क्वथद्भूतमहाभूतताराक्रन्दातिघर्घरम् । लोकपालपुरापातस्फुटच्चटचटोद्भटम्
ताराविशरणोद्गारवृष्टरत्नधरातलम् । सर्वस्थलालयचलद्दह्यमानजनव्रजम्
सर्वदिक्कानलप्लोषगणदुर्दर्शदिक्तटम् । उत्तप्ताम्बुभरस्विन्नजलेचरमहार्णवम्
धराधरदरीरन्ध्रभ्रमत्कुण्डलिमण्डलम् । पतत्पर्वतनिष्पिष्टप्लुष्टपत्तनमण्डलम्
पतत्पचपचाशब्दशब्दिताब्ध्यद्रिकुञ्जकम् । तपत्तापोन्नमद्भूतज्वरितार्णवपर्वतम्
हृदयस्फोटनिस्सारपतद्विद्याधराङ्गनम् । आक्रन्दरोदनश्रान्तद्रवन्निश्शरणामरम्
नागलोकज्वलज्ज्वालापातालोत्तप्तभूतलम् । शुष्कार्णवस्खदापङ्कविवृत्तोग्रजलेचरम्
और्वेणाबिन्धनाभावात् प्रोड्डीयेव सहस्रधा । गतेन शतधोत्थाय गृहीतगगनाङ्गनम्
अथोदभूज् ज्वलज्ज्वालाकिंशुकांशुकशोभितः । ताण्डवायेव कल्पाग्निस् तरलोल्मुकमाल्यवान्
तारं पटपटाटोपी रटद्भट इवोद्भटः । ज्वालोद्भुजो धूम्रकचो जगज्जीर्णकुटीनटः
जज्वलुर् वनजालानि पुराणि नगराणि च । मण्डलद्वीपदुर्गाणि जङ्गलानि स्थलानि च
सर्वखानि महाकाशम् आशा दश दिवश् शिरः । श्वभ्रकूपारघट्टाट्टघट्टनोड्डारदिक्तटाः
शृङ्गाणि सिद्धवृन्दानि गिरयस् सागरार्णवाः । सरस्सरस्यस् सरितो देवासुरनरोरगाः
आशाश् शनशनाशब्दैḫ पुरुषैर् अशिवार्चिषाम् । आसन् क्ष्वेडाकुराक्षस्यो ज्वालाजालोज्ज्वलोर्ध्वजाः
भं भं भम् इति भाङ्कारैर् भीषणैर् भूरिभस्मभिः । ज्वालाश् श्वभ्राद्रिभूमीनां गुहाभ्यḫ परिनिर्ययुः
ज्वालोदरस्था अरुणास् समस्ता भूतजातयः । स्थलपद्मोदरालीनाम् आजह्रुश् श्रियम् अश्रियः
सद्योनिस्सृतरक्ताभैस् सिन्दूराम्भोदसुन्दरैः । धग् धग् धग् इति गायद्भिर् ज्वालाजालैर् जगद्गतैः
आसीद् रक्तांशुकैẖ कीर्णं सन्ध्याभ्रैर् इव वा नभः । उत्फुल्लकिंशुकवनैर् उड्डीनैर् इव वावृतम्
और्वेण वावृता आसन् फुल्लाशोकवना इव । स्थलाब्जवलिता रावविरावा इव चार्णवाः
नानावर्णज्वलज्ज्वालाधूमविन्यासबन्धवान् । रूढवान् हिमवान् धातुचित्रसौधतलश्रियम्
अनन्तवनविन्यासनवयौवनपावकः । उदयास्तमयाद्रिभ्यो विन्ध्यो विधुरताम् अगात्
अङ्गारकल्पविटपैर् ज्वालावनविवल्गनैः । शरैर् ईश इव क्षुब्धस् सह्यो ऽसह्यत्वम् आययौ
मध्यमध्यकचत्कार्ष्ण्यं भ्रमद्धूमालिमालितम् । चलज्ज्वालाब्जम् अनिलैर् मृष्टं सर इवाम्बरम्
खे ऽद्रीणां शिखरोर्व्यो ऽग्निशिखाशिखरशेखराः । ननृतुर् नीरसा राम नर्तक्यẖ केतुकुन्तलाः
तलाहितानलज्वाला ब्रह्माण्डोर्ध्वकवाटभूः । भर्जनप्रोत्फलद्भूतधानागाद् भ्राष्ट्रभूमिकाम्
द्वीपाब्धिकङ्कणश्रेणी मृज्जलाङ्गाग्निनारुणा । हृत्प्रकोष्ठे जगल्लक्ष्म्यास् सावतीर्णाभवत् तदा
शैलाश् चटचटास्फोटैर् वृक्षाẖ कटकटारवैः । देशा हलहलोल्लासैर् अलं विदलनं ययुः
अब्धयẖ क्वथिताकाराḫ फेनिलोल्लोलमांसलाः । वीचीकरतलाघातांश् चक्रुर् अर्कमुखे नु खे
अन्योऽन्यवेल्लितैर् लोलभूतलाङ्गारपर्वतान् । जह्रुर् वीचिकरैर् मोहजडाḫ प्रकुपिता इव
आशाकाशाशिनाम् एषां गुहागुलगुलारवान् । प्रपन्नश् शब्द आग्नेयो ज्वालाभडभडोद्भटः