वेद्यवेदनवेत्तृत्वरूपत्रयम् इदं पुनः । यत्रोदेत्य् अस्तम् आयाति तत् तत् परमम् उत्तमम्
वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति । अबुद्ध्यादौ महादर्शे तद् रूपं परमं स्मृतम्
मनष्षष्ठेन्द्रियोन्मुक्तं यद् रूपं स्यान् महाचितेः । जङ्गमे स्थावरे वापि तत् सर्गान्ते ऽवशिष्यते
स्थावराणां हि यद् रूपं तच् चेद् बोधमयं भवेत् । मनोबुद्ध्यादिनिर्मुक्तं तत् परेण समं भवेत्
ब्रह्मार्कविष्णुहरशक्रसदाशिवादिशान्तौ शिवं परमम् एतद् इहैकम् आस्ते । शिष्टं प्रदिष्टम् अविनष्टम् अकष्टम् इष्टं मिश्रं न मिश्रम् अणुनाश्रितम् आश्रितेन
इत्थंरूपम् इदं दृश्यं जगन् नामास्ति भासुरम् । महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति
कुत आयाति कीदृग् वा वन्ध्यापुत्रः क्व गच्छति । क्व याति कुत आयाति वद वा व्योमकाननम्
वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति । कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता
वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन । जगदाद्य् अखिलं दृश्यं तथा नास्ति कदाचन
न चोत्पन्नं न च ध्वंसि यत् किलादौ न विद्यते । उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा
वन्ध्यापुत्रनभोवृक्षकल्पना तावद् अस्ति हि । सा यथा नाशजन्माद्या तथैवेदं न किं भवेत्
फुल्लस्यातुलभुस् सम्यग् आलकैः कुरु कोलनम् । निरन्वया यथैवोक्तिर् जगत्सत्ता तथैव हि
यथा सौवर्णकटके दृश्यमानम् अपि स्फुटम् । कटकत्वं तु नास्त्य् एव जगत्त्वं तु तथा परे
आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् । जगत्त्वं ब्रह्मणि तथा नास्त्य् एवाप्य् उपलब्धिमत्
कज्जलान् न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् । पृथग् एव भवेद् बुद्धं जगन् नास्ति परे पदे
यथा च शैत्यं शशिनो न हिमाद् व्यतिरिच्यते । ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान्
मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता । नास्त्य् एवैवं जगन् नास्ति दृष्टम् अप्य् अमलात्मनि
संविद्विलोचनालोको भात्य् अयं संविदम्बरे । जगदाख्ये ऽमले व्योम्नि दृष्टिमुक्तावली यथा
चिदाकाशे चिदाकाशश् चित्त्वाद् यः कचति स्वयम् । तद् एव तेन रूपं स्वं जगद् इत्य् अवबुध्यते
आदाव् एव हि यन् नास्ति कारणासम्भवात् स्वयम् । वर्तमाने ऽपि तन् नास्ति नाशस् स्यात् तत्र कीदृशः
क्वासम्भवद्भूतजाड्यं पृठ्व्यादेर् जडवस्तुनः । कारणं भवितुं शक्तं छायाया आतपो यथा
कारणाभावतः कार्यं नेदं तत् किञ्चनोदितम् । यत् तत्कारणम् एवास्ति तद् एवेत्थम् अवस्थितम्
अजातम् एव यद् भाति संविदो भानम् एव तत् । यज् जगद् दृश्यते स्वप्ने संवित्कचनम् एव तत्
संवित्कचनम् एवान्तर् यथा स्वप्नजगद्भ्रमः । सर्गादौ ब्रह्मणि तथा जगत्कचनम् आततम्
यद् इदं दृश्यते किञ्चित् तत् सद् एवात्मनि स्थितम् । नास्तम् एति न चोदेति जगत् किञ्चित् कदाचन
यथा द्रवत्वं सलिलं स्पन्दत्वं पवनो यथा । यथा प्रकाश आभासो ब्रह्मैव त्रिजगत् तथा
यथा पुरम् इवास्ते ऽन्तर् विद् एव स्वप्नसंविदि । तथा जगद् इवाभाति स्वात्मैव परमात्मनि
एवं चेत् तत् कथं ब्रह्मन् सुघनप्रत्ययं वद । इदं दृश्यविषं जातम् असत्स्वप्नानुभूतिवत्
सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता । एकसत्त्वे द्वयोर् बन्धो मुक्तिर् एकक्षये द्वयोः
अत्यन्तासम्भवो यावद् बुद्धो दृश्यस्य नाक्षयः । तावद् द्रष्टुर् अद्रष्टृत्वं न सम्भवति मोक्षदम्