शून्यब्रह्माण्डविपुलजलघातकुलायके । लीनान् अचलकाकोलान् गृह्णन् सलिलजालकैः
मृतामृतबृहद्भूतमज्जनोन्मज्जनाकुलान् । तरङ्गमकुरान् कर्षन् प्रतिबिम्बान्वितान् इव
मृतशिष्टान् पुरभ्रष्टान् फेनाद्रितटकोटिषु । दधज् जलबलश्रान्तांस् त्रिदशान् मषकान् इव
विमलाद्यतनाकाशविपुलान् अम्बुबुद्बुदान् । सहस्रसङ्ख्यान् वलयंल् लोचनानीव वासवः
शरद्व्योमसमाभोगैर् वलद्भिर् बुद्बुदेक्षणैः । पश्यन्न् इव नदीधारान् मेघान् आत्मप्रपूरकान्
पुष्करावर्तकाभ्राणां बाहुभिर् वीचिमण्डलैः । कुर्वन्न् आलिङ्गनानीव सपक्षाद्रिवद् उत्थितैः
त्रिजगद्ग्राससन्तृप्तḫ प्रगायन्न् इव घर्घरैः । रवैर् नृत्यन्न् इवोग्राद्रिकटकैर् वीचिदोर्द्रुमैः
नदीधाराधरैर् ऊर्ध्वे मध्ये दग्धैर् धराधरैः । अधो धराधरैर् नागैर् अधरः पङ्कगैर् वृतः
धारात्रिपथगापूरैर् निपतद्भिर् निरन्तरम् । मग्नोन्मग्नोह्यमानाद्रिशृङ्गदिण्डीरबुद्बुदः
उह्यमानगलत्स्वर्गखण्डक्रन्दन्नभश्चरः । वहद्विद्याधरीवृन्दपद्मिनीसुन्दरान्तरः
एकार्णवपयḫपूरे घर्घरारावरंहसि । त्रैलोक्यखण्डसम्भारे प्रोह्यमाने महाम्भसि
नासीत् कश्चित् परित्राता दाता वा वचसो ऽपि च । शक्नोति कḫ परित्रातुं कालेन कवलीकृतम्
नाकाशम् आसीन् न दिगन्तम् आसीद् अधो ऽपि नासीन् न तदोर्ध्वम् आसीत् । भूतं न चासीन् न च सर्ग आसीद् आसीत् परं केवलम् एव वारि
एतस्मिन्न् अन्तरे चक्षुर् व्योमस्थो ऽहम् अथात्यजम् । ब्रह्मलोके महीलोके प्रभाते ऽर्कḫ प्रभाम् इव
यावद् दृष्टो मया तत्र शैलाद् इव विनिर्मितः । परमेष्ठी समाधिस्थḫ प्रधानपरिवारवान्
समूहश् चैव वेदानां मुनीनां भावितात्मनाम् । शुक्रो बृहस्पतिश् चैव शक्रो वैश्रवणो यमः
सोमो ऽथ वरुणो ऽग्निश् च तथान्ये च सुरर्षयः । देवगन्धर्वसिद्धानां साध्यानां चैव नायकाः
लिपिकर्मार्पिताकारास् सर्वे ध्यानपरायणाः । बद्धपद्मासनास् तत्र निर्जीवा इव संस्थिताः
अथैते द्वादशादित्यास् तम् एवोद्देशम् आगताः । बद्धपद्मासनास् तस्थुस् तथैवाशु यथैव ते
ततो मुहूर्तमात्रेण दृष्टवान् नाहम् अब्जजम् । पुरो विनिद्रतां यातस् स्वप्नदृष्टम् इवाग्रगम्
ब्रह्मलोकजनं सर्वम् अहं ताम् अपि वासनाम् । नापश्यं स्वप्ननगरं बुध्यमान इवाग्रगम्
अरण्यं शून्यम् एवासीत् तद् ब्रह्मनगरं तदा । कठिनाकाण्डविध्वस्तं पृथिव्याम् इव पत्तनम्
सर्व एव गताẖ क्वापि ते तथा तादृशास् तदा । ऋषयो मुनयो वेदा देवा विद्याधरादयः
ज्ञातं ततो ऽवधानेन मया नभसि तिष्ठता । यावन् निर्वाणम् आपन्ना ब्रह्मवत् सर्व एव ते
वासनायां विलीनायाम् अदर्शनम् उपागताः । स्वप्नलोकाः प्रबुद्धानाम् इव स्वं रूपम् आगताः
आकाशात्मैव देहो ऽयं भाति वासनया स्फुटः । तदभावात् तु नाभाति स्वप्नो बोधवतो यथा
अन्तरिक्षगतो देहो यथा स्वप्ने ऽवलोक्यते । बोधे तद्वासनाशान्तौ न किञ्चिद् अपि लक्ष्यते
जाग्रत्य् अपि तथैवायं वासनायाḫ परिक्षये । नैवातिवाहिको नैव लक्ष्यते ऽत्राधिभौतिकः
स्वप्नानुभव एषो ऽत्र दृष्टान्तẖ केन खण्ड्यते । आबालम् एतत् संसिद्धम् अनुभूतं श्रुतं स्मृतम्
अपह्नवेच् च वा यो ऽपि स्वम् एवानुभवं शठः । स त्याज्यẖ को ह्य् अलीकेन सुप्तम् उद्बोधयेत् किल