अर्केन्दुवह्निनयनं चलद्दशदिगम्बरम् । घनदीर्घप्रभाजालम् आलानं श्यामलत्विषाम्
वाडवाग्निदृशं लोलभुजोर्मिभरभासुरम् । एकार्णवार्णो द्राग् देहबन्धेनेव समुत्थितम्
पश्याम्य् अनन्तरम् अहं यावत् तस्य शरीरतः । छायेव परिनिर्याति नर्तनानुविधायिनी
सूर्येष्व् अविद्यमानेषु महातमसि मन्थरे । स्थिते कथम् इयं छाया भवेद् इति मतिर् मम
यावद् विचारयाम्य् आशु तावत् तस्य तदा पुरः । सा स्थिता परिनृत्यन्ती विशीर्णा स्त्री त्रिलोचना
कृष्णा कृशा सिरालाङ्गी जर्जरा विकृताकृतिः । ज्वालाकुलानलालोलवनसम्भारशेखरा
भिन्नाञ्जनतमश्श्यामा यामिनीवाकृतिं गता । तमश्श्रीर् देहयुक्तेव साकारेवाम्बरद्युतिः
अतिदीर्घा करालास्या नभो मातुम् इवोद्यता । दीर्घजानुभुजभ्रान्त्या मातुकामेव दिङ्मुखम्
कृशा बहूपवासेव परिनिम्नमहाहनुः । कज्जलश्यामला मेघमालेव पवनाकुला
कृशाशक्ता यदोत्थातुं सुदीर्घा विधिना तदा । ग्रथितेव सिरारूपैर् दामभिर् दैर्घ्यशालिभिः
तथा नाम सुदीर्घा सा यथा तस्याश् शिरẖखुरम् । मया दृष्टं प्रयत्नेन चिरोर्ध्वाधोगमागमैः
आर्द्रान्त्रतन्त्रीग्रथितशिरẖखुरकरोत्करा । अमूला सूत्रवलिता कण्टकानाम् इव स्थली
विश्वरूपा यमार्कादिशिरẖकमलजालकैः । कृतमालामलालोकवान्तवह्निमयाचला
प्रलम्बकर्णा लुलितनासा नृशिरकुण्डला । शुष्कतुम्बीलताष्ठीवा दीर्घलोलासितस्तनी
कुमारबर्हिपिञ्छौघब्राह्ममूर्धजमण्डलैः । लाञ्छितोच्चसुराधीशशिरẖखट्वाङ्गमण्डला
दन्तेन्दुमालाविमलोद्द्योतपीततमोऽर्णवा । कृष्णोच्चैर् धूमलेखेव वृत्तावर्तविवर्तिनी
शुष्कतुम्बीलतेवोच्चैर् आकाशतरुसंश्रिता । विलोलावयवाष्ठीवा वातैḫ पटपटारवा
बृहत्तरङ्गोर्ध्वभुजा श्यामलोल्लासशालिनी । एकार्णवोर्मिमालेव नृत्तावर्तविवर्तिनी
क्षणम् एकभुजाकारा क्षणं बहुभुजाकुला । अनन्तोग्रभुजा क्षिप्रं जगन्नर्तनमण्डपा
क्षिप्रम् एकमुखाकारा क्षिप्रं बहुमुखाकृतिः । अनन्तोग्रमुखी क्षिप्रं निर्मुखी वापि च क्षणम्
एकपादान्विता क्षिप्रं क्षिप्रं पादशतान्विता । क्षणं चानन्तपादाढ्या निष्पादाकारिणी क्षणम्
कालरात्रिर् इयं सेति मयानुमितदेहिका । काली भगवती सेयम् इति निर्णीतसञ्चरा
ज्वालापूर्णारघट्ठोग्रखाताभनयनत्रया । ज्वलद्वरेन्द्रनीलाद्रिसानूपमललाटभूः
लोकालोकेन्द्रनीलाग्रश्वभ्रभीमहनुद्वया । वातस्कन्धगुणप्रोततारामुक्ताकलापिनी
इन्द्रनीलाद्रितुल्योरुतोरणोच्चे प्रभासुरे । विश्रान्तकाचशैलाभभगभीषणवायसा
नृत्यद्भुजलतापुष्पैर् नखशुभ्राभ्रमण्डलैः । पूर्णचन्द्रशतानीव भ्रमयन्ती नभस्तले
भ्रमद्भिर् व्याप्तदिक्चक्रा भुजैẖ कल्पाम्बुदैर् इव । वर्षद्भिḫ पाणिजप्रान्ततारालेखाबृहत्प्रभाः
नखपुष्पाङ्गुलीवल्लीजालैर् भ्रान्तभुजद्रुमैः । कृष्णैẖ काननिताशेषगगनाग्रोग्रमूर्तिभिः
तमालतालतन्मूलम् अवदग्धं महानलैः । विडम्बयन्ती चलितं जङ्घासङ्घेन चोपता
अप्य् अनन्ते महाव्योम्नि पारं प्राप्तैश् शिरोरुहैः । कुर्वाणेवाततं वासवनं तिमिरदन्तिनः