अधृतं धृतम् एवोच्चैर् अपतच् चैव वा पतत् । अनाकृत्य् एव साकारं जगत् स्वप्नपुरं यथा
किम् अस्य नाम पतति किं वा केनास्य धार्यते । यथा संवित्तिकचनं तथैतद् अवतिष्ठते
यथा केशोण्डुकं व्योम्नि यथा व्योमनि शून्यता । यथा वा पवने स्पन्दो जगच् चिद्गगने तथा
चितौ सङ्कल्पनगरं ब्रह्माण्डाख्यं जगद्गृहम् । खे खम् एवात्यनाकारम् अत्याकारम् इव स्थितम्
पातसंवित्समुद्भूतं पतद् आस्ते दिवानिशम् । उत्पतन्त्या विदोद्भूतम् उत्पतच् चैव तिष्ठति
स्थितिसंवित्समुद्भूतं स्थितम् आस्ते दिवानिशम् । गच्छन्त्या संविदोद्भूतं गच्छद् आस्ते दिवानिशम्
एति नाशविदा नाशं महाकल्पादिवेदनैः । जायते जन्मसंवित्त्या व्योम्नि सर्गादिवेदनैः
आभाति मौक्तिकगणश् शरदम्बरान्तर् दृष्टाव् असत्य उदितो ऽप्य् अतिसत्यरूपः । भ्रान्त्या यथा नभसि विस्फुरतां तथैषां सङ्ख्यां विधातुम् इह को जगतां समर्थः
अथ राघव रुद्रं तं तदा तस्मिन् महाम्बरे । प्रवृत्तं नर्तितुं मत्तम् अपश्यं वितताकृतिम्
व्योमेवाकृतिम् आपन्नम् अजहद्व्यापितां निजाम् । महाकारं घनश्यामं दशाशापरिपूरकम्
अर्केन्दुवह्निनयनं चलद्दशदिगम्बरम् । घनदीर्घप्रभाजालम् आलानं श्यामलत्विषाम्
वाडवाग्निदृशं लोलभुजोर्मिभरभासुरम् । एकार्णवार्णो द्राग् देहबन्धेनेव समुत्थितम्
पश्याम्य् अनन्तरम् अहं यावत् तस्य शरीरतः । छायेव परिनिर्याति नर्तनानुविधायिनी
सूर्येष्व् अविद्यमानेषु महातमसि मन्थरे । स्थिते कथम् इयं छाया भवेद् इति मतिर् मम
यावद् विचारयाम्य् आशु तावत् तस्य तदा पुरः । सा स्थिता परिनृत्यन्ती विशीर्णा स्त्री त्रिलोचना
कृष्णा कृशा सिरालाङ्गी जर्जरा विकृताकृतिः । ज्वालाकुलानलालोलवनसम्भारशेखरा
भिन्नाञ्जनतमश्श्यामा यामिनीवाकृतिं गता । तमश्श्रीर् देहयुक्तेव साकारेवाम्बरद्युतिः
अतिदीर्घा करालास्या नभो मातुम् इवोद्यता । दीर्घजानुभुजभ्रान्त्या मातुकामेव दिङ्मुखम्
कृशा बहूपवासेव परिनिम्नमहाहनुः । कज्जलश्यामला मेघमालेव पवनाकुला
कृशाशक्ता यदोत्थातुं सुदीर्घा विधिना तदा । ग्रथितेव सिरारूपैर् दामभिर् दैर्घ्यशालिभिः
तथा नाम सुदीर्घा सा यथा तस्याश् शिरẖखुरम् । मया दृष्टं प्रयत्नेन चिरोर्ध्वाधोगमागमैः
आर्द्रान्त्रतन्त्रीग्रथितशिरẖखुरकरोत्करा । अमूला सूत्रवलिता कण्टकानाम् इव स्थली
विश्वरूपा यमार्कादिशिरẖकमलजालकैः । कृतमालामलालोकवान्तवह्निमयाचला
प्रलम्बकर्णा लुलितनासा नृशिरकुण्डला । शुष्कतुम्बीलताष्ठीवा दीर्घलोलासितस्तनी
कुमारबर्हिपिञ्छौघब्राह्ममूर्धजमण्डलैः । लाञ्छितोच्चसुराधीशशिरẖखट्वाङ्गमण्डला
दन्तेन्दुमालाविमलोद्द्योतपीततमोऽर्णवा । कृष्णोच्चैर् धूमलेखेव वृत्तावर्तविवर्तिनी
शुष्कतुम्बीलतेवोच्चैर् आकाशतरुसंश्रिता । विलोलावयवाष्ठीवा वातैḫ पटपटारवा
बृहत्तरङ्गोर्ध्वभुजा श्यामलोल्लासशालिनी । एकार्णवोर्मिमालेव नृत्तावर्तविवर्तिनी
क्षणम् एकभुजाकारा क्षणं बहुभुजाकुला । अनन्तोग्रभुजा क्षिप्रं जगन्नर्तनमण्डपा
क्षिप्रम् एकमुखाकारा क्षिप्रं बहुमुखाकृतिः । अनन्तोग्रमुखी क्षिप्रं निर्मुखी वापि च क्षणम्