उह्यन्ते मेरवो येन तेन निश्श्वासवायुना । घनघुङ्घुमदिग्वक्त्रगगनोग्राङ्गघोषिणा
घनमारुतघूत्कारैẖ क्ष्वेडागेयं प्रगायता । नियतानुनयेनेव वलितास्यानुवृत्तिना
ततो नृत्तवशावेशाद् वर्धमानशरीरिणी । मया दृष्टावधानेन गगनाभोगपूरिणी
यावत् तया धृता देहे हेलावलनसारवा । माला मलयकैलाससह्यमन्दरमेरुभिः
आसंस् तस्या युगान्ताभ्रमालिकाḫ पट्टपट्टिकाः । आदर्शमण्डलान्य् अग्रे त्रीणि लोकान्तराणि च
कर्णयोर् हिमवन्मेरू रुप्यकाञ्चनपुत्रिके । ब्रह्माण्डघुर्घुरैर् माला महती कटिमेखला
स्रजẖ कुलाचलैश् शृङ्गवनपत्तनगुच्छकाः । तरत्पुरवरद्वीपग्रामपेलवपल्लवाः
अस्या अङ्गेषु दृष्टानि पुराणि नगराणि च । ऋतवश् च त्रयो लोका मासाहोरात्रमालिकाः
मुक्तालतादिकं नद्यẖ कालिन्दीत्रिपथादिकाः । धर्माधर्माव् उभौ कर्णभूषणे चान्यकर्णयोः
स्तनास् तस्यास् तु चत्वारस् स्रवद्धर्मपयोलवाः । वेदास् सकलशास्त्रार्थचतुस्संस्थानचूचुकाः
त्रिशूलैḫ पट्टिसैḫ प्रासैश् शरशक्त्यृष्टिमुद्गरैः । निर्यदायुधजालानि स्रग्दामानि बिभर्ति सा
चतुर्दशविधा भूतजातयो यास् सुरादिकाः । तस्याश् शरीरशायिन्यस् ता लोमावलयस् स्थिताः
तस्याश् च नगरग्रामगिरयो देहशायिनः । नृत्यन्त्यास् सह नृत्यन्ति पुनर्जन्ममुदेव ते
जङ्गमात्मकम् एवैतज् जगद् अस्थावरं तदा । नृत्यतीति मया ज्ञातं परलोके सुखं स्थितम्
निगीर्णं जगद् अङ्गस्थं कृत्वा तृप्तिम् उपागता । परिनृत्यति सा मत्ता जगज्जीर्णाहिचातकी
आदर्शप्रतिबिम्बस्थम् इवाभात्य् अखिलं जगत् । तस्या वपुषि विस्तीर्णे खरूपिणि खरूपधृत्
तज्जगन्नर्तनं चारु तद्देहादर्शसंस्थितम् । चिरं मया तदा दृष्टम् अविनष्टं पुरस्स्थितम्
विवलत्तारकाजालं भ्रमत्पर्वतमण्डलम् । मषकव्यूहवद् वातव्याधूतामरदानवम्
सङ्ग्रामोन्मुक्तचक्राभद्वीपार्णववृताम्बरम् । हेलाविवलनावर्तप्रौढशैलधरातृणम्
नीलमेघांशुकावृत्तिवातघुङ्घुमिताम्बरम् । काष्ठाद्र्यस्थिपुरास्फोटपटत्पटपटारवम्
जगत्पदार्थैर् व्यामिश्रैर् अमिश्रैर् मकुरे यथा । व्याप्तम् आभोगिभाङ्करैर् अङ्गै रङ्गभ्रमैस् तथा
मेरुर् नृत्यति लोलोच्चकुलाचलबृहद्भुजः । भ्रमदभ्रपटाटोपो नमत्तरुतनूरुहः
अत्यजन्तस् समुद्रास् स्वं मर्यादामुद्रणं द्रुताः । भूमेर् नभस्तलं यान्ति नभसो यान्ति भूतलम्
पुराणि घर्घरारावैर् दृश्यन्ते लुठितान्य् अधः । सगृहाट्टालवास्तव्यं न च किञ्चिल् लुठत्य् अधः
तस्यां भ्रमन्त्यां चतुरं चन्द्रार्का दिनरात्रयः । नखाग्रलेखालोकान्तर् भान्ति काञ्चनसूत्रवत्
विभान्ति वृष्टयस् तस्या घर्मार्तिजलजालिकाः । इव नीहारहारिण्यो लीलावारिदवाससः
खम् एव तस्यास् सम्पन्नं कवरीमण्डलं बृहत् । पातालं चरणा भूमिर् उदरं बाहवो दिशः
द्वीपाब्धयो ऽन्त्रावलयḫ पार्शुकास् सर्वपर्वताः । प्राणापानावलीदोलाḫ पवनस्कन्धशालिकाः
तदानुभूतं नृत्यन्त्यास् तस्या वपुषि विस्तृते । हिमवन्मेरुसह्याद्यैर् दोलान्दोलनम् अद्रिभिः
तरदद्रिगुणाश् छाता वलयन्त्या तया स्रजः । पुनẖ कल्पान्त आरब्ध इव ताण्डवहेलया