एकादर्शे ऽखिलार्काणां प्रतिबिम्बम् इवोत्थितम् । उदभूत् त्रयम् अर्काणाम् अम्बरे दिग्गणाम्बरे
तद् द्वादशपरीमाणं दीप्तं वृन्दं विवस्वताम् । सर्वदिक्कं ददाहोच्चैश् शुष्कं वनम् इवानलः
अथोदभूज् जगत्षण्डशोषणग्रीष्मवासरः । अनग्निर् अग्निदाहो द्राग् अदृश्योल्मुकगुल्मकः
अनग्निनाग्निदाहेन तेन तामरसेक्षण । अङ्गानि दावदग्धानि स्विन्नानीव ममाभवन्
प्रदेशं तम् अथ त्यक्त्वा दूरम् आरूढवान् अहम् । दृढहस्ततलाघातहतकन्दुकवन् नभः
अपश्यं गगनस्थो ऽहम् उदितं चण्डतेजसम् । तपन्तं द्वादशादित्यगणं दिक्षु दशस्व् अपि
बृहद्भडभडारावज्वलद्घनवनाचलम् । महाकहकहाशब्दक्वथत्सप्ताब्धिडम्बरम्
सज्वालोल्मुकनीरन्ध्रलोकान्तरपुरान्तरम् । ज्वालाघनघटाटोपसिन्दूरीकृतपर्वतम्
डीयमानमहाङ्गारस्थिरविद्युत्ककुप्तटम् । स्फुरत्कटकटाटोपचटत्पत्तनमण्डलम्
विदलद्भूतलोद्भूतधूमदण्डैश् शिलाघनैः । काचस्तम्भसहस्राढ्यभुवनास्थानमण्डपम्
क्वथद्भूतमहाभूतताराक्रन्दातिघर्घरम् । लोकपालपुरापातस्फुटच्चटचटोद्भटम्
ताराविशरणोद्गारवृष्टरत्नधरातलम् । सर्वस्थलालयचलद्दह्यमानजनव्रजम्
सर्वदिक्कानलप्लोषगणदुर्दर्शदिक्तटम् । उत्तप्ताम्बुभरस्विन्नजलेचरमहार्णवम्
धराधरदरीरन्ध्रभ्रमत्कुण्डलिमण्डलम् । पतत्पर्वतनिष्पिष्टप्लुष्टपत्तनमण्डलम्
पतत्पचपचाशब्दशब्दिताब्ध्यद्रिकुञ्जकम् । तपत्तापोन्नमद्भूतज्वरितार्णवपर्वतम्
हृदयस्फोटनिस्सारपतद्विद्याधराङ्गनम् । आक्रन्दरोदनश्रान्तद्रवन्निश्शरणामरम्
नागलोकज्वलज्ज्वालापातालोत्तप्तभूतलम् । शुष्कार्णवस्खदापङ्कविवृत्तोग्रजलेचरम्
और्वेणाबिन्धनाभावात् प्रोड्डीयेव सहस्रधा । गतेन शतधोत्थाय गृहीतगगनाङ्गनम्
अथोदभूज् ज्वलज्ज्वालाकिंशुकांशुकशोभितः । ताण्डवायेव कल्पाग्निस् तरलोल्मुकमाल्यवान्
तारं पटपटाटोपी रटद्भट इवोद्भटः । ज्वालोद्भुजो धूम्रकचो जगज्जीर्णकुटीनटः
जज्वलुर् वनजालानि पुराणि नगराणि च । मण्डलद्वीपदुर्गाणि जङ्गलानि स्थलानि च
सर्वखानि महाकाशम् आशा दश दिवश् शिरः । श्वभ्रकूपारघट्टाट्टघट्टनोड्डारदिक्तटाः
शृङ्गाणि सिद्धवृन्दानि गिरयस् सागरार्णवाः । सरस्सरस्यस् सरितो देवासुरनरोरगाः
आशाश् शनशनाशब्दैḫ पुरुषैर् अशिवार्चिषाम् । आसन् क्ष्वेडाकुराक्षस्यो ज्वालाजालोज्ज्वलोर्ध्वजाः
भं भं भम् इति भाङ्कारैर् भीषणैर् भूरिभस्मभिः । ज्वालाश् श्वभ्राद्रिभूमीनां गुहाभ्यḫ परिनिर्ययुः
ज्वालोदरस्था अरुणास् समस्ता भूतजातयः । स्थलपद्मोदरालीनाम् आजह्रुश् श्रियम् अश्रियः
सद्योनिस्सृतरक्ताभैस् सिन्दूराम्भोदसुन्दरैः । धग् धग् धग् इति गायद्भिर् ज्वालाजालैर् जगद्गतैः
आसीद् रक्तांशुकैẖ कीर्णं सन्ध्याभ्रैर् इव वा नभः । उत्फुल्लकिंशुकवनैर् उड्डीनैर् इव वावृतम्
और्वेण वावृता आसन् फुल्लाशोकवना इव । स्थलाब्जवलिता रावविरावा इव चार्णवाः
नानावर्णज्वलज्ज्वालाधूमविन्यासबन्धवान् । रूढवान् हिमवान् धातुचित्रसौधतलश्रियम्