विज्ञानघन एवायं कचनाकचनात्मकः । स्वयम् एव कचत्य् अन्तर् न कचत्य् एव वा स्वयम्
संविदंशपरावृत्तिमात्रपेलवरूपिणी । बन्धदृङ् मोक्षदृक् चेति क्लेशस् तत्साधने कियान्
संविदुद्बोधनं बन्धस् तदनुद्बोधनं शिवम् । असत् सद्वज् जगद् भाति संविदुद्बोधनोदरम्
अजडं बोधनं सुप्तं मोक्ष इत्य् अभिधीयते । प्रबुद्धं बन्ध इत्य् आहुर् यद् इच्छसि तद् आहर
निर्वाणवासनम् अनन्तम् अजाड्यम् अच्छबोधैकतानम् अपयन्त्रणम् अस्तशङ्कम् । अद्वैतम् ऐक्यरहितं च निरस्तशून्यम् आकाशकोशविशदाशय शान्तम् आस्स्व
इति ते सर्व आयाता ब्रह्मलोकनिवासिनः । अदृश्यताम् एव गता दीपाẖ क्षीणदशा इव
अथ ते द्वादशादित्या ब्रह्मणि ब्रह्मतां गते । जगद्वद् ब्रह्मलोकं तम् अदहन् भासुरार्चिषः
वैरिञ्चनगरं दग्ध्वा ध्यानं कृत्वा विरिञ्चवत् । ते ऽपि निर्वाणम् आजग्मुर् निस्स्नेहदशदीपवत्
तत एकार्णवापूरो विरिञ्चनगरान्तरम् । रात्रौ भुवम् इव ध्वान्तं पूरयाम् आस सूर्मिमान्
आब्रह्मलोकम् अभवज् जगद् आपूर्णम् अर्णसा । तुल्यं रसैकपूर्णेन पक्वद्राक्षाफलेन तत्
तत ऊर्मिगिरिव्रातवेगैर् आवलिताखिलैः । विच्छिन्नाẖ कल्पजलदा जल एव विलिल्यिरे
एतस्मिन्न् अन्तरे तत्र दृष्टवान् अहम् अम्बरात् । यावद् अभ्युत्थितं भीमं भूतं किञ्चिन् नभोऽन्तरात्
कल्पान्तजलदाकारं कृष्णम् आपूरिताम्बरम् । आकल्पं सम्भृतं नैशं देहेनेवोत्थितं तमः
तरुणादित्यलक्षाणां तेज आभासुरं दधत् । आदित्यत्रयसङ्काशैस् स्थिरविद्युत्त्रयोल्बणैः
नेत्रैर् आभासुरमुखं ज्वालापुञ्जान् समुद्गिरत् । पञ्चाननं दशभुजं त्रिनेत्रं शूलपाणिकम्
अमान्तम् अन्तमुक्ते ऽपि व्योम्नीव वितताकृतिम् । खम् इवासिवरश्यामं देहम् आदाय संस्थितम्
स्थितम् एकार्णवापूर्णाद् ब्रह्माण्डाद् बहिर् अम्बरे । व्योमेव हस्तपादादिसन्निवेशेन लक्षितम्
घोणानिलपरावृत्तिविधुतैकमहार्णवम् । गोविन्दम् इव दोर्दण्डक्षोभितक्षीरसागरम्
कल्पार्णवजलापूरं पुंस्त्वेनेव समुत्थितम् । मूर्तियुक्तम् अहङ्कारम् अकारणकम् आगतम्
कुलाचलबृहद्वृन्दम् इवोड्डयनडम्बरैः । पक्षौघैर् उत्थितं व्योम समस्तम् अभिपूरयत्
ततस् त्रिशूलनयनैर् मया रुद्रो ऽयम् इत्य् असौ । दूराद् एव परिज्ञाय परमेशो नमस्कृतः
किं स तादृग्विधो रुद्रẖ किं कृष्णẖ किं महाकृतिः । किं पञ्चवदनẖ कस्माद् दशबाहुẖ क्व तिष्ठति
किं त्रिनेत्रẖ किम् उग्रात्मा किम् एकẖ किंप्रयोजनः । केनेरितẖ किम् अकरोत् क्वायासीद् वद मे मुने
काकुत्स्थ रुद्रनामासाव् अहङ्कारस् तथोत्थितः । विषमैकाभिमानात्मा मूर्तिर् अस्यामलं नभः
व्योमाकृतिस् स भगवान् व्योमवर्णामलो महान् । चिद्व्योममात्रसारत्वाद् आकाशात्मा स उच्यते
सर्वभूतात्मभूतत्वात् सर्वगत्वान् महाकृतिः । यानि तस्यानुषक्तानि पञ्चज्ञानेन्द्रियाण्य् अलम्
तानि तस्य मुखान्य् आहुस् तपद्रूपाणि सर्वतः । कर्मेन्द्रियाणि विषयास् ते हि तस्य भुजा दश
सर्वभूतभरैस् सार्धं ब्रह्मणा परम् एयुषा । यदासौ सम्परित्यक्तस् तदासौ मूर्तिम् आगतः
स चाकाशैकरूपात्मा नास्ति तस्य हि साकृतिः । तथा दृश्यत एवासौ भ्रान्तिमात्रं न मूर्तिमान्
चिदाकाशगते स्फारे भूताकाशे स तिष्ठति । देहे च सर्वभूतानां नित्यं वायुर् इवेश्वरः