ब्रह्माण्डखण्डम् अस्याधो विस्तृतं पादयोस् तलम् । जानुमण्डलरन्ध्राणि पातालकुहराण्य् अधः
जलैश् शलशलायन्ती सुषिरानेकरन्ध्रिका । भूर् अन्त्रमण्डली लोला समुद्रद्वीपवेष्टना
जलैर् गुडगुडायन्त्यो नद्यो नाड्यस् सरद्रसाः । जम्बुद्वीपं हृदम्भोजम् अस्य हेमाद्रिकर्णिकम्
कुक्षयẖ ककुभश् शून्या यकृत्प्लीहादयो ऽचलाः । मृद्व्यस् स्निग्धाḫ पटाकारा मेदसो जालिका घनाः
चन्द्रार्कौ लोचने तस्य ब्रह्मलोको मुखं स्मृतम् । तेजस् सोमो ऽस्य कथितश् श्लेष्मा प्रालेयपर्वतः
अग्निलोकस् तथौर्वाग्निḫ पित्तम् अस्यातिदुस्सहम् । वातस्कन्धो महावाताḫ प्राणापाना हृदि स्थिताः
कल्पद्रुमवनान्य् अस्य सर्पवृन्दानि च क्वचित् । लोमजालान्य् अनन्तानि वनान्य् उपवनानि च
ऊर्ध्वं ब्रह्माण्डखण्डं तु समस्तम् उरुमस्तकम् । ब्रह्माण्डप्रान्तरन्ध्रार्चिर् अस्य दीप्ता शिखोत्थिता
स्वयम् एव मनस् तेन मनो नास्योपयुज्यते । आत्मैव भाज्यताम् एति किल कस्य कथं कुतः
स्वयम् एवेन्द्रियाण्य् एष तेनान्यत्रास्तिता कृता । यतस् तत्कल्पनामात्रम् एवेन्द्रियगणẖ किल
अवयवावयविनोर् इवेहेन्द्रियचित्तयोः । न मनाग् अपि भेदो ऽस्ति नैक्यम् एकशरीरयोः
तस्य तान्य् एव कार्याणि जगतां यानि कानिचित् । सङ्कल्पा एव पुंवृत्त्या चलन्त्या रूषितद्विताः
जागते तस्य विज्ञेये नान्ये ऽस्य मृतिजन्मनी । स एवेदं जगत् तस्मात् सङ्कल्पात्मास्ति नेतरत्
तत्सत्तया जगत्सत्ता तन्मृत्यैव जगन् मृतम् । यादृशी स्पन्दमरुतोस् सत्तैका तादृशी तयोः
जगद्विराजोस् सत्तैका पवनस्पन्दयोर् इव । जगद् यत् स विराड् एव यो विराट् तज् जगत् स्मृतम्
जगद् ब्रह्मा विराट् चेति शब्दाḫ पर्यायवाचकाः । सङ्कल्पमात्रम् एवैते शुद्धचिद्व्योमरूपिणः
सङ्कल्पात्मा विराड् एव खम् एवाकृतिम् आगतम् । अस्तु नाम स्वदेहान्तẖ कथं ब्रह्मैष तिष्ठति
यथा ध्यानेन देहान्तस् तिष्ठसि त्वं यथास्थितम् । तथास्ते निजदेहे ऽन्तस् सङ्कल्पात्मा पितामहः
नृणां तथा च मुख्यानां श्रीर् या ब्रह्मपुरोदरे । उत्पत्तिपुत्रिकादेहप्रतिबिम्बोपमास्ति सा
यत्र त्वम् अपि देहान्तẖ कर्तुं शक्नोष्य् अलं स्थितिम् । सङ्कल्पात्मा विभुस् तत्र ब्रह्मा किं न करिष्यति
बीजे ऽन्तस् स्थावरे ह्य् आस्ते पदार्थो यत्र जङ्गमः । किं नास्ते तत्र देहे ऽन्तर् निजे चित्कल्पनात्मकः
साकारो गगनात्मास्तु निराकारं खम् अस्तु वा । आस्ते बहिर् अथान्तश् च भिन्ने बाह्यान्तरे न हि
आत्मारामẖ काष्ठमौनी नजडो ऽपि दृषज्जडः । अहं त्वम् इत्यादिमयो विराड् आत्मनि तिष्ठति
आवेष्टितोज्झितलतातृणदारुपुंवद् उच्छब्दम् अम्बुरयवच् च विचोपिताङ्गः । नानाविधे हि विहरन्न् अपि कार्यजाले तज्ज्ञश् शिलाजठरशान्तमनस्क एव
अथाग्रस्थब्रह्मलोके ब्रह्मणि ध्यानशालिनि । निक्षिप्ताक्षश् शनैर् दिक्षु दृष्टवान् अमलं ह्य् अहम्
द्वितीयम् अर्कं मध्याह्ने पश्चाद् अभ्युदितं स्फुटम् । दिग्दाहम् इव दिग्वक्त्रे वनदाहम् इवाचले
वह्निलोकम् इव व्योम्नि वडवाग्निम् इवार्णवे । ततो ऽपश्यम् अहं दीप्तं सूर्यं नैरृतदिङ्मुखे
सूर्यं याम्यैकदिग्भागे सूर्यम् अग्निकदिङ्मुखे । सूर्यम् ऐन्द्रैकदिग्भागे सूर्यम् ईशानदिङ्मुखे
सूर्यं कुबेरककुभि सूर्यं वायव्यदिक्तटे । सूर्यं वारुणदिग्भागे तेन विस्मितवान् अहम्
यावद् विचारयाम्य् आशु विधिवैधुर्यम् आकुलः । उदभूद् भूतलात् तावद् अर्क और्व इवार्णवात्