उपलब्धं विदुर् द्रव्यं द्रष्टृतात्रोपलब्धृता । आलोकनं दर्शनता दृग् आलोकनकारणम्
एवम् उच्छूनता भाति मितानन्ताथ वा क्रमात् । असत्यैव नभस्य् एव नभोरूपैव निष्प्रमा
चिदणोर् भासनं भातं तत्प्रदेशेन देहगम् । येन पश्यति तच् चक्षुस् तच् छ्रोत्रं येन च श्रुतिः
येन जिघ्रति तद् घ्राणं येन स्पृशति चर्म तत् । रस्यते येन सा जिह्वा सङ्ग्रहो ऽक्षदृशाम् इति
चिदणुप्रतिभासे ऽन्तḫ प्रथमं नामवर्जितम् । तन्मात्रवृन्दम् एतेषाम् एतदाकाशरूपि तत्
चिदणुप्रतिभाकाशपिण्ड एकघनस्थितिः । अनुसन्धानविवशश् चेततीन्द्रियपञ्चकम्
एवं चिदनुसन्धानं दृश्यपोषम् उपैत्य् अलम् । तद् एव ज्ञानम् इत्य् उक्तं बुद्धिर् इत्य् अभिधीयते
ततो मनस्तया रूढम् अहङ्कारपदं गतम् । देशकालपरिच्छेद इत्य् अङ्गीकृत आत्मना
चिदणोर् अस्य भावस्य प्रत्यग्रं यत्र वेदनम् । स तत्रोत्तरकालेन पूर्वाभिख्यां करिष्यति
अन्यस्मिन्न् एकदेशे ऽसाव् ऊर्ध्वाभिख्यां करिष्यति । एवं दिगभिधानादि कल्पयिष्यति स क्रमात्
देशकालक्रियाद्रव्यशब्दानाम् अर्थवेदनम् । भविष्यति स्वयम् असाव् आकाशविशदो ऽपि सन्
इत्थं स्वानुभवेनैष व्योम्न्य् एव व्योमरूपधृत् । आतिवाहिकनामान्तर् देहस् सम्पद्यते चितः
एष एव चिरं कालं तत्र भावनया तया । गृह्णाति निश्चयं पूर्णम् आधिभौतिकम् आत्मनः
व्योम्ना व्योम्न्य् एव रचितो निर्मलेनेति विभ्रमः । असतासत् समास्तीर्णं तापनद्या जलं यथा
सङ्कल्पनाम् उपादत्ते स्वदेहे गगनाकृतिः । शिरश्शब्दार्थदां काञ्चित् पादशब्दार्थदां क्वचित्
उरḫपार्श्वादिशब्दार्थमयीं क्वचिद् अनाबिलाम् । भावाभावग्रहोत्सर्गशब्दाद्यर्थमयीम् अपि
नियताकारकलनां देशकालादियन्त्रिताम् । विषयोन्मुखतां याताम् इन्द्रियव्रातवेधिताम्
सो ऽणुḫ पश्यत्य् अथाकारम् आत्मनस् स्वात्मकल्पितम् । हस्तपादादिकलितं चित्तादिकलनान्वितम्
एवं सम्पद्यते ब्रह्मा तथा सम्पद्यते हरिः । एवं सम्पद्यते रुद्र एवं सम्पद्यते क्रिमिः
न च किञ्चन सम्पन्नं यथास्थितम् अवस्थितम् । शून्यं शून्ये विलसितं ज्ञप्तौ ज्ञप्तिर् विजृम्भिता
प्रतिच्छन्दश् शरीराणां बीजं त्रैलोक्यवीरुधाम् । सर्गार्गडप्रदो मुक्तेस् संसारासारवारिदः
कारणं सर्वकार्याणां नेता कालक्रियादिषु । स चाद्यḫ पुरुषस् स्वैरम् इत्य् अनुत्थित उत्थितः
नास्य भूतमयो देहो नास्यास्थीनि शरीरके । अवष्टब्धुम् असौ मुष्ट्या शक्यते न च केनचित्
तेनाब्धिमेघसङ्ग्रामसिंहगर्जोर्जितात्मना । अपि सुप्तनरेणेव नूनं मौनवता स्थितम्
जाग्रतस् स्वप्नसन्दृष्टयोधारभटवेदनम् । यथा स्मृतिगतं नासन् न सत् तद्वद् असौ स्थितः
बहुयोजनलक्षौघप्रमाणो ऽपि बृहद्वपुः । परमाण्वन्तरे माति लोमान्तस्स्थजगत्त्रयः
कुलशैलगुणौघात्मा बृहद्वृन्दात्मको ऽपि सन् । तुलायां धानकामात्रम् अपि नापूरयत्य् अजः
जगत्कोटिशताभोगविस्तीर्णो ऽप्य् अणुमात्रकम् । वस्तुतो व्याप्तवान् एष न देशं स्वप्नशैलवत्
स्वयम्भूर् एष कथितो विराड् एष स उच्यते । ब्रह्माण्डात्मा जगद्देहो वस्तुतस् तु नभोमयः
सनातन इति प्रोक्तो रुद्र इत्य् अपि सञ्ज्ञितः । इन्द्रोपेन्द्रमरुन्मेघशैलजालादिदेहकः