तेजोऽणुमात्रप्रथितं चेतित्वा प्रथमं वपुः । क्रमेण स्फारसंवित्तिर् महान् अहम् इति स्थितः
स्पन्दसंवेदनात् तेन स्पन्द इत्य् अनुभूयते । यस् स एवानिलाभिख्यो वातस्कन्धात्मना स्थितः
प्राणापानपरिस्पन्दो वेदनाद् अनुभूयते । तेन यस् सो ऽयम् आकाशे वातस्कन्ध उदाहृतः
चित्त्वाद् ये कल्पितास् तेन बालेनेव पिशाचकाः । तेजẖकणा असन्तो ऽपि त एते धिष्ण्यतां गताः
प्राणापानपरावर्तदोला तदुदरोदिता । वातस्कन्धाभिधां धत्ते जगत् तद्धृदयं बृहत्
प्रतिच्छन्दश् शरीराणां प्रथमं बीजम् एष सः । जगद्गतानां सर्वेषाम् आकल्पव्यवहारिणाम्
प्रतिच्छन्दाद् यदैतस्माद् उत्थिता जगदात्मनः । देहास् तदा यथा बाह्यम् अन्तर् एषां तथा स्थितम्
चितिस् तस्याद्यबीजस्य पूर्वम् एव यथोदिता । तथैवाद्यापि जीवे ऽन्तस् तथोदेति तदीहिता
श्लेष्मपित्तानिलास् तस्य चन्द्रार्कपवनास् त्रयः । ग्रहा ऋक्षगणास् तस्य प्राणे ष्ठीवनशीकराः
तस्यास्थीन्य् अद्रिजालानि मेदसो जालिका घनाः । शिरḫ पादौ त्वचं देहात् पश्यामस् तस्य नो वयम्
वपुर् विराजो जगद् अङ्ग विद्धि सङ्कल्परूपस्य हि कल्पनात्म । आकाशशैलावनिसागरादि सर्वं चिदाकाशम् अतḫ प्रशान्तम्
तस्मिन् कल्पे तु सङ्कल्पे तस्य यद् वपुर् आस्थितम् । शृणु तत्र व्यवस्थेयं विचित्राचारहारिणी
परमं यच् चिदाकाशं तद् विराडात्मनो वपुः । आद्यन्तमध्यरहितं लघु त्व् अस्य वपुर् जगत्
सङ्कल्परचितो ब्रह्मा स्वाण्डं सङ्कल्पनात्मकम् । वपुषḫ परितो भास्वत् पश्यत्य् आकाशम् एव तत्
ब्रह्मात्मैष स सङ्कल्पस् स्वम् अण्डम् अकरोद् द्विधा । तैजसं तैजसाकारḫ पुष्टḫ पुष्टं विहङ्गवत्
अण्डस्यैकं नभो दूरं गतं सम्बुद्धवान् असौ । दूरे ऽधस् संस्थितं भागं व्यतिरिक्तं च नात्मनः
ब्रह्माण्डभाग ऊर्ध्वस्थो विराजश् शिर उच्यते । अधोभागो ऽस्य पादाख्यो निरन्तं मध्यम् अत्र खम्
दूरं वियुक्तयोस् सन्धिẖ खण्डयोर् अतिविस्तृता । अनन्ता व्योमलेखेति श्यामा शून्या च दृश्यते
द्यौस् तालु विपुलं तस्य तारा रुधिरबिन्दवः । संविद्वातलवा देहे सुरासुरनरादयः
देहे ऽन्तẖ क्रिमयस् तस्य भूतप्रेतपिशाचकाः । लोकान्तराणि रन्ध्राणि सुषिराण्य् अस्य देहके
ब्रह्माण्डखण्डम् अस्याधो विस्तृतं पादयोस् तलम् । जानुमण्डलरन्ध्राणि पातालकुहराण्य् अधः
जलैश् शलशलायन्ती सुषिरानेकरन्ध्रिका । भूर् अन्त्रमण्डली लोला समुद्रद्वीपवेष्टना
जलैर् गुडगुडायन्त्यो नद्यो नाड्यस् सरद्रसाः । जम्बुद्वीपं हृदम्भोजम् अस्य हेमाद्रिकर्णिकम्
कुक्षयẖ ककुभश् शून्या यकृत्प्लीहादयो ऽचलाः । मृद्व्यस् स्निग्धाḫ पटाकारा मेदसो जालिका घनाः
चन्द्रार्कौ लोचने तस्य ब्रह्मलोको मुखं स्मृतम् । तेजस् सोमो ऽस्य कथितश् श्लेष्मा प्रालेयपर्वतः
अग्निलोकस् तथौर्वाग्निḫ पित्तम् अस्यातिदुस्सहम् । वातस्कन्धो महावाताḫ प्राणापाना हृदि स्थिताः
कल्पद्रुमवनान्य् अस्य सर्पवृन्दानि च क्वचित् । लोमजालान्य् अनन्तानि वनान्य् उपवनानि च
ऊर्ध्वं ब्रह्माण्डखण्डं तु समस्तम् उरुमस्तकम् । ब्रह्माण्डप्रान्तरन्ध्रार्चिर् अस्य दीप्ता शिखोत्थिता
स्वयम् एव मनस् तेन मनो नास्योपयुज्यते । आत्मैव भाज्यताम् एति किल कस्य कथं कुतः
स्वयम् एवेन्द्रियाण्य् एष तेनान्यत्रास्तिता कृता । यतस् तत्कल्पनामात्रम् एवेन्द्रियगणẖ किल