स्वभावाच् चेतनं तस्माद् रुद्रत्वेन तथा स्थितम् । हेमेव रूपकत्वेन सन्निवेशविलासिना
यन् नाम चेतनं यत्र तद् अवश्यं स्वभावतः । स्पन्दधर्मि भवत्य् एव वस्तुता हि स्वभावजा
यस् स्पन्दश् चिद्घनस्य स्वश् शिवस्यास्य स एव नः । स्ववासनावेशवशान् नृत्तम् इत्य् एव राजते
अतस् स कल्पान्तशिवो रुद्रो रौद्राकृतिर् द्रुतम् । यन् नृत्यति हि तद् विद्धि चिद्घनस्पन्दनं निजम्
प्रामाणिकदृशा दृश्यम् इदं नास्त्य् एव वस्तुतः । यदि वास्त्य् एव तत् सर्वं कल्पान्ते प्रविनश्यति
तत् कल्पान्तमहाशून्ये एतस्मिन् परमाम्बरे । कथं किं नाम वा चेत्यं चेत्ता चेतति चिद्घनः
एतद् एव तदाप्य् अङ्ग द्वैतैक्याम्भोदशान्तये । यदि चिन्मात्रनभसश् चेत्यम् अस्ति न किञ्चन
न किञ्चिच् चेतति ततẖ क्वचित् कश्चित् कदाचन । सर्वं शान्तं दृषन्मौनं विज्ञानघनम् अम्बरम्
यच् चेदं चेत्यते नाम तत् स्वभावो ऽस्य वल्गति । चित्स्वभावस्य शान्तस्य स्वसत्तायाम् अवस्थितेः
यथा स्वप्ने चिद् एवान्तḫ पुरपत्तनवद् भवेत् । पुरादि न तु तत् किञ्चिद् विज्ञानाकाशम् एव तत्
आत्मनात्मनि चिच् छून्यं ज्ञातारं ज्ञेयम् अप्य् अलम् । तथादिसर्गाद् आरभ्य वेत्ति स्वं कचनं च तत्
स्वयम् अन्तẖ कचत्कान्तिश् चिदाकाशस् स्वभावखे । अयं सो ऽहम् अयं च त्वं करोतीत्य् आदिकल्पनम्
तस्मान् न द्वैतम् अस्तीह न चैक्यं न च शून्यता । न चेत्ता चेतनं चैव मौनम् एव न तच् च वा
न चेतति क्वचित् किञ्चित् कश्चिच् चेत्याद्यभावतः । तेन चेत्तापि नास्त्य् एव मौनम् एवेति शिष्यते
निर्विकल्पसमाधिर् हि सिद्धान्तस् सर्ववाङ्मये । तच् च जीवद्दृषन्मौनं तूष्णीम् एवात आस्यताम्
कुर्वन् निजं प्रकृतम् एव यथाप्रवाहम् आचारजालम् अचलḫ परमार्थमौनात् । निर्मानमोहमदभेदम् अनङ्गजीवम् आकाशकोशविशदाशय शान्तम् आस्स्व
अनन्तरं मुने ब्रूहि काली किम् इव नृत्यति । किं शूर्पहलकुद्दालमुसुलादिस्रजां धृतिः
स भैरवश् चिदाकाशश् शिव इत्य् अभिधीयते । अनन्यां तस्य तां विद्धि स्पन्दशक्तिम् अनामयाम्
यथैकं पवनस्पन्दाव् एकम् औष्ण्यानलौ यथा । चिन्मात्रं स्पन्दशक्तिश् च तथैवैकात्म सर्वदा
स्पन्देन लक्ष्यते वायुर् वह्निर् औष्ण्येन लक्ष्यते । तत् स्पन्दमय्या शक्त्यैवं लक्ष्यते नान्यथा किल
शिवं ब्रह्म विदुश् शान्तम् अवाच्यं वाग्विदाम् अपि । स्पन्दशक्तिस् तदिच्छेदं दृश्याभासं तनोति सा
साकारस्य नरस्येच्छा यथा वा कल्पनापुरम् । करोत्य् एवं शिवस्येच्छा करोतीदम् अनाकृतेः
सैषा चितिर् इति प्रोक्ता चेत्योन्मुखतयोदिता । सैषोक्ता वासनानाम्नी वासनाद् दृश्यसंविदः
सैषा जीवकला प्रोक्ता जीवनाज् जीवनैषणा । प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता
दृश्याभासानुभूतीनां करणात् प्रोच्यते क्रिया । वाडवाग्निशिखाकारा शोषाच् छुष्केति कथ्यते
चण्डित्वाच् चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः । जया जयैकनिष्ठत्वात् सिद्धा सिद्धिसमाश्रयात्
जयन्ती च जयात् प्रोक्ता विजया विजयाश्रयात् । प्रोक्तापराजिता वीर्याद् दुर्गा दुर्ग्रहरूपतः
ओङ्कारसारशक्तित्वाद् सारेति परिकीर्तिता । गायत्री गायनात्मत्वात् सावित्री प्रसवस्थितेः
सरणात् सर्वदृष्टीनां कथितैषा सरस्वती । गौरी गौराङ्गदेहत्वाद् भवदेहानुषङ्गिणी
सुप्तानाम् अथ बुद्धानाम् अम्मात्रोच्चारणाद् धृदि । नित्यं त्रैलोक्यभूतानाम् अमेतीन्दुकलोच्यते