ब्रह्मलोकस्थनाथेषु लोकपालपुरेष्व् अधः । साङ्गनाबालवृद्धेषु दग्धेषु निपतत्सु खात्
कल्पान्तानलपद्मिन्या ब्रह्माण्डोग्रसरोवरे । ज्वालापल्लवशालिन्यास् सबीजायास् सहोल्मुकैः
अनलात्मसु मूलेषु नागेषु च नगेषु च । आपातालं निमग्नेषु महत्य् अङ्गारकर्दमे
उष्ट्रसैन्यम् इवालक्ष्यगतिर् मन्निकटं नभः । आययाव् अञ्जनश्यामẖ कल्पाम्बुदगणẖ क्षणम्
स्थिरकल्पानलज्वालातुल्यविद्युन्मयाचलः । एककोणकविश्रान्तसप्ताम्बुधिपयोभरः
भित्तिभासुरनीहारभारनिर्भरदिक्तटः । ब्रह्माण्डकुड्यनिबिडमण्डलास्फोटपण्डितः
कल्पान्ते क्षुभितो ऽम्भोधिर् वर्तुलावर्तवृत्तिमान् । तडिज्जलेचरस् स्फारनिर्ह्रादẖ खम् इवागतः
मृतो दग्धो निशानाथलोको द्विगुणशीतलः । अन्यम् आकारम् आश्रित्य परलोकम् इवागतः
हिमसम्भाररूपेण हिमाचलम् इवाखिलम् । जाड्यस्तम्भितनिश्शेषजलकाष्ठाचलं दधत्
अथ ब्रह्माण्डविस्फोटकठिनास्फाटिताम्बरम् । प्राक् कृत्वोद्भटतुष्कारं कष्टा वृष्टिḫ पपात ह
अग्निदाहवनाकाशविद्युदुन्मेषभीषणा । चटद्गुडगुडास्फोटस्फुटद्ब्रह्माण्डमण्डला
पृषतोत्करशीत्कारशतक्ष्वेडाक्षयारवा । शीतशीकरनीहारभित्तिबन्धमयाम्बरा
रोदोमण्डपवैडूर्यस्तम्भसम्भारभासुरैः । धारासारैर् धराधैर्यशैलशातनशालिनी
धराचटचटास्फोटस्फुटदङ्गारपत्तना । गर्जनोर्जितसम्पातपतल्लोकान्तराकुला
सा बभूवाथ साङ्गारजगद्गेहविलासिनी । कृतप्रत्युद्गमा बाष्पश्रियाज्वलनया भुवः
ज्वालालवोल्ललनडम्बरम् अम्बरं तद् व्यूढस्थलाब्जदलजालम् इवालम् आसीत् । धारा भ्रमद्भ्रमरपङ्क्तिनिभास् तदासंस् तत्र स्फुरच्छिशिरशीकरपक्षिपुञ्जाः
उद्यद्बृहच्चटचटारवपूरिताशो भीमो ऽभवत् स सलिलानलसन्निपातः । दुर्वारवैरिविषमो महतां बलानां सङ्ग्राम उग्र इव हेतिहतोग्रहेतिः
अथावनिपयस्तेजḫपवनानां युगक्षये । जाते परमसङ्क्षोभे बभूवास्मिञ् जगत्त्रयम्
तापिञ्छविपिनोड्डीतिनिभभस्माभ्रभासुरम् । महार्णवमहावर्तवृत्तिधूमविवर्तनम्
लीनज्वालालवोल्लासहेलाटिमिटिमारटि । स्कन्नबाष्पाभ्रसम्भारपूर्णलोकान्तरान्तरम्
उच्छलद्दीर्घझाङ्कारैश् छमच्छममयात्मकैः । तूर्यैर् उन्नमदासारविसारिजयघोषणम्
भ्रमद्भस्माभधूम्राभ्रं बृहत्कल्पाभ्रसम्भ्रमम् । बाष्पाभ्रविभ्रमोद्भ्रान्तं शीकरोग्राभ्रवृन्दवत्
ब्रह्माण्डभित्तिभाङ्कारभीषणैर् मातरिश्वनः । प्रसरैर् अम्बरोड्डीनदग्धेन्द्रादिपुरोत्करम्
जलानिलानलोल्लासस्फुटत्कोटिशताश्मनाम् । प्रविघट्टनटाङ्कारैर् जडीभूतान्तकश्रुति
नभस्स्तम्भनिभाबद्धधारानीरन्ध्रवर्षणैः । कर्षणैẖ कल्पवल्लीनां छमच्छमघनध्वनि
गङ्गा तरङ्गिका येषां तादृशैस् सरितां गणैः । अभ्रैर् इव नभो भीमैḫ पूर्यमाणाखिलार्णवम्
तापिञ्छपत्त्रवृन्दस्थपुष्पगुच्छसमोपमैः । तपद्भिर् अर्कैर् आलीढपीतकल्पाभ्रमण्डलम्
वहद्गिरिसरिद्व्यूढशिखरिद्वीपपत्तनम् । कल्पानिलघनक्षोभकृतपर्वतकुट्टनम्
ग्रहतारागणैर् उग्रैर् व्यग्रैर् विग्रहदुर्ग्रहैः । पतद्भिर् द्विगुणालातलतम् आवर्तपातिभिः
अर्णवोत्थजलाद्रीन्द्रसङ्घट्टास्फोटघट्टितम् । महाप्रलयपर्यस्तपर्वतप्रान्तकुट्टितम्