स्वसत्तामात्रकाद् अन्यत् किञ्चित् तस्य न युज्यते । अन्यत्वम् उररीकर्तुं व्योमावश्यम् असौ किल
तस्मात् तस्य यद् अक्षुब्धं सत्तामात्रं स्वम् आसनम् । अनादिमध्यपर्यन्तं सर्वशक्तिमयात्मकम्
तद् एतत् त्रिजगत् सर्गẖ कल्पान्तो व्योम भूर् दिशः । नाश उत्पादनं राम विरामो भासनं तमः
जननं मरणं माया मोहो मान्द्यम् अवस्तुता । वस्तुता च विवेकश् च बन्धो मोक्षश् शुभाशुभे
विद्याविद्या सदेहत्वं विदेहत्वं क्षणश् चिरम् । चञ्चलत्वं स्थिरत्वं च त्वं चाहं चेतरच् च तत्
सद् असच् चाथ सदसन् मौर्ख्यं पाण्डित्यम् एव च । देशकालौ क्रियाद्रव्यकलना केलिकल्पनम्
रूपालोकमनस्कारकर्मबुद्धीन्द्रियात्मकम् । तेजोवार्यनिलाकाशपृथ्व्यादिकम् इदं ततम्
एतत् सर्वम् असौ शुद्धश् चिदाकाशो निरामयः । अजहद् व्योमताम् एव सर्वात्मैवैवम् आस्थितः
एतत् सर्वं च विमलं खम् एवात्र न संशयः । अस्माद् अनन्यत् स्वप्नाद्रिर् दृष्टान्तो ऽत्राविखण्डितः
चिन्मयḫ परमाकाशो य एष कथितो मया । एषो ऽसौ शिव इत्य् उक्तो भवत्य् एष सनातनः
स एष हरिर् इत्य् आस्ते भवत्य् एष पितामहः । चन्द्रो ऽर्क इन्द्रो वरुणो यमो वैश्रवणो ऽनिलः
अनलो जलदो ऽम्भोधिर् ह्यो ऽद्य श्वश् चास्ति नास्ति च । इत्य् एते चिन्मयाकाशकोशलेशास् स्फुरन्त्य् अलम्
एवंविधाभिस् सञ्ज्ञाभिर् मुधाभावनयेदृशाः । स्वभावमात्रबोधेन भवन्त्य् एते तु तादृशाः
अबोधो बोध इत्य् एवं चिद्व्योमैवात्मनि स्थितम् । तस्माद् भेदोद्भेदम् ऐक्यं नास्त्य् एवेति प्रशाम्यताम्
तावत् तरङ्गत्वम् अयं करोति जीवस् स्वसंसारमहासमुद्रे । यावन् न जानाति परं स्वभावं निरामयं तन्मयताम् उपेतः
ज्ञाते तु शान्तिं स तथोपयाति यथा न सो ऽब्धिर् न तरङ्गको ऽसौ । यथास्थितं सर्वम् इदं च शान्तं भवत्य् अनन्तं परम् एव तस्य
चिन्मात्रपरमाकाश एष यẖ कथितो मया । एषो ऽसौ शिव इत्य् उक्तस् तदा रुद्रḫ प्रनृत्यति
यासौ तस्याकृतिर् नासाव् आकृतिẖ कृतिनां वर । तच् चिन्मात्रघनं व्योम तथा कचति तादृशम्
मया दृष्टं तद् आकाशम् एव शान्तं तदाकृति । मयैव तत् परिज्ञातं नान्यḫ पश्यति तत् तथा
यथा नाम स कल्पान्तस् स रुद्रस् सा च भैरवी । मायामात्रं तथा सर्वं परिज्ञातम् अलं मया
चिद्व्योमैव परं शून्यं सन्निवेशेन नेतरत् । तथा संलक्ष्यते राम भैरवाकारतां गतम्
वाच्यवाचकसम्बन्धं विना बोधो न जायते । यस्मात् तस्मात् त्वयि मया दृष्टम् एवं प्रवर्णितम्
यद् एव वाच्य् उपारूढम् एतद् राम तद् एव ते । रूढाधिभौतिकदृशẖ क्षणात् सत्यात्मतां गतम्
न भैरवी सा नैवासौ भैरवो नैव स क्षयः । समस्तम् एव तद् भ्रान्तिमात्रं चिद्व्योम भासते
स्वप्ननिर्माणपुरवत् सङ्कल्परणवेगवत् । कथार्थसार्थरसवन् मनोराज्यविलासवत्
यथा स्वप्नपुरं स्वच्छे व्योम्नि मौक्तिकधीर् यथा । यथा केशोण्डुकं व्योम्नि तथा चिद् भाति चिद्घने
चिन्मात्राकाशम् एवाच्छं कचति स्वात्मनात्मनि । यथा नाम तथाभाति तदात्मैव जगत्तया
यथा चिद्व्योम्नि कचति स्व एवात्मा जगत्तया । तथा कचति तत् तत्र कल्पान्तशिवनर्तनम्
शिवयोर् एवम् आकारो निराकारो ऽङ्ग वर्णितः । अधुना शृणु वक्ष्ये ते नृत्तस्यानृत्ततास्थितिम्
चेतनं चेतनाद् धेतोẖ किञ्चित् संस्पन्दनं विना । क्वचित् स्थातुं न शक्नोति वस्त्व् अवस्तुतया यथा