एकार्णवो ऽथ ववृधे शनैश् शीघ्रं सरिच्छतैः । भुवने जडकल्लोलैẖ कोपो मूर्खाशये यथा
मुसुलोपमया पूर्वं ततस् स्तम्भनिभाङ्गया । ततस् तालद्रुमाकारधारयासारसारया
ततो नदीप्रवाहोग्रजलपातैकपातया । सप्तद्वीपमहीपीठसममेदुरमेघया
वह्निर् विदाहकृद् वृष्ट्या शमम् अभ्याययौ तथा । शास्त्रसज्जनसद्दृष्ट्या मौर्ख्यम् आपत्प्रदं यथा
ऊर्ध्वाधरस्थपरिवृत्तपदार्थजातम् अन्तẖक्वणत्खनखनायितशैलमज्जम् । ब्रह्माण्डकोटरम् अभूद् विधुरं कुबाललीलाविलोलम् इव बिल्वफलं विशुष्कम्
वातवर्षहिमोत्पातघातभग्ने धरातले । जलवेगो ऽगमद् वृद्धिं कलाव् इव महीपतिः
गङ्गाप्रवाहप्रतिमधारापातविवर्धितैः । सरित्सहस्रैस् सहसा मेरुमन्दरसुन्दरैः
आदित्यपथसम्प्राप्तकन्दरो जडमन्थरः । एकार्णवस् समुच्छून आसीन् मूर्ख इवेश्वरः
विपुलावर्तवृत्त्यान्तर् विवृताद्रितरत्तृणः । स्फुरत्तुङ्गतरङ्गाग्रनिगीर्णादित्यमण्डलः
मेरुमन्दरकैलासविन्ध्यसह्यजलेचरः । चलितावनिपङ्कान्तर्लीनव्यालमृणालकः
अर्धदग्धद्रुमवनव्यूहावलनसङ्कटः । त्रैलोक्यभस्मसम्मृष्टिमषीकर्दमकुत्सितः
नभस्स्तम्भबृहद्धारानालभास्करपुष्करः । धाराजलमहाम्भोदविलीननलिनीदलः
दिण्डीरपर्वतप्रान्तप्राप्तवृत्तान्तवारिदः । भ्रमदिन्द्रानलार्केन्दुपुरपत्तनपूरनौः
काष्ठवत्प्रोह्यमानोग्रसुरासुरनरोत्करः । शनैẖक्रमोच्छूनतया लिहन्न् आदित्यमण्डलम्
तरत्तारतरारावधारासारसमुद्भवैः । बुद्बुदैḫ परिसन्दिग्धप्रोह्यमानमहाचलः
भ्रमद्बुद्बुदविश्रान्तभ्रान्तकल्पान्तवारिदः । उत्तारकैस् तैर् नयनैḫ पश्यन्न् अपरवारिदम्
महाप्रलयवार्योघघोषघुङ्घुमितान्तरः । एकप्रवाहापहृतसर्वोर्वीकुलपर्वतः
चण्डवातकृतापूर्वजलौघकुलपर्वतः । महाघुरुघुरारावघर्घरोग्रपयोरयः
ब्रह्माण्डकुड्यसङ्घट्टपरावृत्तिभिर् उद्धतः । कुर्वन् योजनलक्षाणि विनतान्य् उन्नतानि च
तृणैर् इव तरङ्गेषु दोलान्दोलनम् अद्रिभिः । कुर्वद्भिर् उपलाघातभग्नभास्करमण्डलः
शून्यब्रह्माण्डविपुलजलघातकुलायके । लीनान् अचलकाकोलान् गृह्णन् सलिलजालकैः
मृतामृतबृहद्भूतमज्जनोन्मज्जनाकुलान् । तरङ्गमकुरान् कर्षन् प्रतिबिम्बान्वितान् इव
मृतशिष्टान् पुरभ्रष्टान् फेनाद्रितटकोटिषु । दधज् जलबलश्रान्तांस् त्रिदशान् मषकान् इव
विमलाद्यतनाकाशविपुलान् अम्बुबुद्बुदान् । सहस्रसङ्ख्यान् वलयंल् लोचनानीव वासवः
शरद्व्योमसमाभोगैर् वलद्भिर् बुद्बुदेक्षणैः । पश्यन्न् इव नदीधारान् मेघान् आत्मप्रपूरकान्
पुष्करावर्तकाभ्राणां बाहुभिर् वीचिमण्डलैः । कुर्वन्न् आलिङ्गनानीव सपक्षाद्रिवद् उत्थितैः
त्रिजगद्ग्राससन्तृप्तḫ प्रगायन्न् इव घर्घरैः । रवैर् नृत्यन्न् इवोग्राद्रिकटकैर् वीचिदोर्द्रुमैः
नदीधाराधरैर् ऊर्ध्वे मध्ये दग्धैर् धराधरैः । अधो धराधरैर् नागैर् अधरः पङ्कगैर् वृतः
धारात्रिपथगापूरैर् निपतद्भिर् निरन्तरम् । मग्नोन्मग्नोह्यमानाद्रिशृङ्गदिण्डीरबुद्बुदः
उह्यमानगलत्स्वर्गखण्डक्रन्दन्नभश्चरः । वहद्विद्याधरीवृन्दपद्मिनीसुन्दरान्तरः