अनन्तवनविन्यासनवयौवनपावकः । उदयास्तमयाद्रिभ्यो विन्ध्यो विधुरताम् अगात्
अङ्गारकल्पविटपैर् ज्वालावनविवल्गनैः । शरैर् ईश इव क्षुब्धस् सह्यो ऽसह्यत्वम् आययौ
मध्यमध्यकचत्कार्ष्ण्यं भ्रमद्धूमालिमालितम् । चलज्ज्वालाब्जम् अनिलैर् मृष्टं सर इवाम्बरम्
खे ऽद्रीणां शिखरोर्व्यो ऽग्निशिखाशिखरशेखराः । ननृतुर् नीरसा राम नर्तक्यẖ केतुकुन्तलाः
तलाहितानलज्वाला ब्रह्माण्डोर्ध्वकवाटभूः । भर्जनप्रोत्फलद्भूतधानागाद् भ्राष्ट्रभूमिकाम्
द्वीपाब्धिकङ्कणश्रेणी मृज्जलाङ्गाग्निनारुणा । हृत्प्रकोष्ठे जगल्लक्ष्म्यास् सावतीर्णाभवत् तदा
शैलाश् चटचटास्फोटैर् वृक्षाẖ कटकटारवैः । देशा हलहलोल्लासैर् अलं विदलनं ययुः
अब्धयẖ क्वथिताकाराḫ फेनिलोल्लोलमांसलाः । वीचीकरतलाघातांश् चक्रुर् अर्कमुखे नु खे
अन्योऽन्यवेल्लितैर् लोलभूतलाङ्गारपर्वतान् । जह्रुर् वीचिकरैर् मोहजडाḫ प्रकुपिता इव
आशाकाशाशिनाम् एषां गुहागुलगुलारवान् । प्रपन्नश् शब्द आग्नेयो ज्वालाभडभडोद्भटः
लोकपालपुरापातभग्नाङ्गारादिभित्तयः । दिशो दशापि वैवश्यम् अयुर् उन्मुक्तवृत्तयः
काञ्चनद्रवसान्द्रार्द्रद्रुमाङ्गारगुहागृहः । शनैẖ खर्वाकृतिर् मेरुर् आसीद् धिमम् इवातपे
क्षणेनैवानलात् तस्माद् धिमवान् व्यद्रवद् द्रुतः । सर्वान्तश्शीतलश् शुद्धो दुर्जनाद् इव सज्जनः
तस्याम् अपि दशायां तु मलयो ऽमलसौरभः । आसीत् त्यजत्य् उदारात्मा न नाशे ऽप्य् उत्तमं गुणम्
नश्यन्न् अपि महान् ह्लादं न खेदं सम्प्रयच्छति । चन्दनं दग्धम् अप्य् आसीद् आनन्दायैव जीवताम्
न कदाचन संयाति वस्तूत्तमम् अवस्तुताम् । प्रलयानलनिर्दग्धम् अपि हेम न नष्टवत्
द्वे हेमनभसी तस्मिन् न नष्टे प्रलयानले । तयोर् एव वपुश् श्लाघ्यं सर्वनाशे ऽप्य् अनाशयोः
नभो विभुतयानाशि हेमोत्कृष्टतयाक्षयम् । सत्त्वम् एकं सुखं मन्ये न रजो न च वा तमः
चलदुच्चवनापातविकीर्णाङ्गारवर्षणः । दग्धाब्दाद्रिर् महाधूमजालो ऽभूद् वह्निवारिदः
रसनिस्सरणार्तानां शून्यानां स्फारदेहिनाम् । शुष्कानां व्योमविटपिपत्त्राणां पात्ररूपिणाम्
वारिदानां सवारीणां दग्धानां प्रलयार्चिषा । ज्ञप्त्येवाज्ञानदोषाणां दृष्टं भस्मापि न क्वचित्
न लङ्घयति कैलासं यावद् उल्लसितो ऽनलः । तावत् तं कल्पकुपितो रुद्रो नेत्राग्निनादहत्
दाहस्फुटद्द्रुमस्थूलशिलाचटचटारवाः । लगुडोपललोष्टौघैर् अयुध्यन्तेव भूभृतः
ज्वाला घनघटाटोपसावतंसाचलाभिधाः । बभुर् आव्योमविकसत्स्थलपद्मवना इव
सर्गẖ कदाचिद् एवासीद् इत्य् अगात् स्मरणीयताम् । कल्पान्तस् स्फारयन् दुẖखान्य् अगाद् अस्मरणीयताम्
तापोपतापपरमाḫ परमारणतत्पराः । वह्नयो ऽपह्नवं चक्रुर् जगताम् असताम् इव
ववुर् अशनिनिपातपिण्डिताङ्गाẖ कचदनलोल्मुकखण्डमुण्डमाल्याः । प्रलयसमयवायवो ऽनलात्ता दलदचलाशनिपालयो लिहन्तः
व्यालोलस्फुटितानलद्रुमवनप्रोद्भूतभस्मोष्मणा दत्ताभ्रभ्रमदुल्मुकाहतिवहत्साङ्गारगौरार्चिषः । भ्रश्यत्पावकशृङ्गमध्यविवलज्ज्वालालवश्यामला निश्शेषाग्निनिकाशपूरवपुषो वेगेन वाता ववुः
अथ कल्पान्तमरुति वहत्य् अवधुताचले । बलेनाम्भोधिकल्लोलैर् नभस्य् आवर्तकारिणि
समुद्रेषु विमुद्रेषु मर्यादोल्लङ्घने घने । अघनेषु घनेष्व् अम्बुदारिद्र्योपद्रवद्रुते