देहकारणकस् स्वप्नो देहाभावे न दृश्यते । इति चेत् तद् अदेहानां परलोको ऽपि नास्ति वः
इत्य् एतद् अभविष्यच् चेत् तच् छरीरकसङ्क्षये । नाभविष्यद् अयं सर्गस् स चास्त्य् एव हि सर्वदा
अवयवविभागात्मन्य् अवश्यंभाविनि क्षये । न कदाचिद् अनित्थं तज् जगद् इत्य् अप्य् असंस्थितम्
न कदाचिज् जगन्नाशे देहाद् भूतगणाद् इयम् । मदशक्तिर् इव ज्ञप्तिर् उदेतीत्य् असि वक्षि चेत्
तत् पुराणेतिहासानां सर्वसङ्क्षयवादिनाम् । स्मृत्यादीनां च वेदानां वैयर्थ्यम् उपजायते
अप्रमाणतयैतस्मिन्न् अर्थे तेषां महामते । अन्यत्रापि प्रमाणत्वं विद्यादाव् अपि किं भवेत्
न चैतद् विद्यते लोके जगदुच्छेदकारणात् । अन्यच् चास्ताम् एतद् अङ्ग ममेदम् अपरं शृणु
मदशक्त्यात्मनि ज्ञाने दृष्टा देशान्तरेषु या । प्रमृतानां पिशाचादिदेहता सा न सिध्यति
अथ सापि मुधाभ्रान्तिर् यावद्देहं प्रदृश्यते । इति चेत् तन् मुधानाम सत्यम् इत्य् एव वो भवेत्
एवं चेत् तत् परे लोके सत् स्वर्गनरकादिकम् । इत्य् एषापि न संवित् किं सत्यताम् उपगच्छति
पिशाचप्रतिभा सत्या मदज्ञप्तिमतो यदि । प्रतिभास्य न सत्या स्यात् परलोकात्मिका कथम्
पिशाचो ऽस्तीति चेत् संवित् सत्यार्था तेन संविदः । मृतस्यास्ति परो लोक इत्य् अस्याẖ किं न सत्यता
काकतालीयवद् देहात् पैशाची ज्ञप्तिर् अस्ति चेत् । परलोकार्थसंवित्तिẖ कथं नास्ति सकारणा
यान्तर् वेत्ति यथा संवित् सा तथानुभवत्य् अलम् । अस्तु सत्यम् असत्यं वा सिद्धम् इत्य् अनुभूतितः
मृतस्यास्ति परो लोको विद् इत्य् एवम्मयी भवेत् । सति चासति देहे ऽस्मिंस् तेन किं सद् असच् च किम्
तस्मात् स्वभावḫ प्रथमं प्रस्फुरन् वेत्ति संविदम् । वासनाकारणं पश्चाद् बुद्ध्वा सम्पश्यति भ्रमम्
तत्क्षयाच् छमम् आयाति द्रष्टृदृश्यदृगामयः । तत्सत्तायाम् उदेतीयं संसृत्याख्या पिशाचिका
उपलम्भ उदेत्य् आदौ ब्रह्मणो वासना ततः । तच्छान्तिं विद्धि निर्वाणं तत्सत्तां संसृतिभ्रमम्
उत्पन्नैव न सानादौ परे ब्रह्मण्य् असम्भवात् । उत्पन्नापि च वा यासौ ब्रह्मैव परम् एव सत्
एतावद् यत् परिज्ञानं तन् निर्वाणं विदुर् बुधाः । यद् अत्रैवापरिज्ञानं तं बन्धं विद्धि राघव
विज्ञानघन एवायं कचनाकचनात्मकः । स्वयम् एव कचत्य् अन्तर् न कचत्य् एव वा स्वयम्
संविदंशपरावृत्तिमात्रपेलवरूपिणी । बन्धदृङ् मोक्षदृक् चेति क्लेशस् तत्साधने कियान्
संविदुद्बोधनं बन्धस् तदनुद्बोधनं शिवम् । असत् सद्वज् जगद् भाति संविदुद्बोधनोदरम्
अजडं बोधनं सुप्तं मोक्ष इत्य् अभिधीयते । प्रबुद्धं बन्ध इत्य् आहुर् यद् इच्छसि तद् आहर
निर्वाणवासनम् अनन्तम् अजाड्यम् अच्छबोधैकतानम् अपयन्त्रणम् अस्तशङ्कम् । अद्वैतम् ऐक्यरहितं च निरस्तशून्यम् आकाशकोशविशदाशय शान्तम् आस्स्व
इति ते सर्व आयाता ब्रह्मलोकनिवासिनः । अदृश्यताम् एव गता दीपाẖ क्षीणदशा इव
अथ ते द्वादशादित्या ब्रह्मणि ब्रह्मतां गते । जगद्वद् ब्रह्मलोकं तम् अदहन् भासुरार्चिषः
वैरिञ्चनगरं दग्ध्वा ध्यानं कृत्वा विरिञ्चवत् । ते ऽपि निर्वाणम् आजग्मुर् निस्स्नेहदशदीपवत्
तत एकार्णवापूरो विरिञ्चनगरान्तरम् । रात्रौ भुवम् इव ध्वान्तं पूरयाम् आस सूर्मिमान्
आब्रह्मलोकम् अभवज् जगद् आपूर्णम् अर्णसा । तुल्यं रसैकपूर्णेन पक्वद्राक्षाफलेन तत्