ब्रह्मेन्द्रविष्णुहरवह्निरवीन्दुपूर्वा देवासुराḫ परिविवृत्तिभिर् आपतन्तः । अन्योऽन्यम् एव विविधा उपयान्ति यान्ति वातावधूतमषकाशनिविभ्रमेण
संहारसर्गसुखदुẖखभवाभवेहानीहानिषेधविधिजन्ममृतिभ्रमाद्याः । सार्धं पृथक् च विलसन्ति सदैव सर्वे व्यामिश्रताम् उपगता अपि तत्र भावाः
भावोद्भवस्थितिविपत्करणभ्रमाणां संहारसर्गभुवनावनिविभ्रमाणाम् । मिथ्यैव खे प्रकचतां खशरीरकाणां संलक्ष्यते ऽत्र न मनाग् अपि नाम सङ्ख्या
उत्पातशान्तिमरणोत्सवयुद्धसाम्यविद्वेषरागभयविश्वसनादि तत्र । एकत्र कोश इव रत्नचयो विभाति नानारसाप्रतिघसर्गपरम्परं तत्
तस्याश् चिदम्बरमये वपुषि स्वभावभूतास् स्फुटानुभवभावजगद्व्यवस्थाः । सर्गक्षया मलिनदृक्कलिताम्बरस्थकेशोण्डुकस्फुरणवत् परितस् स्फुरन्ति
जगत् सङ्क्सुब्धम् अक्षुब्धं दृश्यते ऽस्थितिसंस्थिति । सञ्चाल्यमानमकुरप्रतिबिम्ब इव स्थितम्
नृत्तस्थपूता अप्य् अन्तर् जगदर्थाḫ प्रतिक्षणम् । स्थितिं त्यजन्ति गृह्णन्ति बालसङ्कल्पसर्गवत्
क्रियाशक्तिशरीरे ऽन्तḫ पूयमाना अनारतम् । राशीभूय विशीर्यन्ते जगन्मुद्गकणोत्कराः
क्षणम् आलक्ष्यते किञ्चिन् न किञ्चिद् अपि सा क्षणम् । क्षणम् अङ्गुष्ठमात्रैव क्षणम् आकाशपूरिणी
यस्मात् सा कलना देवी संविच्छक्तिर् जगन्मयी । अनन्ता परमाकाशकोशशुद्धशरीरिणी
कालत्रयस्थितजगत्त्रितयाम्बराङ्गी चित् सा तथा कचति तेन तथास्थितेन । रूपेण चित्रकृदुदारमनस्स्थचित्रसंसारजालसदृशेन कचज्जवेन
सर्गात्मकं वपुर् अनेकचिदात्मकत्वात् संशान्तखैकवपुर् एकविदात्मकत्वात् । एकं निमेषणसमुन्मिषितैकरूपं सा बिभ्रती वपुर् अनन्तम् अनादि भाति
तस्यां विभाति तद् अनन्तशिलात्मकोशलेखाब्जचक्ररचनादिवद् एव दृश्यम् । व्योमात्मकं गगनमात्रशरीरवत्यां चित्त्वाद् द्रवाज् जलधिकोश इवोर्मिलेखाः
महती भैरवी देवी नृत्यतḫ पूरिताम्बरा । तस्य कल्पान्तरुद्रस्य सा पुरो भैरवाकृतेः
सिरामर्माश्रितोग्राग्निदग्धस्थाणुवनावनिः । कल्पान्तवातव्याधूता वनमालेव नृत्यति
कुणालोलूखलबृसीहलशूर्पकरण्डकैः । मुसुलोदञ्चनस्थालीकुम्भस्रग्दामधारिणी
एवंविधानां स्रग्दामजालानां कुसुमोत्करम् । किरन्ती संसृजन्ती च नृत्तक्षुब्धाक्षयं ततम्
वन्द्यमानस् तया सो ऽपि तथैवाकाशभैरवः । तथैव वितताकारस् तदोच्चैḫ परिनृत्यति
डिम्बं डिम्बं कुडिम्बं पच मन डुह मा झम् प्रझम् प्रं प्रझम् प्रं तृल्लं तृल्लं तृतृल्लं तृखलु खलुमयं खङ्खमं खङ्खमङ्खम् । गुं हं गुं हं तु गुं हं गुडुलडुडुमुडं डाडिमाडिं डुडेति नृत्यन्ती शब्दवाद्यैḫ प्रलयपितृवने श्रेयसे वो ऽस्तु काली
बद्ध्वा खट्वाङ्गशृङ्गे कपिलम् उरुजटामण्डलं पद्मयोनेẖ कृत्वा दैत्योत्तमाङ्गैस् स्रजम् उरसि शिरश्शेखरं तार्क्ष्यपक्षैः । पूर्णं रक्तासवानां यममहिषमहाशृङ्गम् आदाय पाणौ पायाद् वो वन्द्यमानḫ प्रलयमुदितया भैरवẖ कालरात्र्या
किम् एतद् भगवन् सर्वनाशे नृत्यति केव सा । किं शूर्पहलकुम्भाद्यैस् तस्यास् स्रग्दामधारणम्
किं नष्टं त्रिजगद् भूयẖ किं काल्या देहसंस्थितम् । परिनृत्यति निर्वाणं कथं पुनर् उपागतम्
नासौ पुमान् न चासौ स्त्री न तन् नृत्तं न ताव् उभौ । तथाभूते तथाचारे आकृती न च ते तयोः
अनादि चिन्मात्रनभो यत् तत् कारणकारणम् । अनन्तं शान्तम् आभासमात्रम् आततम् अव्ययम्
शिवं तत् स शिवस् साक्षाल् लक्ष्यते भैरवाकृतिः । तथास्थितो जगच्छान्तौ परमाकाश एव सः
चेतनत्वात् तथाभूतस् स्वभावविभवाद् ऋते । स्थातुं न युज्यते तस्य यथा हेम्नो निराकृतेः
कथम् आस्तां वद प्राज्ञ चिन्मात्रं चेतनं विना । कथम् आस्तां वद प्राज्ञ मरिचं तिक्ततां विना
कटकादि विना हेम कथम् आस्तां विलोक्यताम् । कथं स्वभावेन विना पदार्थस्य भवेत् स्थितिः
विना तिष्ठति माधुर्यं कथयेक्षुरसẖ कथम् । निर्माधुर्यश् च यश् चेक्षुरसो न हि स तद्रसः
अचेतनं यच् चिन्मात्रं न तच् चिन्मात्रम् उच्यते । न च चिन्मात्रनभसो नष्टं क्वचन युज्यते