बहिẖ किं विद्यते ब्रह्मन् ब्रह्मसद्मकवाटतः । कास् तत्रावरणा ब्रूहि कियत्यस् संस्थिताẖ कथम्
ब्रह्माण्डखण्डयोḫ पारे ततो दशगुणं जलम् । सन्ध्याकाशम् अनन्तं तं वर्जयित्वाततं स्थितम्
ततस् तथैव ज्वालात्म तेजो दशगुणं स्थितम् । ततस् तथैव पवनḫ पावनो निर्मलस् स्थितः
ततस् तथैव विमलं नभो दशगुणं स्थितम् । ततḫ परमम् अत्यच्छं ब्रह्माकाशम् अनन्तकम्
अन्यत्रान्यत्र तस्याथ दृष्टयो ऽन्यास् तथैव खे । कचन्त्य् असङ्ख्या दूरस्था मिथोऽदृष्टात्मसृष्टयः
ऊर्ध्वे ब्रह्माण्डखण्डस्य तस्याधस्तान् मुनीश्वर । तज् जलादि महाकारं क्व कथं केन धार्यते
स पार्थिवḫ पदार्थानां स्थितẖ कड्ढकरत्नवत् । भागास् तम् एव धावन्ति ते सुता मातरं यथा
अतो यद् एव नेदीयो ब्रह्माण्डाख्यं महीवपुः । तत् पदार्थाḫ प्रधावन्ति तृषितास् सलिलं यथा
अवलम्ब्य तद् एवातस् संस्थितास् ते जलादयः । न स्थितिं प्रविमुञ्चन्ति स्वां यथावयवा इव
ब्रह्मन् ब्रह्माण्डखण्डे ते तिष्ठतẖ कथम् उच्यताम् । किमाकृती धृते केन कथं वा परिनश्यतः
अधृतं धृतम् एवोच्चैर् अपतच् चैव वा पतत् । अनाकृत्य् एव साकारं जगत् स्वप्नपुरं यथा
किम् अस्य नाम पतति किं वा केनास्य धार्यते । यथा संवित्तिकचनं तथैतद् अवतिष्ठते
यथा केशोण्डुकं व्योम्नि यथा व्योमनि शून्यता । यथा वा पवने स्पन्दो जगच् चिद्गगने तथा
चितौ सङ्कल्पनगरं ब्रह्माण्डाख्यं जगद्गृहम् । खे खम् एवात्यनाकारम् अत्याकारम् इव स्थितम्
पातसंवित्समुद्भूतं पतद् आस्ते दिवानिशम् । उत्पतन्त्या विदोद्भूतम् उत्पतच् चैव तिष्ठति
स्थितिसंवित्समुद्भूतं स्थितम् आस्ते दिवानिशम् । गच्छन्त्या संविदोद्भूतं गच्छद् आस्ते दिवानिशम्
एति नाशविदा नाशं महाकल्पादिवेदनैः । जायते जन्मसंवित्त्या व्योम्नि सर्गादिवेदनैः
आभाति मौक्तिकगणश् शरदम्बरान्तर् दृष्टाव् असत्य उदितो ऽप्य् अतिसत्यरूपः । भ्रान्त्या यथा नभसि विस्फुरतां तथैषां सङ्ख्यां विधातुम् इह को जगतां समर्थः
अथ राघव रुद्रं तं तदा तस्मिन् महाम्बरे । प्रवृत्तं नर्तितुं मत्तम् अपश्यं वितताकृतिम्
व्योमेवाकृतिम् आपन्नम् अजहद्व्यापितां निजाम् । महाकारं घनश्यामं दशाशापरिपूरकम्
अर्केन्दुवह्निनयनं चलद्दशदिगम्बरम् । घनदीर्घप्रभाजालम् आलानं श्यामलत्विषाम्
वाडवाग्निदृशं लोलभुजोर्मिभरभासुरम् । एकार्णवार्णो द्राग् देहबन्धेनेव समुत्थितम्
पश्याम्य् अनन्तरम् अहं यावत् तस्य शरीरतः । छायेव परिनिर्याति नर्तनानुविधायिनी
सूर्येष्व् अविद्यमानेषु महातमसि मन्थरे । स्थिते कथम् इयं छाया भवेद् इति मतिर् मम
यावद् विचारयाम्य् आशु तावत् तस्य तदा पुरः । सा स्थिता परिनृत्यन्ती विशीर्णा स्त्री त्रिलोचना
कृष्णा कृशा सिरालाङ्गी जर्जरा विकृताकृतिः । ज्वालाकुलानलालोलवनसम्भारशेखरा
भिन्नाञ्जनतमश्श्यामा यामिनीवाकृतिं गता । तमश्श्रीर् देहयुक्तेव साकारेवाम्बरद्युतिः
अतिदीर्घा करालास्या नभो मातुम् इवोद्यता । दीर्घजानुभुजभ्रान्त्या मातुकामेव दिङ्मुखम्
कृशा बहूपवासेव परिनिम्नमहाहनुः । कज्जलश्यामला मेघमालेव पवनाकुला
कृशाशक्ता यदोत्थातुं सुदीर्घा विधिना तदा । ग्रथितेव सिरारूपैर् दामभिर् दैर्घ्यशालिभिः