सर्वभूतपरित्यक्तस् तस्मिन् काले खमूर्तिमान् । क्षोभम् एत्य क्षणं क्षीणḫ परमां शान्तिम् एष्यति
ये गुणा ये त्रयẖ कालाश् चित्ताहङ्कारबुद्धयः । प्रणवस्य च ये वर्णा ये च वेदास् तथा त्रयः
रुद्रस्य तस्य ते नेत्रसन्निवेशेन संस्थिताः । त्रिशूलं तेन त्रैलोक्यं गृहीतं करकोटरे
यस्मात् तद्व्यतिरेकेण सर्वभूतगणेष्व् अपि । अन्यन् न विद्यते किञ्चिद् देहात्मैव ततस् स्थितः
सर्गसत्तोपलम्भात्मा स्वभावो ऽस्य प्रयोजनम् । ईरितश् शिवरूपेण चिन्मात्राकाशरूपिणा
तेनैव च निगीर्णस् सन् परमां शान्तिम् एष्यति । निर्मलाकाशरूपात्मा कृष्ण इत्य् एष ईश्वरः
कृत्वाकल्पं जगत् सर्वं तत् पीत्वैकार्णवं तदा । सम्प्रयाति परां शान्तिम् अभूयस्सन्निवृत्तये
अनन्तरं मया दृष्टस् तत्रासौ यावद् उद्यमात् । प्रवृत्तḫ प्राणवेगेन तम् आक्रष्टुं महार्णवम्
अथ तस्य मुखं स्फारं ज्वालामालाकुलान्तरम् । प्राणकृष्टो महाम्भोधिर् वाडवाग्निम् इवाविशत्
स एव वाडवो भूत्वा वह्निर् आकल्पम् अर्णवे । अहङ्कारḫ पिबत्य् अम्बु रुद्रस् सर्वं तु तत् तदा
पातालम् इव पानीयं सर्पो बिलम् इव क्षणात् । चण्डवायुर् इवाकाशम् अविशत् तन्मुखं जवात्
समुदेत्यापिबद् रुद्रस् स मुहूर्तेन तत्पयः । कृष्णाङ्गो ऽर्क इव ध्वान्तं सत्सम्पर्क इवागुणम्
आब्रह्मलोकपातालं शान्तं शून्यम् अथाभवत् । रजोधूमानिलाम्भोदभूतमुक्तं समं नभः
केवलं तत्र दृश्यन्ते चत्वारो व्योमनिर्मलाः । इमे पदार्था निस्स्पन्दाश् शृणु तान् रघुनन्दन
एकस् तावद् असौ मध्ये रुद्रẖ कृष्णाम्बराकृतिः । निराधारस् स्थितो व्योम्नि निस्स्पन्दो ऽम्भोधिबिम्बवत्
द्वितीयो ऽवस्थितो दूरे पृथ्व्याकाशतलोपमः । भागो ब्रह्माण्डसदनस्याधḫ पातालसप्तकात्
पातालभूतलदिवां सशैलेन्द्रदिवौकसाम् । व्याप्तिḫ पार्थिवभागेन पङ्कमात्रात्मना मनाक्
तृतीयो ऽत्र पदार्थो ऽभूद् ऊर्ध्वं ब्रह्माण्डभागभूः । दृष्टिक्षयात् स दूरत्वाल् लक्ष्यते गगनासितः
दूरविश्लिष्टयोर् मध्यं यत् तद् ब्रह्माण्डखण्डयोः । तद् आकाशम् अनाद्यन्तं ब्रह्म निर्मलम् आततम्
चतुर्थो ऽसौ पदार्थस् तु तदा संलक्षितो मया । चतुष्टयाद् ऋते नान्यद् एतस्माद् एव किञ्चन
बहिẖ किं विद्यते ब्रह्मन् ब्रह्मसद्मकवाटतः । कास् तत्रावरणा ब्रूहि कियत्यस् संस्थिताẖ कथम्
ब्रह्माण्डखण्डयोḫ पारे ततो दशगुणं जलम् । सन्ध्याकाशम् अनन्तं तं वर्जयित्वाततं स्थितम्
ततस् तथैव ज्वालात्म तेजो दशगुणं स्थितम् । ततस् तथैव पवनḫ पावनो निर्मलस् स्थितः
ततस् तथैव विमलं नभो दशगुणं स्थितम् । ततḫ परमम् अत्यच्छं ब्रह्माकाशम् अनन्तकम्
अन्यत्रान्यत्र तस्याथ दृष्टयो ऽन्यास् तथैव खे । कचन्त्य् असङ्ख्या दूरस्था मिथोऽदृष्टात्मसृष्टयः
ऊर्ध्वे ब्रह्माण्डखण्डस्य तस्याधस्तान् मुनीश्वर । तज् जलादि महाकारं क्व कथं केन धार्यते
स पार्थिवḫ पदार्थानां स्थितẖ कड्ढकरत्नवत् । भागास् तम् एव धावन्ति ते सुता मातरं यथा
अतो यद् एव नेदीयो ब्रह्माण्डाख्यं महीवपुः । तत् पदार्थाḫ प्रधावन्ति तृषितास् सलिलं यथा
अवलम्ब्य तद् एवातस् संस्थितास् ते जलादयः । न स्थितिं प्रविमुञ्चन्ति स्वां यथावयवा इव
ब्रह्मन् ब्रह्माण्डखण्डे ते तिष्ठतẖ कथम् उच्यताम् । किमाकृती धृते केन कथं वा परिनश्यतः