आत्मनात्मनि चिच् छून्यं ज्ञातारं ज्ञेयम् अप्य् अलम् । तथादिसर्गाद् आरभ्य वेत्ति स्वं कचनं च तत्
स्वयम् अन्तẖ कचत्कान्तिश् चिदाकाशस् स्वभावखे । अयं सो ऽहम् अयं च त्वं करोतीत्य् आदिकल्पनम्
तस्मान् न द्वैतम् अस्तीह न चैक्यं न च शून्यता । न चेत्ता चेतनं चैव मौनम् एव न तच् च वा
न चेतति क्वचित् किञ्चित् कश्चिच् चेत्याद्यभावतः । तेन चेत्तापि नास्त्य् एव मौनम् एवेति शिष्यते
निर्विकल्पसमाधिर् हि सिद्धान्तस् सर्ववाङ्मये । तच् च जीवद्दृषन्मौनं तूष्णीम् एवात आस्यताम्
कुर्वन् निजं प्रकृतम् एव यथाप्रवाहम् आचारजालम् अचलḫ परमार्थमौनात् । निर्मानमोहमदभेदम् अनङ्गजीवम् आकाशकोशविशदाशय शान्तम् आस्स्व
अनन्तरं मुने ब्रूहि काली किम् इव नृत्यति । किं शूर्पहलकुद्दालमुसुलादिस्रजां धृतिः
स भैरवश् चिदाकाशश् शिव इत्य् अभिधीयते । अनन्यां तस्य तां विद्धि स्पन्दशक्तिम् अनामयाम्
यथैकं पवनस्पन्दाव् एकम् औष्ण्यानलौ यथा । चिन्मात्रं स्पन्दशक्तिश् च तथैवैकात्म सर्वदा
स्पन्देन लक्ष्यते वायुर् वह्निर् औष्ण्येन लक्ष्यते । तत् स्पन्दमय्या शक्त्यैवं लक्ष्यते नान्यथा किल
शिवं ब्रह्म विदुश् शान्तम् अवाच्यं वाग्विदाम् अपि । स्पन्दशक्तिस् तदिच्छेदं दृश्याभासं तनोति सा
साकारस्य नरस्येच्छा यथा वा कल्पनापुरम् । करोत्य् एवं शिवस्येच्छा करोतीदम् अनाकृतेः
सैषा चितिर् इति प्रोक्ता चेत्योन्मुखतयोदिता । सैषोक्ता वासनानाम्नी वासनाद् दृश्यसंविदः
सैषा जीवकला प्रोक्ता जीवनाज् जीवनैषणा । प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता
दृश्याभासानुभूतीनां करणात् प्रोच्यते क्रिया । वाडवाग्निशिखाकारा शोषाच् छुष्केति कथ्यते
चण्डित्वाच् चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः । जया जयैकनिष्ठत्वात् सिद्धा सिद्धिसमाश्रयात्
जयन्ती च जयात् प्रोक्ता विजया विजयाश्रयात् । प्रोक्तापराजिता वीर्याद् दुर्गा दुर्ग्रहरूपतः
ओङ्कारसारशक्तित्वाद् सारेति परिकीर्तिता । गायत्री गायनात्मत्वात् सावित्री प्रसवस्थितेः
सरणात् सर्वदृष्टीनां कथितैषा सरस्वती । गौरी गौराङ्गदेहत्वाद् भवदेहानुषङ्गिणी
सुप्तानाम् अथ बुद्धानाम् अम्मात्रोच्चारणाद् धृदि । नित्यं त्रैलोक्यभूतानाम् अमेतीन्दुकलोच्यते
शिवयोर् व्योमरूपत्वाद् असितं लक्ष्यते वपुः । नभो हि मांसम् एताभ्यां दृष्टिकृष्टं विलोक्यते
आस्ते नभो नभस्य् एव तेन तौ नभसि स्थितौ । नभोनिभाव् अभूताङ्गाव् अच्छौ व्योम्न इवाग्रजौ
हस्तपादांसमूर्ध्नां यद् बहुत्वाल्पत्वभेदतः । नानात्वं हलशूर्पादिस्रग्धरत्वं च तच् छृणु
सा हि क्रिया भगवती परिस्पन्दैकरूपिणी । दद्यात् स्नायाच् च जुहुयाद् इत्याद्युग्रशरीरिणी
चितिशक्तिर् अनाद्यन्ता तथाभातात्मनात्मनि । साकाशरूपिणी शान्ता दृश्यश्रीस् स्पन्दरूपिणी
देव्यास् तस्या हि याẖ काल्या नानाभिनयवर्तनाः । ता इमा ब्रह्मणस् सर्गजरामरणरीतयः
क्रियासौ ग्रामनगरद्वीपमण्डलमालिकाः । स्पन्दात् करोति धत्ते ऽन्तẖ कल्पितावयवात्मिकाः
काली कमलिनी काली क्रिया ब्रह्माण्डकालिका । धत्ते स्वावयवीभूतां दृश्यलक्ष्मीम् इमां हृदि
न कदाचन चिद्देवी निर्दृश्यावयवा क्वचित् । शिवत्वव्यतिरेकेण शिवतैव विदृश्यता
यथाङ्गं शून्यता व्योम्नस् स्पन्दनं मातरिश्वनः । ज्योत्स्नायाश् शैत्यम् अङ्गं हि दृश्यम् एवं चितेẖ क्रिया