यदा त्व् अत्र परिज्ञानम् अस्मदादेस् तदाततम् । इदं संसरणं विद्धि शून्यं सत्यम् इव स्थितम्
यथाभूतपरिज्ञानाद् अत्र शाम्यति वासना । अद्वैतान् निरहङ्कारात् ततो मोक्षो ऽवशिष्यते
एवम् एष स यो ब्रह्मा स एवेदं जगत् स्थितम् । विराजो ब्रह्मणो राम देहो यस् तद् इदं जगत्
सङ्कल्पाकाशरूपस्य तस्य या भ्रान्तिर् उत्थिता । तद् इदं जगद् आभाति तद् ब्रह्माण्डम् उदाहृतम्
सर्वम् आकाशम् एवेदं सङ्कल्पकलनात्मकम् । वस्तुतस् त्व् अस्ति न जगत् त्वत्तामत्ते च न क्वचित्
क्व चिन्मात्रे ऽमले व्योम्नि कथं वा केन वा जगत् । किं जायते किम् अत्रास्ति कारणं सहकारि यत्
अतो ऽलीकम् इदं जातम् अलीकं परिदृश्यते । अलीकं स्वदते ऽलीकम् एव नश्यति शून्यकम्
जगदादिकया भासा चिन्मात्रं स्वदते स्वतः । आत्मनात्माम्बरे द्वैतं स्पन्दनेनेव मारुतः
इदं किञ्चिन् नकिञ्चिद् वा द्वैताद्वैतविवर्जितम् । चिदाकाशं जगद् विद्धि शून्यम् अच्छं निरामयम्
शान्ताशेषविशेषो ऽहं तेन राघव संस्थितः । सन्न् एवासन्न् इवातस् त्वम् एवम् एवास्स्व निर्ममः
निर्वासनश् शान्तमना मौनी विगतचापलः । सर्वं कुरु यथाप्राप्तं कुरु वा मात्र किं ग्रहः
अनादिनित्यानुभवो य एकस् स एव दृश्यं न तु दृश्यम् अन्यत् । सत्यानुभूतेर् अनुभूतयो यास् सुविस्तृता दृश्यमहादृशस् ताः
बन्धमोक्षजगद्बुद्धिर् न शून्या नापि सन्मयी । नास्तम् एति न चोदेति किम् अप्य् आद्यम् असौ किल
उपदिष्टम् इदं ब्रह्मंस् त्वया बुद्धम् अलं मया । भूयẖ कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम्
सर्गादिसम्भ्रमदृशश् शून्यतादिदृशस् तथा । न काश्चन विभो सत्या असत्या न च काश्चन
एवं स्थिते तु यत् सत्यं तत् सर्वं बुद्धवान् अहम् । तथापि भूयो बोधाय सर्गानुभव उच्यताम्
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वप्रकाराढ्यं देशकालक्रियादिमत्
तस्य नाशे महानाशे महाप्रलयनामनि । ब्रह्मोपेन्द्रमरुद्रुद्रमहेन्द्रपरिणामिनि
शिष्यते शान्तम् अत्यच्छं किम् अप्य् अजम् अनादिमत् । यतो वाचो निवर्तन्ते किम् अन्यद् अवगम्यते
सर्षपापेक्षया मेरुर् यथातिवितताकृतिः । तथाकाशम् अपि स्थूलं शून्यं सद् यदपेक्षया
अमाने ऽकलिते सोम्ये ऽकाले ऽपरिणते चिरम् । शान्ते तस्मिन् परे व्योमन्य् आद्ये ह्य् अनुभवात्मनि
असङ्कल्पो महाशान्तो दिक्कालैर् अमिताकृतिः । अन्तर् महांश् चिदाकाशो वेत्तीव परमाणुताम्
असत्याम् एव ताम् अन्तर् भावयन् स्वप्नवत् स्वतः । ततस् स ब्रह्मशब्दार्थां वेत्ति चिद्रूपतां तताम्
विद्भावो ऽनुभवत्य् अन्तश् चित्त्वाच् चिदणुतां निजाम् । ताम् एव पश्यतीवाथ ततो द्रष्टेव तिष्ठति
यथा स्वप्ने मृतिं पश्यत्य् एक एवात्मनात्मनः । मृत एव मृतेर् द्रष्टा तथा चिदणुर् आत्मनि
ततश् चिद्भाव एषो ऽन्तर् एक एव द्विताम् इव । पश्यन् खरूप एवास्ते द्रष्टृदृश्यम् इव स्थितः
चिद्भावश् शून्य एवातिनिराकारो ऽप्य् अणुं तनुम् । पश्यन् दृश्यम् इवोदेति द्रष्टेव च तदा द्विता
प्रकाशम् अणुम् आत्मानं पश्यंस् तदनुभावतः । उच्छूनतां चेतयते बीजम् अङ्कुरताम् इव
देशकालक्रियाद्रव्यद्रष्टृदर्शनदृग्दृशः । अर्थान्तरस्वभावेन तिष्ठन्त्य् अनुदिताभिधाः
चिदणुर् यत्र भातो ऽसौ देशो मितिम् उपागतः । यदा भातस् तदा कालो यद् भानं सा क्रिया स्मृता