अग्निदाहवनाकाशविद्युदुन्मेषभीषणा । चटद्गुडगुडास्फोटस्फुटद्ब्रह्माण्डमण्डला
पृषतोत्करशीत्कारशतक्ष्वेडाक्षयारवा । शीतशीकरनीहारभित्तिबन्धमयाम्बरा
रोदोमण्डपवैडूर्यस्तम्भसम्भारभासुरैः । धारासारैर् धराधैर्यशैलशातनशालिनी
धराचटचटास्फोटस्फुटदङ्गारपत्तना । गर्जनोर्जितसम्पातपतल्लोकान्तराकुला
सा बभूवाथ साङ्गारजगद्गेहविलासिनी । कृतप्रत्युद्गमा बाष्पश्रियाज्वलनया भुवः
ज्वालालवोल्ललनडम्बरम् अम्बरं तद् व्यूढस्थलाब्जदलजालम् इवालम् आसीत् । धारा भ्रमद्भ्रमरपङ्क्तिनिभास् तदासंस् तत्र स्फुरच्छिशिरशीकरपक्षिपुञ्जाः
उद्यद्बृहच्चटचटारवपूरिताशो भीमो ऽभवत् स सलिलानलसन्निपातः । दुर्वारवैरिविषमो महतां बलानां सङ्ग्राम उग्र इव हेतिहतोग्रहेतिः
अथावनिपयस्तेजḫपवनानां युगक्षये । जाते परमसङ्क्षोभे बभूवास्मिञ् जगत्त्रयम्
तापिञ्छविपिनोड्डीतिनिभभस्माभ्रभासुरम् । महार्णवमहावर्तवृत्तिधूमविवर्तनम्
लीनज्वालालवोल्लासहेलाटिमिटिमारटि । स्कन्नबाष्पाभ्रसम्भारपूर्णलोकान्तरान्तरम्
उच्छलद्दीर्घझाङ्कारैश् छमच्छममयात्मकैः । तूर्यैर् उन्नमदासारविसारिजयघोषणम्
भ्रमद्भस्माभधूम्राभ्रं बृहत्कल्पाभ्रसम्भ्रमम् । बाष्पाभ्रविभ्रमोद्भ्रान्तं शीकरोग्राभ्रवृन्दवत्
ब्रह्माण्डभित्तिभाङ्कारभीषणैर् मातरिश्वनः । प्रसरैर् अम्बरोड्डीनदग्धेन्द्रादिपुरोत्करम्
जलानिलानलोल्लासस्फुटत्कोटिशताश्मनाम् । प्रविघट्टनटाङ्कारैर् जडीभूतान्तकश्रुति
नभस्स्तम्भनिभाबद्धधारानीरन्ध्रवर्षणैः । कर्षणैẖ कल्पवल्लीनां छमच्छमघनध्वनि
गङ्गा तरङ्गिका येषां तादृशैस् सरितां गणैः । अभ्रैर् इव नभो भीमैḫ पूर्यमाणाखिलार्णवम्
तापिञ्छपत्त्रवृन्दस्थपुष्पगुच्छसमोपमैः । तपद्भिर् अर्कैर् आलीढपीतकल्पाभ्रमण्डलम्
वहद्गिरिसरिद्व्यूढशिखरिद्वीपपत्तनम् । कल्पानिलघनक्षोभकृतपर्वतकुट्टनम्
ग्रहतारागणैर् उग्रैर् व्यग्रैर् विग्रहदुर्ग्रहैः । पतद्भिर् द्विगुणालातलतम् आवर्तपातिभिः
अर्णवोत्थजलाद्रीन्द्रसङ्घट्टास्फोटघट्टितम् । महाप्रलयपर्यस्तपर्वतप्रान्तकुट्टितम्
घनशात्कृतबाष्पाभ्रैẖ कल्पाभ्रैर् अपि मेदुरैः । अन्धीकृतार्कजालांशुतमोनिबिडमन्थरम्
विशीर्णवसुधापीठखण्डखण्डैर् गलत्तटैः । उह्यमानैर् लुठच्छैलपत्तनैस् सङ्कटार्णवम्
ऊर्म्यद्र्युन्नयनच्छिन्नघनैर् घर्घरमारुतैः । समुद्रघोषैर् गम्भीरनिर्घातैर् भग्नदिक्तटम्
ब्रह्माण्डकुड्यक्रोडाग्रकुट्टकैẖ कटुटाङ्कृतैः । कल्पाभ्रविकटास्फोटैर् घट्टितैकार्णवारटि
स्वर्गपातालभूलोकखण्डखण्डैर् विमिश्रितैः । यथास्वभावं तिष्ठद्भिर् मरुद्भुग्नैर् वृताम्बरम्
मृतार्धमृतदग्धार्धदग्धाङ्गैर् देवदानवैः । अन्योऽन्यदर्शनाद् वातवेल्लितैर् भ्रमितायुधम्
कल्पान्तपवनोद्भ्रान्तैर् लोकान्तरजरत्तृणैः । आरब्धार्जुनवाताख्यस्तम्भम् उद्धूमभस्मभिः
उह्यमानशिलाजालप्रहारविलुठत्तटैः । पतल्लोकान्तरैस् तारटुष्कारकटुटाङ्कृतम्
वातोद्व्यूढगिरिव्रातगुहाभाङ्कारभासुरम् । पतद्भिर् विहितावर्तं लोकपालपुरीपुरैः
कृतकर्कशनिर्ह्रादैर् असुरैर् इव मारुतैः । उह्यमानवनव्यूहप्रोतवातायनैर् वृतम्