वपुर् विराजो जगद् अङ्ग विद्धि सङ्कल्परूपस्य हि कल्पनात्म । आकाशशैलावनिसागरादि सर्वं चिदाकाशम् अतḫ प्रशान्तम्
तस्मिन् कल्पे तु सङ्कल्पे तस्य यद् वपुर् आस्थितम् । शृणु तत्र व्यवस्थेयं विचित्राचारहारिणी
परमं यच् चिदाकाशं तद् विराडात्मनो वपुः । आद्यन्तमध्यरहितं लघु त्व् अस्य वपुर् जगत्
सङ्कल्परचितो ब्रह्मा स्वाण्डं सङ्कल्पनात्मकम् । वपुषḫ परितो भास्वत् पश्यत्य् आकाशम् एव तत्
ब्रह्मात्मैष स सङ्कल्पस् स्वम् अण्डम् अकरोद् द्विधा । तैजसं तैजसाकारḫ पुष्टḫ पुष्टं विहङ्गवत्
अण्डस्यैकं नभो दूरं गतं सम्बुद्धवान् असौ । दूरे ऽधस् संस्थितं भागं व्यतिरिक्तं च नात्मनः
ब्रह्माण्डभाग ऊर्ध्वस्थो विराजश् शिर उच्यते । अधोभागो ऽस्य पादाख्यो निरन्तं मध्यम् अत्र खम्
दूरं वियुक्तयोस् सन्धिẖ खण्डयोर् अतिविस्तृता । अनन्ता व्योमलेखेति श्यामा शून्या च दृश्यते
द्यौस् तालु विपुलं तस्य तारा रुधिरबिन्दवः । संविद्वातलवा देहे सुरासुरनरादयः
देहे ऽन्तẖ क्रिमयस् तस्य भूतप्रेतपिशाचकाः । लोकान्तराणि रन्ध्राणि सुषिराण्य् अस्य देहके
ब्रह्माण्डखण्डम् अस्याधो विस्तृतं पादयोस् तलम् । जानुमण्डलरन्ध्राणि पातालकुहराण्य् अधः
जलैश् शलशलायन्ती सुषिरानेकरन्ध्रिका । भूर् अन्त्रमण्डली लोला समुद्रद्वीपवेष्टना
जलैर् गुडगुडायन्त्यो नद्यो नाड्यस् सरद्रसाः । जम्बुद्वीपं हृदम्भोजम् अस्य हेमाद्रिकर्णिकम्
कुक्षयẖ ककुभश् शून्या यकृत्प्लीहादयो ऽचलाः । मृद्व्यस् स्निग्धाḫ पटाकारा मेदसो जालिका घनाः
चन्द्रार्कौ लोचने तस्य ब्रह्मलोको मुखं स्मृतम् । तेजस् सोमो ऽस्य कथितश् श्लेष्मा प्रालेयपर्वतः
अग्निलोकस् तथौर्वाग्निḫ पित्तम् अस्यातिदुस्सहम् । वातस्कन्धो महावाताḫ प्राणापाना हृदि स्थिताः
कल्पद्रुमवनान्य् अस्य सर्पवृन्दानि च क्वचित् । लोमजालान्य् अनन्तानि वनान्य् उपवनानि च
ऊर्ध्वं ब्रह्माण्डखण्डं तु समस्तम् उरुमस्तकम् । ब्रह्माण्डप्रान्तरन्ध्रार्चिर् अस्य दीप्ता शिखोत्थिता
स्वयम् एव मनस् तेन मनो नास्योपयुज्यते । आत्मैव भाज्यताम् एति किल कस्य कथं कुतः
स्वयम् एवेन्द्रियाण्य् एष तेनान्यत्रास्तिता कृता । यतस् तत्कल्पनामात्रम् एवेन्द्रियगणẖ किल
अवयवावयविनोर् इवेहेन्द्रियचित्तयोः । न मनाग् अपि भेदो ऽस्ति नैक्यम् एकशरीरयोः
तस्य तान्य् एव कार्याणि जगतां यानि कानिचित् । सङ्कल्पा एव पुंवृत्त्या चलन्त्या रूषितद्विताः
जागते तस्य विज्ञेये नान्ये ऽस्य मृतिजन्मनी । स एवेदं जगत् तस्मात् सङ्कल्पात्मास्ति नेतरत्
तत्सत्तया जगत्सत्ता तन्मृत्यैव जगन् मृतम् । यादृशी स्पन्दमरुतोस् सत्तैका तादृशी तयोः
जगद्विराजोस् सत्तैका पवनस्पन्दयोर् इव । जगद् यत् स विराड् एव यो विराट् तज् जगत् स्मृतम्
जगद् ब्रह्मा विराट् चेति शब्दाḫ पर्यायवाचकाः । सङ्कल्पमात्रम् एवैते शुद्धचिद्व्योमरूपिणः
सङ्कल्पात्मा विराड् एव खम् एवाकृतिम् आगतम् । अस्तु नाम स्वदेहान्तẖ कथं ब्रह्मैष तिष्ठति
यथा ध्यानेन देहान्तस् तिष्ठसि त्वं यथास्थितम् । तथास्ते निजदेहे ऽन्तस् सङ्कल्पात्मा पितामहः
नृणां तथा च मुख्यानां श्रीर् या ब्रह्मपुरोदरे । उत्पत्तिपुत्रिकादेहप्रतिबिम्बोपमास्ति सा
यत्र त्वम् अपि देहान्तẖ कर्तुं शक्नोष्य् अलं स्थितिम् । सङ्कल्पात्मा विभुस् तत्र ब्रह्मा किं न करिष्यति