त्रिशूलैḫ पट्टिसैḫ प्रासैश् शरशक्त्यृष्टिमुद्गरैः । निर्यदायुधजालानि स्रग्दामानि बिभर्ति सा
चतुर्दशविधा भूतजातयो यास् सुरादिकाः । तस्याश् शरीरशायिन्यस् ता लोमावलयस् स्थिताः
तस्याश् च नगरग्रामगिरयो देहशायिनः । नृत्यन्त्यास् सह नृत्यन्ति पुनर्जन्ममुदेव ते
जङ्गमात्मकम् एवैतज् जगद् अस्थावरं तदा । नृत्यतीति मया ज्ञातं परलोके सुखं स्थितम्
निगीर्णं जगद् अङ्गस्थं कृत्वा तृप्तिम् उपागता । परिनृत्यति सा मत्ता जगज्जीर्णाहिचातकी
आदर्शप्रतिबिम्बस्थम् इवाभात्य् अखिलं जगत् । तस्या वपुषि विस्तीर्णे खरूपिणि खरूपधृत्
तज्जगन्नर्तनं चारु तद्देहादर्शसंस्थितम् । चिरं मया तदा दृष्टम् अविनष्टं पुरस्स्थितम्
विवलत्तारकाजालं भ्रमत्पर्वतमण्डलम् । मषकव्यूहवद् वातव्याधूतामरदानवम्
सङ्ग्रामोन्मुक्तचक्राभद्वीपार्णववृताम्बरम् । हेलाविवलनावर्तप्रौढशैलधरातृणम्
नीलमेघांशुकावृत्तिवातघुङ्घुमिताम्बरम् । काष्ठाद्र्यस्थिपुरास्फोटपटत्पटपटारवम्
जगत्पदार्थैर् व्यामिश्रैर् अमिश्रैर् मकुरे यथा । व्याप्तम् आभोगिभाङ्करैर् अङ्गै रङ्गभ्रमैस् तथा
मेरुर् नृत्यति लोलोच्चकुलाचलबृहद्भुजः । भ्रमदभ्रपटाटोपो नमत्तरुतनूरुहः
अत्यजन्तस् समुद्रास् स्वं मर्यादामुद्रणं द्रुताः । भूमेर् नभस्तलं यान्ति नभसो यान्ति भूतलम्
पुराणि घर्घरारावैर् दृश्यन्ते लुठितान्य् अधः । सगृहाट्टालवास्तव्यं न च किञ्चिल् लुठत्य् अधः
तस्यां भ्रमन्त्यां चतुरं चन्द्रार्का दिनरात्रयः । नखाग्रलेखालोकान्तर् भान्ति काञ्चनसूत्रवत्
विभान्ति वृष्टयस् तस्या घर्मार्तिजलजालिकाः । इव नीहारहारिण्यो लीलावारिदवाससः
खम् एव तस्यास् सम्पन्नं कवरीमण्डलं बृहत् । पातालं चरणा भूमिर् उदरं बाहवो दिशः
द्वीपाब्धयो ऽन्त्रावलयḫ पार्शुकास् सर्वपर्वताः । प्राणापानावलीदोलाḫ पवनस्कन्धशालिकाः
तदानुभूतं नृत्यन्त्यास् तस्या वपुषि विस्तृते । हिमवन्मेरुसह्याद्यैर् दोलान्दोलनम् अद्रिभिः
तरदद्रिगुणाश् छाता वलयन्त्या तया स्रजः । पुनẖ कल्पान्त आरब्ध इव ताण्डवहेलया
सुरासुरोरगानीकरोमशोग्रशरीरिका । निस्स्पन्दं स्थातुम् अशकन् नासौ भ्रमितचक्रवत्
नानाविभवविज्ञानयज्ञयज्ञोपवीतिनी । सा सरन्ती नभस्य् आसीद् घनघूत्कारघोषिणी
तत्र भूतलम् आकाशम् आकाशम् अपि भूतलम् । प्रतिकृत्य भवत्य् अन्तर् न च किञ्चिद् विवर्तते
बृहन्नासागुहागेहनिर्गता घनघुङ्घुमाः । तत्रोग्रा वायवो वान्ति घनघूत्कारकारिणः
नभẖ करशतैस् तस्याश् चतुरावर्तनर्तिभिः । भाति चण्डानिलोद्धूतैर् आकीर्णम् इव पल्लवैः
तदङ्गगजगद्वस्तुजातभ्रमणसम्भ्रमात् । दृष्टिर् धीरापि मोहे मे सन्ना सेनेव सङ्गरे
प्रोह्यन्ते यन्त्रवच् छैला निपतन्ति नभश्चराः । लुठन्त्य् अमरगेहानि चले तद्देहदर्पणे
मेरवḫ पर्णवद् व्यूढा मलयाḫ पल्लवा इव । हिमाद्रयो हिमकणा इवोर्व्यो ऽब्दलता इव
सह्या मह्याम् इव खगा विन्ध्या विद्याधरा इव । ऋक्षवन्तो भ्रमन्तो ऽन्तर् आसन् हंसा इवाम्बरे
द्वीपान्य् अपि तृणानीव समुद्रा वलया इव । सुरलोकालयाḫ पद्मा आसंस् तद्देहवारिणि