पुरमण्डलदैत्याग्निसुरनागविवस्वताम् । निकुरुम्बं दधद् व्योम्नि मषकानाम् इवोच्चयम्
नश्यन् नगवराभोगभागैर् भग्नसुरालयैः । आवर्तघर्घरारावैर् जलम् ऊर्ध्वम् अधो ऽनलम्
कुर्वज् जलाद्रिनिष्पेषैर् दिक्पालपुरकुट्टनम् । निपतद्देवदैत्येन्द्रसिद्धगन्धर्वपत्तनम्
कुट्टनं पर्वतादीनां प्रशान्ताङ्गाररूपिणाम् । वातैẖ कुर्वत् पदार्थानाम् आसारं रजसाम् इव
पुराण्य् अमरदैत्यानां भ्रमद्भित्तीनि शातयत् । रत्नैẖ खनखनायन्ति पयांसीव पयस्वताम्
पूर्णाम्बरं परिपतल्लोकसप्तकमन्दिरैः । चक्रावृत्त्या भ्रमद्रूपैर् अपरैस् सागरैर् इव
हेमस्फटिकवैडूर्यससारमणिमन्दिरैः । दिवḫ पतद्भिर् आकीर्णम् उद्यज्झणझणस्वनैः
उत्पेतुर् धूमभस्माब्दाḫ पेतुर् धारापुरोत्कराः । उन्ममज्जुस् तरङ्गौघा ममज्जुर् भूतलाद्रयः
आवर्तघर्घरारावा मिथोविदलनोद्यताः । जुघूर्णुर् अर्णवाẖ कीर्णाḫ पर्णवत्प्रौढपर्वताः
क्रन्दच्छिष्टामरगणं दलत्सज्जीवभूतकम् । भ्रमत्केतुशतोत्पातं दुष्प्रेक्षम् अभवज् जगत्
मृतार्धमृतया भूतसन्तत्यानिललोलया । अभून् नीरन्ध्रम् आकाशं जीर्णपर्णसवर्णया
जगद् आसीत् पतच्छृङ्गस्थूलधारौघनिर्भरम् । भ्रश्यद्बृहद्गिरिपुरव्रातपूर्णसरिच्छतम्
शाम्यच्छमशमाशब्दशतसङ्गिहुताशनम् । चलाब्धिवलनादोलालोलशैलसरित्तटम्
तृणराशिसरिन्न्यायमिश्रद्वीपार्णवोत्करम् । अत्यन्तदूरदिग्व्योमक्षणज्वालामहावनम्
वर्षशाम्यद्धुताशोत्थभस्मामोदपतत्सुरम् । भूतपूर्वजगद्भूतं परिविस्मृतसर्गकम्
निरर्गलोल्लसन्नादं सार्गलोपशमक्रमम् । सर्गलोभोल्लसच्छेषं वर्गलोकविवर्जितम्
अनारतविपर्यासकारिमारुतनिर्धुतम् । बीजराशिम् इवाजस्रं पूयमानं पुनḫ पुनः
उल्मुकान्योऽन्यनिष्पेषवह्नि चूर्णसुवर्णजैः । रजोभिर् विवृतैर् हेमकुट्टिमाकाशकोटरम्
भूमण्डलबृहत्खण्डैर् भ्रष्टैस् सद्वीपसागरैः । पूर्णसप्तमपातालं लुठत्पातालमण्डलैः
आसप्तमसुतालान्तम् आमहीतलपर्वतम् । आव्योमैकार्णवीभूतं पूर्णं प्रलयवायुभिः
एकार्णवो ऽथ ववृधे शनैश् शीघ्रं सरिच्छतैः । भुवने जडकल्लोलैẖ कोपो मूर्खाशये यथा
मुसुलोपमया पूर्वं ततस् स्तम्भनिभाङ्गया । ततस् तालद्रुमाकारधारयासारसारया
ततो नदीप्रवाहोग्रजलपातैकपातया । सप्तद्वीपमहीपीठसममेदुरमेघया
वह्निर् विदाहकृद् वृष्ट्या शमम् अभ्याययौ तथा । शास्त्रसज्जनसद्दृष्ट्या मौर्ख्यम् आपत्प्रदं यथा
ऊर्ध्वाधरस्थपरिवृत्तपदार्थजातम् अन्तẖक्वणत्खनखनायितशैलमज्जम् । ब्रह्माण्डकोटरम् अभूद् विधुरं कुबाललीलाविलोलम् इव बिल्वफलं विशुष्कम्
वातवर्षहिमोत्पातघातभग्ने धरातले । जलवेगो ऽगमद् वृद्धिं कलाव् इव महीपतिः
गङ्गाप्रवाहप्रतिमधारापातविवर्धितैः । सरित्सहस्रैस् सहसा मेरुमन्दरसुन्दरैः
आदित्यपथसम्प्राप्तकन्दरो जडमन्थरः । एकार्णवस् समुच्छून आसीन् मूर्ख इवेश्वरः
विपुलावर्तवृत्त्यान्तर् विवृताद्रितरत्तृणः । स्फुरत्तुङ्गतरङ्गाग्रनिगीर्णादित्यमण्डलः
मेरुमन्दरकैलासविन्ध्यसह्यजलेचरः । चलितावनिपङ्कान्तर्लीनव्यालमृणालकः