जगत्पदार्थैर् व्यामिश्रैर् अमिश्रैर् मकुरे यथा । व्याप्तम् आभोगिभाङ्करैर् अङ्गै रङ्गभ्रमैस् तथा
मेरुर् नृत्यति लोलोच्चकुलाचलबृहद्भुजः । भ्रमदभ्रपटाटोपो नमत्तरुतनूरुहः
अत्यजन्तस् समुद्रास् स्वं मर्यादामुद्रणं द्रुताः । भूमेर् नभस्तलं यान्ति नभसो यान्ति भूतलम्
पुराणि घर्घरारावैर् दृश्यन्ते लुठितान्य् अधः । सगृहाट्टालवास्तव्यं न च किञ्चिल् लुठत्य् अधः
तस्यां भ्रमन्त्यां चतुरं चन्द्रार्का दिनरात्रयः । नखाग्रलेखालोकान्तर् भान्ति काञ्चनसूत्रवत्
विभान्ति वृष्टयस् तस्या घर्मार्तिजलजालिकाः । इव नीहारहारिण्यो लीलावारिदवाससः
खम् एव तस्यास् सम्पन्नं कवरीमण्डलं बृहत् । पातालं चरणा भूमिर् उदरं बाहवो दिशः
द्वीपाब्धयो ऽन्त्रावलयḫ पार्शुकास् सर्वपर्वताः । प्राणापानावलीदोलाḫ पवनस्कन्धशालिकाः
तदानुभूतं नृत्यन्त्यास् तस्या वपुषि विस्तृते । हिमवन्मेरुसह्याद्यैर् दोलान्दोलनम् अद्रिभिः
तरदद्रिगुणाश् छाता वलयन्त्या तया स्रजः । पुनẖ कल्पान्त आरब्ध इव ताण्डवहेलया
सुरासुरोरगानीकरोमशोग्रशरीरिका । निस्स्पन्दं स्थातुम् अशकन् नासौ भ्रमितचक्रवत्
नानाविभवविज्ञानयज्ञयज्ञोपवीतिनी । सा सरन्ती नभस्य् आसीद् घनघूत्कारघोषिणी
तत्र भूतलम् आकाशम् आकाशम् अपि भूतलम् । प्रतिकृत्य भवत्य् अन्तर् न च किञ्चिद् विवर्तते
बृहन्नासागुहागेहनिर्गता घनघुङ्घुमाः । तत्रोग्रा वायवो वान्ति घनघूत्कारकारिणः
नभẖ करशतैस् तस्याश् चतुरावर्तनर्तिभिः । भाति चण्डानिलोद्धूतैर् आकीर्णम् इव पल्लवैः
तदङ्गगजगद्वस्तुजातभ्रमणसम्भ्रमात् । दृष्टिर् धीरापि मोहे मे सन्ना सेनेव सङ्गरे
प्रोह्यन्ते यन्त्रवच् छैला निपतन्ति नभश्चराः । लुठन्त्य् अमरगेहानि चले तद्देहदर्पणे
मेरवḫ पर्णवद् व्यूढा मलयाḫ पल्लवा इव । हिमाद्रयो हिमकणा इवोर्व्यो ऽब्दलता इव
सह्या मह्याम् इव खगा विन्ध्या विद्याधरा इव । ऋक्षवन्तो भ्रमन्तो ऽन्तर् आसन् हंसा इवाम्बरे
द्वीपान्य् अपि तृणानीव समुद्रा वलया इव । सुरलोकालयाḫ पद्मा आसंस् तद्देहवारिणि
विशदाकाशसङ्काशे स्वप्नाञ्जनपुरोपमे । अङ्गे तस्या बृहज्जङ्घे पिण्डादर्शसमत्विषि
विन्ध्यो नृत्यति काञ्चनाचलवने सह्यश् च मह्यां गिरिẖ कैलासो मलयो महेन्द्रशिखरे क्रौञ्चाचले मन्दरः । गोकर्णो गगनाङ्गने वसुमती विद्याधराणां पुरे सर्वा जङ्गमतां गता वनभुवस् तस्याश् शरीरे तदा
अब्धिर् नृत्यति पर्वते गिरिर् अपि प्रोच्चैर् नभẖकोटरे व्योमापीन्दुदिवाकरर्क्षवलितं भूमेर् अधस्ताद् गतम् । सद्वीपाचलपत्तनो वनगणḫ प्रोत्कीर्णपुष्पो दिवि व्यालोलं जगद् अम्बुधाव् इव तृणं दिक्चक्रके भ्राम्यति
व्योम्नि भ्रमन्ति गिरयो ऽम्बुधयो दिगन्तलोकान्तराणि पुरपत्तनमण्डलानि । नद्यस् सरांसि मकुरान्तर् अशेषबद्धवातावकीर्णतृणपर्णगणक्रमेण
मत्स्याश् चरन्ति च मरौ वरवारिणीव व्योम्नि स्थिराणि नगराणि भुवीव भान्ति । खे भूर् अधो गगनम् अक्षयवारिवाहम् उत्पातवातपरिवृत्तगिरिस्थितं तत्
ऋक्षोत्करो भ्रमति दीपसहस्रयन्त्रचक्रभ्रमेण मणिवर्षणमेघचारुः । अन्तर् बहिश् च चकितैḫ प्रणयेन मुक्तं विद्याधरामरगणैर् इव पुष्पवर्षम्
संहारसर्गनिचया दिनरात्रिभागे बिन्दूपमा रजनयो दिवसोत्कराश् च । कृष्णास् सिताश् च परितो ऽमलशुक्लकृष्णस्वादर्शमण्डलवद् आकुलम् उल्लसन्ति
रत्नानि भास्करनिशाकरमण्डलानि तारोत्करास् तरलकान्तिभृतश् च हाराः । स्वच्छाम्बराणि वलितानि महाम्बराणि कुर्वन्त्य् अनारतम् अनल्पम् अलातलेखाः
कल्पान्तकालविलुठत्त्रिजगन्मणीनि व्यावर्तनैर् झगितिजातझणज्झणानि । तेजांसि सन्तततयोर्ध्वम् अधश् च यान्ति नानाविधानि गुणवन्ति विभूषणानि
सङ्ग्राममत्तभटखड्गमरीचिवीचिश्यामायमानसकलातपवासराणाम् । व्यावृत्तिभिर् विलुठताम् अपि सुस्थिराणाम् आकर्ण्यते कलकलो जनमण्डलानाम्