दृश्यं चेत् सम्भवत्य् आदौ पश्चात् क्षयम् उपागतम् । तद् दृश्यस्मरणानर्थरूपो बन्धो न शाम्यति
यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः । प्रतिबिम्बो लगत्य् एव सर्गस्मृतिमयो ह्य् अयम्
आदाव् एव हि नोत्पन्नं दृश्यं नास्त्य् एव चेत् स्वयम् । द्रष्टृदृश्यभ्रमाभावात् तत् सम्भवति मुक्तता
तस्माद् असम्भवन्मुक्तेर् मम प्रोत्सार्य युक्तितः । अत्यन्तासम्भवं दृश्ये कथयात्मविदां वर
असद् एव यथा भाति जगत्सर्गात्मकं तथा । शृण्व् अहं कथया राम दीर्घया कथयामि ते
व्यवसायकथावाक्यैर् यावत् तन् नानुवर्णितम् । न विश्राम्यति ते तावद् धृदि पांसुर् यथा ह्रदे
अत्यन्ताभावम् अस्यास् त्वं जगत्सर्गभ्रमस्थितेः । बुद्ध्वैकध्याननिष्ठात्मा व्यवहारं करिष्यसि
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः । दृशस् त्वा वेधयिष्यन्ति न महाद्रिम् इवेषवः
स एषो ऽस्त्य् एक एवात्मा न द्वितीयास्ति कल्पना । जगद् अत्र यथोत्पन्नं तत् ते वक्ष्यामि राघव
तस्माद् इमानि सकलानि विजृम्भितानि यो हीदम् अङ्ग सकले सकलं महात्मा । रूपावलोकनमनोमननप्रकाशकोशास्पदं स्वयम् उदेति च लीयते च
एतस्मात् परमाच् छान्तात् पदात् परमपावनात् । यथेदम् उत्थितं विश्वं तच् छृणूत्तमया धिया
सुषुप्तं स्वप्नवद् भाति भाति ब्रह्मैव सर्गवत् । सर्वम् एकं च तच् छान्तं तत्र तावत् क्रमं शृणु
तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः । सत्तामात्रात्म कचनं यद् अजस्रं स्वभावतः
तद् आत्मनि स्वयं किञ्चिच् चेत्यताम् इव गच्छति । अगृहीतार्थकं संविदीहामर्शनसूचकम्
भाविनामार्थकलनैः किञ्चिदूहितरूपकम् । आकाशाद् अणु शुद्धं च सर्वस्मिन् भाविबोधनम्
ततस् सा परमा सत्ता सतीतश् चेतनोन्मुखी । चिन्नामयोग्या भवति किञ्चिल्लभ्यतया तया
घनसंवेदनात् पश्चाद् भाविजीवादिनामिका । सा भवत्य् आत्मकलना यदा यान्ती परात् पदात्
स्वतैकभावनामात्रसारा संसरणोन्मुखी । तदा वस्तुस्वभावेन तन्वस् तिष्ठन्ति ताम् इमाः
समनन्तरम् एतस्याः खसत्तोदेति शून्यता । शब्दादिगुणबीजं सा भविष्यदभिधार्थदा
अहन्तोदेति तदनु सह वै कालसत्तया । भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः
तस्याश् शक्तेः परायास् तु स्वसंवेदनमात्रकम् । एतज् जालम् असद्रूपं सद् इवोदेति विस्फुरत्
एवम्प्रायात्मिका सा चिद् बीजं सङ्कल्पशाखिनः । तत्राप्य् अहङ्कारकरस् स तत्स्पन्दतया मरुत्
चिद् अहन्तावती व्योमशब्दतन्मात्रभावनात् । स्वतो घनीभूय शनैः खतन्मात्रं भवत्य् अलम्
भाविनामार्थरूपं तद् बीजं शब्दौघशाखिनः । पदवाक्यप्रमाणाढ्यवेदवृन्दविकारि तत्
तस्माद् उदेष्यत्य् अखिला जगच्छ्रीश् शब्दरूपिणः । शब्दौघनिर्मितार्थौघपरिणामविसारिणी
चिद् एवम्परिवारा सा जीवशब्देन कथ्यते । भाविशब्दार्थजालेन बीजं भूतौघशाखिनः
चतुर्दशविधं भूतजातम् आवलिताम्बरम् । जगज्जठरयन्त्रौघं प्रसरिष्यति वै ततः
असम्प्राप्ताभिधासारा चिज् जीवत्वात् स्फुरद्वपुः । या सैव स्पर्शतन्मात्रं भावनाद् भवति क्षणात्
पवनस्कन्धविस्तारं बीजं स्पर्शैकशाखिनः । सर्वभूतक्रियास्पन्दस् तस्मात् सम्प्रसरिष्यति
तत्र यश् चिद्विलासेन प्रकाशो ऽनुभवाद् भवेत् । तेजस्तन्मात्रकं तत्तद्भविष्यदभिधार्थदम्