वारिदानां सवारीणां दग्धानां प्रलयार्चिषा । ज्ञप्त्येवाज्ञानदोषाणां दृष्टं भस्मापि न क्वचित्
न लङ्घयति कैलासं यावद् उल्लसितो ऽनलः । तावत् तं कल्पकुपितो रुद्रो नेत्राग्निनादहत्
दाहस्फुटद्द्रुमस्थूलशिलाचटचटारवाः । लगुडोपललोष्टौघैर् अयुध्यन्तेव भूभृतः
ज्वाला घनघटाटोपसावतंसाचलाभिधाः । बभुर् आव्योमविकसत्स्थलपद्मवना इव
सर्गẖ कदाचिद् एवासीद् इत्य् अगात् स्मरणीयताम् । कल्पान्तस् स्फारयन् दुẖखान्य् अगाद् अस्मरणीयताम्
तापोपतापपरमाḫ परमारणतत्पराः । वह्नयो ऽपह्नवं चक्रुर् जगताम् असताम् इव
ववुर् अशनिनिपातपिण्डिताङ्गाẖ कचदनलोल्मुकखण्डमुण्डमाल्याः । प्रलयसमयवायवो ऽनलात्ता दलदचलाशनिपालयो लिहन्तः
व्यालोलस्फुटितानलद्रुमवनप्रोद्भूतभस्मोष्मणा दत्ताभ्रभ्रमदुल्मुकाहतिवहत्साङ्गारगौरार्चिषः । भ्रश्यत्पावकशृङ्गमध्यविवलज्ज्वालालवश्यामला निश्शेषाग्निनिकाशपूरवपुषो वेगेन वाता ववुः
अथ कल्पान्तमरुति वहत्य् अवधुताचले । बलेनाम्भोधिकल्लोलैर् नभस्य् आवर्तकारिणि
समुद्रेषु विमुद्रेषु मर्यादोल्लङ्घने घने । अघनेषु घनेष्व् अम्बुदारिद्र्योपद्रवद्रुते
भूतले भूतलेशांशवर्जिते वह्निभर्जिते । पातालम् अपि पाताले गते किम् अपि कालतः
दिवि चाविद्यमानायां विशीर्णे सर्गवर्गके । लोके व्यपगतालोके शोकौकसि ककुब्गणे
कुतो ऽप्य् आकाशकुहराद् दृप्तदैत्यगणा इव । पुष्करावर्तका मेघाश् चक्रुर् गुलगुलारवम्
ब्रह्मविस्फोटितस्वाण्डकुड्यविस्फोटनोद्भटम् । अन्योऽन्यास्फालनोत्तालमत्तार्णवरवाबिलम्
लोकान्तरपुरोद्गीर्णघनकोलाहलोल्बणम् । पतत्कुलाचलस्कन्धबद्धोग्ररवघर्घरम्
ब्रह्माण्डशङ्खजठरपूरणावर्तमन्थरम् । स्वर्लोकरोधḫपातालतलाततिसगुल्मकम्
समस्तदूरदिग्भित्तिहेलाहननहर्षुलम् । महाप्रलयसम्मत्तपानकापानतर्षुलं
प्रसृतप्रलयाख्येन्द्रमत्तैरावणबृंहितम् । आकल्पक्षुब्धमेघाब्धिनिर्ह्रादम् इव सम्भृतम्
महाप्रलयसङ्क्षुब्धक्षीरोदमथनारवम् । ब्रह्माण्डोग्रारघट्टे ऽस्मिन् वार्यन्त्रम् इव सारवम्
अथास्मिन् सति कल्पाग्नौ स्थितिम् एति कथं घनः । इति विस्मितवान् अस्मि दृशं दिग्दशके ऽत्यजम्
यावन् न क्वचिद् एवाभ्रं पश्याम्य् आशासु केवलम् । तरन्ति तरलास्फालम् उल्मुकाशनिवृष्टयः
तेन ज्वलनतापेन बहुयोजनकोटिषु । पदार्था भस्मतां यान्ति दूरे दिक्षु दशस्व् अपि
अनन्तरं क्षणाद् व्योम्नि दूरे ऽहम् अनुभूतवान् । ऊर्ध्वतश् शीतलं वातम् अधस्ताद् वानलोपमम्
एतावति नभोमार्गे दूरे कल्पाम्बुदास् स्थिताः । यस् तेषाम् अग्नितापानां विषयो न च मद्दृशाम्
अथ वारुणदिग्भागाद् आययौ कल्पमारुतः । यस्मिंस् तृणवद् उह्यन्ते विन्ध्यमेरुहिमाद्रयः
तेन ज्वालाचलाḫ प्रान्तडीनाङ्गारविहङ्गमाः । लोलोल्मुकवनाक्रान्ता जग्मुर् अग्निदिशं द्रुतम्
सन्ध्याभ्रसदृशाकारास् तेरुर् अङ्गारवारिदाः । भ्रेमुर् भस्मभराभ्राणि प्रोताङ्गाररजांसि खे
स ज्वालाचलसङ्घातो दृष्टो ऽनलदिशं व्रजन् । हेमाद्रीणां सपक्षाणाम् अनीकं द्रवताम् इव
धराद्रिमण्डलाभोगे ऽसोम्याङ्गारभरात्मनि । ज्वालाचलघने याते भाति तेजसि भास्वताम्
अर्णवेष्व् अनलार्णस्सु क्वथनोत्फालवारिषु । वनेष्व् अस्मृतपर्णेषु दीप्ताग्नितरुवारिषु