नास्ति दृश्यं जगद् द्रष्टा दृश्याभावाद् विलीनवत् । भातीति भासनं यत् स्यात् तद् रूपं तस्य वस्तुनः
चितेर् जीवस्वभावो यो यदि चेत्योन्मुखो वपुः । चिन्मात्रं विमलं शान्तं यत् तत् कारणकारणम्
अङ्गुष्ठस्याथ वाङ्गुल्या वाताद्यस्पर्शने सति । जीवतश् चेतसो रूपं यत् तद् परमम् आत्मनः
अस्वप्नाया अनन्ताया अजडाया घनस्थितेः । यद् रूपं चिरचिन्तायास् तत् तदानघ शिष्यते
यद् व्योम्नो हृदयं यद् वा शिलायाः पवनस्य च । तस्याचेत्यस्य चिद्व्योम्नस् तद् रूपं परमात्मनः
अचेत्यस्यामनस्कस्य जीवतो या क्रियावतः । स्यात् स्थितिस् सा परा शान्ता सत्ता तस्याद्यवस्तुनः
चित्प्रकाशस्य यन् मध्यं प्रकाशस्य घनस्य वा । दर्शनस्य च यन् मध्यं तद् रूपं परमात्मनः
वेदनस्य प्रकाशस्य दृश्यस्य तमसस् तथा । वेदनं यद् अनाद्यन्तं तद् रूपं परमात्मनः
यतो जगद् उदेतीव नित्यानुदितरूप्य् अपि । विभिन्नवद् इवाभिन्नं तद् रूपं पारमात्मनः
व्यवहारपरस्यापि यत् पाषाणवद् आसनम् । अव्योम्न एव व्योमत्वं तद् रूपं पारमात्मिकम्
वेद्यवेदनवेत्तृत्वरूपत्रयम् इदं पुनः । यत्रोदेत्य् अस्तम् आयाति तत् तत् परमम् उत्तमम्
वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति । अबुद्ध्यादौ महादर्शे तद् रूपं परमं स्मृतम्
मनष्षष्ठेन्द्रियोन्मुक्तं यद् रूपं स्यान् महाचितेः । जङ्गमे स्थावरे वापि तत् सर्गान्ते ऽवशिष्यते
स्थावराणां हि यद् रूपं तच् चेद् बोधमयं भवेत् । मनोबुद्ध्यादिनिर्मुक्तं तत् परेण समं भवेत्
ब्रह्मार्कविष्णुहरशक्रसदाशिवादिशान्तौ शिवं परमम् एतद् इहैकम् आस्ते । शिष्टं प्रदिष्टम् अविनष्टम् अकष्टम् इष्टं मिश्रं न मिश्रम् अणुनाश्रितम् आश्रितेन
इत्थंरूपम् इदं दृश्यं जगन् नामास्ति भासुरम् । महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति
कुत आयाति कीदृग् वा वन्ध्यापुत्रः क्व गच्छति । क्व याति कुत आयाति वद वा व्योमकाननम्
वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति । कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता
वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन । जगदाद्य् अखिलं दृश्यं तथा नास्ति कदाचन
न चोत्पन्नं न च ध्वंसि यत् किलादौ न विद्यते । उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा
वन्ध्यापुत्रनभोवृक्षकल्पना तावद् अस्ति हि । सा यथा नाशजन्माद्या तथैवेदं न किं भवेत्
फुल्लस्यातुलभुस् सम्यग् आलकैः कुरु कोलनम् । निरन्वया यथैवोक्तिर् जगत्सत्ता तथैव हि
यथा सौवर्णकटके दृश्यमानम् अपि स्फुटम् । कटकत्वं तु नास्त्य् एव जगत्त्वं तु तथा परे
आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् । जगत्त्वं ब्रह्मणि तथा नास्त्य् एवाप्य् उपलब्धिमत्
कज्जलान् न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् । पृथग् एव भवेद् बुद्धं जगन् नास्ति परे पदे
यथा च शैत्यं शशिनो न हिमाद् व्यतिरिच्यते । ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान्
मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता । नास्त्य् एवैवं जगन् नास्ति दृष्टम् अप्य् अमलात्मनि
संविद्विलोचनालोको भात्य् अयं संविदम्बरे । जगदाख्ये ऽमले व्योम्नि दृष्टिमुक्तावली यथा
चिदाकाशे चिदाकाशश् चित्त्वाद् यः कचति स्वयम् । तद् एव तेन रूपं स्वं जगद् इत्य् अवबुध्यते
आदाव् एव हि यन् नास्ति कारणासम्भवात् स्वयम् । वर्तमाने ऽपि तन् नास्ति नाशस् स्यात् तत्र कीदृशः