एकार्णवपयḫपूरे घर्घरारावरंहसि । त्रैलोक्यखण्डसम्भारे प्रोह्यमाने महाम्भसि
नासीत् कश्चित् परित्राता दाता वा वचसो ऽपि च । शक्नोति कḫ परित्रातुं कालेन कवलीकृतम्
नाकाशम् आसीन् न दिगन्तम् आसीद् अधो ऽपि नासीन् न तदोर्ध्वम् आसीत् । भूतं न चासीन् न च सर्ग आसीद् आसीत् परं केवलम् एव वारि
एतस्मिन्न् अन्तरे चक्षुर् व्योमस्थो ऽहम् अथात्यजम् । ब्रह्मलोके महीलोके प्रभाते ऽर्कḫ प्रभाम् इव
यावद् दृष्टो मया तत्र शैलाद् इव विनिर्मितः । परमेष्ठी समाधिस्थḫ प्रधानपरिवारवान्
समूहश् चैव वेदानां मुनीनां भावितात्मनाम् । शुक्रो बृहस्पतिश् चैव शक्रो वैश्रवणो यमः
सोमो ऽथ वरुणो ऽग्निश् च तथान्ये च सुरर्षयः । देवगन्धर्वसिद्धानां साध्यानां चैव नायकाः
लिपिकर्मार्पिताकारास् सर्वे ध्यानपरायणाः । बद्धपद्मासनास् तत्र निर्जीवा इव संस्थिताः
अथैते द्वादशादित्यास् तम् एवोद्देशम् आगताः । बद्धपद्मासनास् तस्थुस् तथैवाशु यथैव ते
ततो मुहूर्तमात्रेण दृष्टवान् नाहम् अब्जजम् । पुरो विनिद्रतां यातस् स्वप्नदृष्टम् इवाग्रगम्
ब्रह्मलोकजनं सर्वम् अहं ताम् अपि वासनाम् । नापश्यं स्वप्ननगरं बुध्यमान इवाग्रगम्
अरण्यं शून्यम् एवासीत् तद् ब्रह्मनगरं तदा । कठिनाकाण्डविध्वस्तं पृथिव्याम् इव पत्तनम्
सर्व एव गताẖ क्वापि ते तथा तादृशास् तदा । ऋषयो मुनयो वेदा देवा विद्याधरादयः
ज्ञातं ततो ऽवधानेन मया नभसि तिष्ठता । यावन् निर्वाणम् आपन्ना ब्रह्मवत् सर्व एव ते
वासनायां विलीनायाम् अदर्शनम् उपागताः । स्वप्नलोकाः प्रबुद्धानाम् इव स्वं रूपम् आगताः
आकाशात्मैव देहो ऽयं भाति वासनया स्फुटः । तदभावात् तु नाभाति स्वप्नो बोधवतो यथा
अन्तरिक्षगतो देहो यथा स्वप्ने ऽवलोक्यते । बोधे तद्वासनाशान्तौ न किञ्चिद् अपि लक्ष्यते
जाग्रत्य् अपि तथैवायं वासनायाḫ परिक्षये । नैवातिवाहिको नैव लक्ष्यते ऽत्राधिभौतिकः
स्वप्नानुभव एषो ऽत्र दृष्टान्तẖ केन खण्ड्यते । आबालम् एतत् संसिद्धम् अनुभूतं श्रुतं स्मृतम्
अपह्नवेच् च वा यो ऽपि स्वम् एवानुभवं शठः । स त्याज्यẖ को ह्य् अलीकेन सुप्तम् उद्बोधयेत् किल
देहकारणकस् स्वप्नो देहाभावे न दृश्यते । इति चेत् तद् अदेहानां परलोको ऽपि नास्ति वः
इत्य् एतद् अभविष्यच् चेत् तच् छरीरकसङ्क्षये । नाभविष्यद् अयं सर्गस् स चास्त्य् एव हि सर्वदा
अवयवविभागात्मन्य् अवश्यंभाविनि क्षये । न कदाचिद् अनित्थं तज् जगद् इत्य् अप्य् असंस्थितम्
न कदाचिज् जगन्नाशे देहाद् भूतगणाद् इयम् । मदशक्तिर् इव ज्ञप्तिर् उदेतीत्य् असि वक्षि चेत्
तत् पुराणेतिहासानां सर्वसङ्क्षयवादिनाम् । स्मृत्यादीनां च वेदानां वैयर्थ्यम् उपजायते
अप्रमाणतयैतस्मिन्न् अर्थे तेषां महामते । अन्यत्रापि प्रमाणत्वं विद्यादाव् अपि किं भवेत्
न चैतद् विद्यते लोके जगदुच्छेदकारणात् । अन्यच् चास्ताम् एतद् अङ्ग ममेदम् अपरं शृणु
मदशक्त्यात्मनि ज्ञाने दृष्टा देशान्तरेषु या । प्रमृतानां पिशाचादिदेहता सा न सिध्यति
अथ सापि मुधाभ्रान्तिर् यावद्देहं प्रदृश्यते । इति चेत् तन् मुधानाम सत्यम् इत्य् एव वो भवेत्
एवं चेत् तत् परे लोके सत् स्वर्गनरकादिकम् । इत्य् एषापि न संवित् किं सत्यताम् उपगच्छति