्वान्तर् भ्रान्तिर् इयं प्रकचतीव चितेः । परमाकाशकृशाङ्ग्याश् शाम्यति निपुणं परिज्ञाता
इति नृत्यति सा देवी दीर्घैर् दोर्दण्डमण्डलैः । परिस्पन्दात्मकैर् व्योम कुर्वाणा घनकाननम्
क्रियासौ नृत्यति तथा चितिशक्तिर् अनामया । अस्या विभूषणं शूर्पकुणालपटलादिकम्
शरशक्तिगदाप्रासमुसुलासिशिलादि च । भावाभावपदार्थौघकलाकालक्रमादि च
चित्स्पन्दो ऽन्तर् जगद् धत्ते कल्पनेव पुरं हृदि । सैव वा जगद् इत्य् एव कल्पनैव यथा पुरं